महाभारत · अध्याय 12.370
अथ ब्राह्मणरूपेण कं तं समनुपश्यसि ।
मानुषं केवलं विप्रं देवं वाऽथ शुचिस्मिते ॥
को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि ।
सन्दर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति ॥
सुरासुरगणानां च देवर्षीनां च भामिनि ।
ननु नागा महावीर्याः सौरभेयास्तरस्विनः ॥
वन्दनीयाश्च वरदा वयमप्यनुयायिनः ।
मनुष्याणां विशेषेण नावेक्ष्या इति मे मतिः ॥
नारभार्योवाच ।
आर्जवेन विजानामि नासौ देवोऽनिलाशन ।
एकं तस्मिन्विजानामि भक्तिमानतिरोपण ॥
स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा ।
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षते ॥
हित्वा त्वद्दर्शनं किञ्चिद्विघ्नं न प्रतिपालयेत् ।
तुल्योप्यभिजने जातो न कश्चित्पर्युपासते ॥
तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि ।
आशाच्छेदेन तस्याद्य नात्मानं दरधुमर्हसि ॥
आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम् ।
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते ॥
मौने ज्ञानफलावाप्तिर्दानेन च यशो महत् ।
वाग्मित्वं सत्यवाक्येन परत्र च महीयते ॥
भूप्रदानेन च गतिं लभत्याश्रमसम्मिताम् ।
न्याय्यस्यार्धस्य सम्प्राप्तिं कृत्वा फलमुपाश्रुते ॥
अभिप्रेतामसंश्लिष्टां कृत्वा चात्महितां क्रियाम् ।
न याति निरयं कश्चिदिति धर्मविदो विदुः ॥
नाम उवाच ।
अभिमानैर्न मानो मे जातिदोषेण वै महान् ।
रोषः सन्कल्पजः साध्वि दग्धो वागग्निना त्वया ॥
न च रोषादहं साध्वि पश्येयमधिकं तमः ।
तस्य वक्तव्यतां याति विशेषेण भुजङ्गमाः ॥
रोषस्य हि वशं गत्वा दशग्नीवः प्रतापवान् ।
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे ॥
अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम् ।
धर्मणारोषसंविग्नाः कार्तवीर्यसुता हताः ॥
जामदग्न्येन रामेण सहस्रनयनोपमः ।
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः ॥
तदेष तपसां शत्रुः श्रेयसां विनिपातकः ।
निगृहीतो मया रोषः श्रुत्वैवं वचनं तव ॥
आत्मानं च विशेषेण प्रशंसाम्यनपायिनि ।
यस्य मे त्वं विशालाक्षि भार्या गुणसमन्विता ॥
एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः ।
सर्वथा चोक्तवान्वाक्यं स कृतार्थः प्रयास्यति ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0