भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.356

12.356.1

श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् ।
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान् ॥

12.356.2

उषित्वा वर्षसाहस्रं नरनारायणाश्रमे । श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् ।
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम् ॥

12.356.3

तावपि ख्यातयशसौ नरनारायणावृषी ।
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप सत्तमम् ॥

12.356.4

त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः ।
पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥

12.356.5

नैव तस्यापरो लोको नायं पार्थिवसत्तम ।
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥

12.356.6

मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम् ॥

12.356.7

कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् ।
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः ॥

12.356.8

य एष गुरुरस्माकमृषिर्गन्धवतीसुतः । तेनैतत्कथितं तात माहात्म्यं परमात्मनः ।
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥

12.356.9

नारदेन तु सम्प्राप्तः सरहस्यः ससन्ग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप ॥

12.356.10

एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥

12.356.11

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ।
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥

12.356.12

वर्ततां ते महायज्ञो यथासन्कल्पितस्त्वया ।
सन्कल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः ॥
सौतिरुवाच ।

12.356.13

एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः ।
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत् ॥

12.356.14

नारायणीयमाख्यानमेतत्ते कथितं मया ।
पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु ॥

12.356.15

नारदेन पुरा यद्वै गुरवे तु निवेदितम् ।
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥

12.356.16

स हि परमर्षिर्जनभुवनपतिः पृथुधरणिधरः श्रुतिविनयपरः ।
शमनियमनिधिर्यमनियमपरो द्विजवर सहितस्तव च भवतु गतिर्हरिरमरहितः ॥

12.356.17

असुरवधकरस्तपसान्निधिः सुमहतां यशसां च भाजनम् ।
एकान्तिनां शरणदोऽभयदो गतिदो गतिदोस्तु वः सुखभागकरः । मधुकैटभहा कृतधर्मविदां गतिदो भयदो मखभागहरोस्तु शरणं स ते ॥

12.356.18

त्रिगुणो विगुणश्चतुरात्मधरः पूर्तेष्टयोश्च फलभागहरः ।
विदधातु नित्यमजितोऽतिचलो गतिरात्मवतां सुकृतिनामृषीणाम् ॥

12.356.19

तं लोकसाक्षिणमजं पुरुषं पुराणं रविवर्णमीश्वरं गतिं बहुशः ।
प्रणमध्वमेकमतयो यतः सलिलोद्भवोपि तमृषिं प्रणतः ॥

12.356.20

स हि लोकयोनिरसृतस्य पदं सूक्ष्मं परायणमचलं हि पदम् ।
तत्साङ्ख्ययोगिभिरुदाहृतं तं बुद्ध्या यतात्मभिरिदं सनातनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc