भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.358

12.358.1

अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः ।
विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम् ॥

12.358.2

ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः ।
तेषां च या हि निर्दिष्टा पारम्पर्यागता गतिः ॥

12.358.3

चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम् ।
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम् ॥

12.358.4

नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः ।
अगत्वा गतयतिस्रो यद्गच्छत्यव्ययं हरिम् ॥

12.358.5

सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः ।
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ॥

12.358.6

तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम् ।
केनैष धर्मः कथितो देवेन ऋषिणाऽपि वा ॥

12.358.7

एकान्तिनां च का चर्या कदा चोत्पादिता विभो ।
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे ॥
वैशम्पायन उवाच ।

12.358.8

समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥

12.358.9

आगतिश्च गतिश्चैव पूर्वं ते कथिता मया ।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥

12.358.10

सम्मितः सामवेदेन पुरैवादियुगे कृतः ।
धार्यते स्वयमीशेन राजन्नारायणेन ह ॥

12.358.11

एतदर्थं महाराज पृष्टः पार्थेन नारदः ।
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः ॥

12.358.12

गुरुणा च मयाऽप्येव कथितो नृपसत्तम ।
यथा तत्कथितं तत्र नारदेन तथा शृणु ॥

12.358.13

यदाऽसीन्मानजं जन्म नारायणमुखोद्गतम् ।
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ॥

12.358.14

तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ।
फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे ॥

12.358.15

वैखानसाः फेनपेभ्यो धर्मं तं प्रतिपदिरे ।
वैखानसेभ्यः सोपस्तु ततः सोऽन्तर्दधे पुनः ॥

12.358.16

यदाऽसीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप ।
यदा पितामहेनैव सोमाद्धर्मः परिश्रुतः ॥

12.358.17

नारायणात्मको राजन्रुद्राय प्रददौ च तम् ।
ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप ॥

12.358.18

वालखिल्यानृषीन्सर्वान्धर्ममेनमपाठयत् ।
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया ॥

12.358.19

तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत् ।
तत्रैष धर्मः सम्भूतः स्वयं नारायणान्नृप ॥

12.358.20

सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात् ।
तपसा वै सुतप्तेन दमेन नियमेन च ॥

12.358.21

त्रिः परिक्रान्तवानेतत्सुपर्णो धर्मसुत्तमम् ।
यस्मात्तस्माद्व्रतं ह्येतत्रिसौपर्णमिहोच्येत ॥

12.358.22

ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम् ।
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः ॥

12.358.23

वायुना द्विपदश्रिष्ठे प्रथितो जगदायुषा ।
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः ॥

12.358.24

तेभ्यो महोदधिश्चैव प्राप्तवान्धर्ममुत्तमम् ।
अन्तर्दधे ततो भूयो नारायणसमाहृतः ॥

12.358.25

यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः ।
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥

12.358.26

जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम् ।
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुम् ॥

12.358.27

अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः स्मृतः ।
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः ॥

12.358.28

सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा ।
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत ॥

12.358.29

धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः ।
तेन सृष्टं कृतयुगं स्थापयस्व यथाविधि ॥

12.358.30

ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे ।
धर्मं चाग्र्यं स जग्राह सरहस्यं ससन्ग्रहम् ॥

12.358.31

आरण्यकेन सहितं नारायणमुखोद्गतम् ।
उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे ॥

12.358.32

तं कार्तयुगधर्माणं निराशीः कर्मसञ्ज्ञितम् ।
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम् ॥

12.358.33

ततोऽथ वरदो देवो ब्रह्मा लोकपितामहः ।
असृजत्स ततो लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥

12.358.34

ततः प्रावर्तत तदा आदौ कृतयुगं शुभम् ।
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः ॥

12.358.35

तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत् ।
पूजयामास देवेशं हरिं नारायणं प्रभुम् ॥

12.358.36

धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः ।
अध्यापयामास तदा लोकानां हितकाम्यया ॥

12.358.37

ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप ।
अध्यापयत्पुराऽव्यग्रः सर्वलोकपतिर्विभुः ॥

12.358.38

ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम् । दिशापालं सुधर्माणमध्यापयत भारत ।
सोऽन्तर्दधे ततो भूयः प्राप्ते त्रेतायुगे पुनः ॥

12.358.39

नासत्ये जन्मनि पुरा ब्रह्मणः पार्थिवोत्तम ।
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः ॥

12.358.40

तज्जगादारविन्दाक्षो ब्रह्मणः पश्यतस्तदा ।
सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप ॥

12.358.41

सनत्कुमारादपि च वीरणो वै प्रजापतिः ।
कृतादौ कुरुशार्दूल धर्ममेतदधीतवान् ॥

12.358.42

वीरणश्चाप्यधीत्यैनं रैभ्याय मुनये ददौ ।
रैभ्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥

12.358.43

कुक्षिपालाय च ददौ विशालाय च धर्मिणे ।
ततोऽप्यन्तर्दधे भूयो नारायणमुखोद्गतः ॥

12.358.44

अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये ।
एष धर्मः समुद्भूतो नारायणमुखात्पुनः ॥

12.358.45

गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि ।
अध्यापिताश्च मुनयो नाम्ना बर्हिपदो नृप ॥

12.358.46

बर्हिषद्भ्यश्च सम्प्राप्तः सामवेदान्तगं द्विजम् ।
ज्येष्ठं नामाभिविख्यातं ज्येष्ठसामव्रतो हरिः ॥

12.358.47

ज्येष्ठाच्चाप्यनुसन्क्रान्तो राजानमविकम्पनम् ।
अन्तर्दधे ततो राजन्नेष दर्मः प्रभो हरेः ॥

12.358.48

यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप ।
तत्रैष धर्मः कथितः स्वयं नारायणेन ह ॥

12.358.49

पितामहाय शुद्धाय युगादौ लोकधारिणे ।
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ ॥

12.358.50

ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम ।
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः ॥

12.358.51

त्रेतायुगादौ च ततो विवस्वान्ममवे ददौ ।
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ ॥

12.358.52

इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः ।
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप ॥

12.358.53

यतीनां चापि यो धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥

12.358.54

नारदेन सुसम्प्राप्तः सरहस्यः ससन्ग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥

12.358.55

एवमेव महान्धर्मे आद्यो राजन्सनातनः ।
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा ॥

12.358.56

धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा ।
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः ॥

12.358.57

एकव्यूहविभागो वा क्वचिद्द्विव्यूहसञ्ज्ञितः ।
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते ॥

12.358.58

हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा ।
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः ॥

12.358.59

मनश्च प्रथितं राजन्पञ्चन्द्रियसमीरणम् ।
एष लोकनिधिः श्रीमानेषु लोकविसर्गकृत् ॥

12.358.60

अकर्ता चैव कर्ता च कार्यं कारणमेव च ।
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः ॥

12.358.61

एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम ।
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः ॥

12.358.62

एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप ।
यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दनः ॥

12.358.63

अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः ।
भवेत्कृतयुगप्राप्तिराशीः कर्मविवर्जिता ॥

12.358.64

एवं स भगवान्व्यासो गुरुर्मम विशाम्पते ।
कथयामास धर्मज्ञो धर्मराजे द्विजोत्तमः ॥

12.358.65

ऋषीणां सन्निधौ राजञ्शृण्वतोः कृष्णभीष्मयोः ।
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः ॥

12.358.66

देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम् । यत्र चैकान्तिनो यान्ति नारायणपरायणाः ।
तदेव परमं स्थानं मुक्तानां केवलं भवेत् ॥
जनमेजय उवाच ।

12.358.67

एवं बहुविधं धर्मं प्रविबुद्धैर्निषेवितम् ।
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः ॥
वैशम्पायन उवाच ।

12.358.68

तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः ।
सात्विकी राजसी चैव तामसी चैव भारत ॥

12.358.69

देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह ।
सात्विकः पुरुषव्याघ्र भवेन्मोक्षाय निश्चितः ॥

12.358.70

अत्रापि स विजानाति पुरुषं ब्रह्मवित्तमम् ।
नारायणां परं मोक्षे ततो वै सात्विकः स्मृतः ॥

12.358.71

मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम् ।
एकान्तभक्तः सततं नारायणपरायणः ॥

12.358.72

मनीषिणो हि ये केचिद्यतयो मोक्षधर्मिणः ।
तेषां विच्छिन्नतृष्णानां योगक्षेमवहो हरिः ॥

12.358.73

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः ॥

12.358.74

साङ्ख्ययोगेन तुल्यो हि धर्म एकान्तिसेवितः ।
नारायणात्मके मोक्षे ततो यान्ति परां गतिं ॥

12.358.75

नारायणेन दृष्टस्तचु प्रतिबुद्धो भवेत्पुमान् ।
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते ॥

12.358.76

राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते । तदात्मकं हि पुरुषं जायमानं विशाम्पते ।
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम् ॥

12.358.77

पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः ।
रजसा तपसा चैव मानसं समभिप्लुतम् ॥

12.358.78

कामं देवाश्च ऋषयः सत्वस्था नृपसत्तम ।
हीनाः सत्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥
जनमेजय उवाच ।

12.358.79

कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् ।
वद सर्वं यथादृष्टं प्रवृत्तिं च यथाक्रमम् ॥
वैशम्पायन उवाच ।

12.358.80

सुसूक्ष्मं तत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः ।
पुरुषः पुरुषं गच्छेन्निष्क्रियं पञ्चविंशकम् ॥

12.358.81

एवमेकं साङ्ख्ययोगं वेदारण्यकमेव च ।
परस्पराङ्गान्येतानि पाञ्चरात्रं च कथ्यते ॥

12.358.82

एष एकान्तिनां धर्मो नारायणपरात्मकः ॥

12.358.83

यथा समुद्रात्प्रसृता जलौघा स्तमेव राजन्पुनराविशन्ति ।
इमे तथा ज्ञानमहाजलौघा नारायणं वै पुनराविशन्ति ॥

12.358.84

एष ते कथितो धर्मः सात्वतो यदुबान्धव ।
कुरुष्वैनं यथान्यायं यदि शक्तोसि भारत ॥

12.358.85

एवं हि स महाभागो नारदो गुरवे मम ।
श्वेतानां यतिनां चाह एकान्तगतिमख्याम् ॥

12.358.86

व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते ।
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः ॥

12.358.87

इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम ।
यथैव त्वं तथैवान्ये न भजन्ति च मोहिताः ॥

12.358.88

कृष्ण एव हि लोकानां भावनो मोहनस्तथा ।
संहारकारकश्चैव कारणं च विशाम्पते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc