भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.44

12.44.1

प्राप्य राज्यं महाबाहुर्धर्मपुत्रो युधिष्ठिरः ।
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥

12.44.2

भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः ।
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥
वैशम्पायन उवाच ।

12.44.3

शृणु तत्त्वेन राजेन्द्र कीर्त्यमानं मयाऽनघ ।
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥

12.44.4

प्राप्य राज्यं महाराज कुन्तीपुत्रो युधिष्ठिरः ।
वर्णान्संस्थापयामास नयेन विनयेन च ॥

12.44.5

ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् ।
सहस्रनिष्कैरेकैकं तर्पयामास पाण्डवः ॥

12.44.6

तथाऽनुजीविनो भृत्यान्संश्रितानतिथीनपि ।
कामैः सन्तर्पयामास कृपणांस्तार्किकानपि ॥

12.44.7

पुरोहिताय धौम्याय प्रादादयुतशः स गाः ।
धनं सुवर्णं रजतं वासांसि विविधान्यपि ॥

12.44.8

कृपाय च महाराज पितृवत्तमतर्पयत् ।
विदुराय च राजाऽसौ पूजां चक्रे यतव्रतः ॥

12.44.9

भक्ष्यान्नपानैर्विविधैर्वासोभिः शयनासनैः ।
सर्वान्सन्तोपयामास संश्रितान्ददतां वरः ॥

12.44.10

लब्धप्रशमनं कृत्वा स राजा राजसत्तम ।
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायेशाः ॥

12.44.11

धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च ।
निवेद्य सुस्थवद्राजा सुखमास्ते युधिष्ठिरः ॥

12.44.12

तथा सर्वं स नगरं प्रसाद्य भरतर्षभ ।
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥

12.44.13

ततो महति पर्यङ्के मणिकाञ्चनभूषिते ।
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥

12.44.14

जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् ।
पीतकौशेयवसनं हेम्नेवोपगत मणिम् ॥

12.44.15

कौस्तुभेनोरसिस्थेन मणिनाऽभिविराजितम् ।
उद्यतेवोदयं शैलं सूर्येणाभिविराजितम् ॥

12.44.16

नौपम्यं विद्यते तस्य त्रिषु लोकेषु किञ्चन ॥

12.44.17

सोऽभिगम्य महात्मानं विष्णुं पुरुषसत्तमम् ।
उवाच मधुरं राजा स्मितपूर्वमिदं तदा ॥

12.44.18

सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर ।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥

12.44.19

तथैवोपश्रिता देवी बुद्धिर्बुद्धिमतां वर ।
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥

12.44.20

तव प्रसादाद्भगवंस्त्रिलोकगतिविक्रम ।
जयं प्राप्ता यशश्चाग्र्यं न च धर्मच्युता वयम् ॥

12.44.21

तं तथा भाषमाणं तु धर्मराजमरिन्दमम् ।
नोवाच भगवान्किञ्चिद्ध्यानमेवान्वपद्यत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc