भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.353

12.353.1

सौते सुमहदाख्यानं भवता परिकीर्तितम् ।
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥

12.353.2

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।
न तथा फलदं सौते नारायणकथा यथा ॥

12.353.3

पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम् ।
नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम् ॥

12.353.4

दुर्दर्शो भगवान्देवः सर्वलोकनमस्कृतः ।
सब्रह्मकैः सुरैः कृत्स्नैरन्यैश्चैव महर्षिभिः ॥

12.353.5

दृष्टवान्नारदो यत्तु देवं नारायणं हरिम् ।
नूनमेनद्ध्यनुमतं तस्य देवस्य सूतज ॥

12.353.6

यदृष्टवाञ्जगन्नाथमनिरुद्दतनौ स्थितम् । यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ ।
नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे ॥
सौतिरुवाच ।

12.353.7

तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै ।
कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक ॥

12.353.8

कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् ।
परिपप्रच्छ राजेन्द्रः पितामहपितामहम् ॥
जनमेजय उवाच ।

12.353.9

श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा ।
ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम् ॥

12.353.10

बदर्याश्रममागम्य समागम्य च तावृषी ।
कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः ॥

12.353.11

इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।
आमन्थ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥

12.353.12

नवनीतं यथा दध्नो मलयाच्चन्दनं यथा । अरण्यकं च वेदेभ्य ओषधीभ्योऽमृतं यथा ।
समुद्धृतमिदं ब्रह्मन्कथामृतमिदं तथा ॥

12.353.13

तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ।
स ईशो भगवान्देवः सर्वभूतात्मभावनः ॥

12.353.14

अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ।
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः ॥

12.353.15

ऋषयश्च सगन्धर्वा यच्च किञ्चिच्चराचरम् ।
न ततोऽस्ति परं मन्ये पावतं दिवि चेह च ॥

12.353.16

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।
न तथा फलदं चापि नारायणकथा यथा ॥

12.353.17

सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् ।
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥

12.353.18

न चित्रं कृतवांस्तत्र यदार्यो मे धनञ्जयः ।
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥

12.353.19

न चास्य किञ्चिदप्राप्यं मन्ये लोकेष्वपि त्रिषु ।
त्रैलोक्यनाथो विष्णुः स यथाऽसीत्साह्यकृत्सखा ॥

12.353.20

धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वजाः ।
हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥

12.353.21

तपसाऽप्यथ दुर्दर्शो भगवाँल्लोकपूजितः ।
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥

12.353.22

तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः । दृष्टवान्यो हरिं देवं नारायणमजं विभुम् ॥

12.353.23

न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् ।
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥

12.353.24

देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् ।
यद्दृष्टवांस्तदा देवमनिरूद्धतनौ स्थितम् ॥

12.353.25

बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः ।
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥

12.353.26

श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः । बदरीमाश्रमं प्राप्य समागम्य च तावृषी ।
कियन्तं कालमवसत्प्रश्नान्कान्पृष्टवांश्च ह ॥

12.353.27

श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि । किमब्रूतां महात्मानौ नरनारायणावृषी ।
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥
सौतिरुवाच ।

12.353.28

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । शशास शिष्यमासीनं वैशम्पायनमन्तिके ।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥

12.353.29

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥
वैशम्पायन उवाच ।

12.353.30

नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥

12.353.31

प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् । निवृत्तो नारदो राजस्तरसा मेरुमागमत् ।
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥

12.353.32

पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् ।
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥

12.353.33

मेरोः प्रचक्राम ततः पर्वतं गन्धमादनम् ।
निपपात च खात्तूर्णं विशालां बदरीमनु ॥

12.353.34

ततः स ददृशे देवौ पुराणावृषिसत्तमौ ।
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥

12.353.35

तेजसाऽभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् ।
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥

12.353.36

जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ ।
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ॥

12.353.37

षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ । स्वास्यौ पृथुललाटौ च सुभ्रूसुहनुनासिकौ ।
आतपत्रेण सदृशे शिरसी देवयोस्तयोः ॥

12.353.38

एवं लक्षणसम्पन्नौ महापुरुषसञ्ज्ञितौ ।
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः ॥

12.353.39

स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तथा ।
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ ॥

12.353.40

सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ।
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ ॥

12.353.41

इति सञ्चिन्त्य मनसा कृत्वा चाभिप्रदक्षिणाम् ।
स चोपविविशे तत्र पीठे कुशमये शुभे ॥

12.353.42

ततस्तौ तपसां वासौ यशसां तेजसामपि ।
ऋषी शमदमोपेतौ कृत्वा पौर्वाह्णिकं विधिम् ॥

12.353.43

यश्चान्नारदमव्यग्रौ पाद्यार्ध्याभ्यामथार्चतः ।
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृपौ ॥

12.353.44

तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत ।
भ्राज्याहुतिमहाञ्वालैर्यज्ञवाटो यथाऽग्निभिः ॥

12.353.45

अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ।
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥

12.353.46

अपीदानीं स भगवान्परमात्मा सनातनः ।
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥
नारद उवाच ।

12.353.47

दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः ।
सर्वे लोका हि तत्रस्थास्तथा देवाः सहर्षिभिः ॥

12.353.48

अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥

12.353.49

यैर्लक्षणैरुपेतः स हरिरव्यरक्तरूपधृत् ।
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥

12.353.50

दृष्टौ युवां मया तत्र तस्य देवस्य पार्श्वतः ।
इहैव चागतोऽस्म्यद्य विसृष्टः परमात्मना ॥

12.353.51

को हि नाम भवेत्तस्य तेजसा यशसा श्रिया ।
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥

12.353.52

तेन मे कथितः कृत्स्नो धर्मः क्षेत्रज्ञसञ्ज्ञितः ।
प्रादुर्भावाश्च कथिता भविष्या इह ये यथा ॥

12.353.53

तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः ।
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥

12.353.54

तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः ।
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥

12.353.55

रमते सोऽर्च्यमानो हि सदा भागवतप्रियः ।
विश्वभुक्सर्वगो देवो माधवो भक्तवत्सलः ॥

12.353.56

स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ।
हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः ॥

12.353.57

तपसा योज्य सोत्मानं श्वेतद्वीपात्परं हि यत् ।
तेज इत्यभिविख्यातं स्वयं भासावभासितम् ॥

12.353.58

शान्तिः सा त्रिषु लोकेषु विहिता भावितात्मना ।
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥

12.353.59

न तत्र सूर्यस्तपति न सोमोऽभिविराजते ।
न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥

12.353.60

वेदीमष्टनलोत्सेधां भूमावास्थाय विश्वकृत् ।
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्भुखः ॥

12.353.61

साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ।
यद्ब्रह्म ऋषयश्चैव स्वयं पशुपतिश्च यत् ॥

12.353.62

शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ।
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्पयश्च ते ॥

12.353.63

हव्यं कव्यं च सततं विधियुक्तं प्रयुञ्जते ।
कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठतः ॥

12.353.64

याः क्रियाः सम्प्रयुक्ताश्च एकान्तगतबुद्धिभिः ।
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयं ॥

12.353.65

न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः ।
विद्यते त्रिषु लोकेषु ततोऽस्यैकान्तिकं गतः ॥

12.353.66

इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ।
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः ॥

12.353.67

आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc