भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.372

12.372.1

विवस्वतो गच्छति पर्ययेण वोडुं भवांस्तं यथमेकचक्रम् ।
आश्चर्यभूतं यदि तत्र किञ्चि द्दृष्टं त्वयाशंसितुमर्हसि त्वम् ॥
नाग उवाच ।

12.372.2

आश्चर्याणामनेकानां प्रतिष्ठा भगवान्रविः ।
यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसम्मताः ॥

12.372.3

यस्य रश्मिसहस्रेषु शाखास्विव विहन्गमाः ।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥

12.372.4

यतो पायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् ।
विजृम्भत्यम्बरे तत्र किमाश्चर्यमतः परम् ॥

12.372.5

विभज्यं तं तु विप्रर्षे प्रजानां हितकाम्यया ।
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥

12.372.6

यस्य मण्डलमध्यस्थो महात्मा परमत्विषा । 12-372-6 दीप्तः समीक्षतेऽलोकान्किमाश्चर्यमतः परम् ॥

12.372.7

शुक्रो नामासितः पादो यश्च वारिधरोऽम्बरे ।
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥

12.372.8

योऽष्टमासांस्तु शुचिना किरणेनोक्षितं पयः ।
प्रत्यादत्ते पुनः काले किमाश्चर्यमतः परम् ॥

12.372.9

यस्य तेजोविशेषेषु स्वयमात्मा प्रतिष्ठितः ।
यतो बीजं मही चेयं धार्यते सचराचरम् ॥

12.372.10

यत्र देवो महाबाहुः शाश्वतः पुरुषोत्तमः ।
अनादिनिधनो विप्र किमाश्चर्यमतः परम् ॥

12.372.11

आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु ।
विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ॥

12.372.12

पुरा मध्याह्नसमये लोकांस्तपति भास्करे ।
प्रत्यादित्यप्रतीकाशः सर्वतः समदृश्यत ॥

12.372.13

स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् ।
आदित्याधिमुखोऽभ्येति गगनं पाटयन्निव ॥

12.372.14

हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः ।
अनिर्देश्येन रूपेण द्वितीय इव भास्करः ॥

12.372.15

तस्याभिगमनप्राप्तौ हस्तौ दत्तौ विवस्वता ।
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चितार्थिना ॥

12.372.16

ततो भित्त्वैव गगन प्रविष्टो रश्मिमण्डलम् ।
एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ॥

12.372.17

तत्र नः संशयो जातस्तयोस्तेजः समागमे ।
अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ॥

12.372.18

ते वयं जातसन्देहाः पर्यपृच्छामहे रविम् ।
क एष दिवमाक्रम्य गतः सूर्य इवापरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc