भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.349

12.349.1

कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः ।
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा ॥

12.349.2

निवृत्तं चास्थितो धर्मं क्षेमी भागवतः प्रभुः ।
निवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः ॥

12.349.3

कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः ।
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः ॥

12.349.4

एतं नः संशयं सौते छिन्धि गुह्यं सनातनम् ।
त्वया नारायणकथाः श्रुता वै धर्मसंहिताः ॥
सौतिरुवाच ।

12.349.5

जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः ।
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तम ॥

12.349.6

श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः ।
जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत् ॥

12.349.7

इमे सब्रह्यका लोकाः ससुरासुरमानवाः ।
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः ॥

12.349.8

मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम् । ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः ।
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम् ॥

12.349.9

अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः ।
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन् ॥

12.349.10

किञ्च ब्रह्मा च रुद्रश्च बलभित्प्रभुः ।
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च ॥

12.349.11

आकाशं जगती चैव ये च शेषा दिवौकसः ।
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम् ॥

12.349.12

ततस्तेनास्थिता मार्गं ध्रुवमक्षरमव्ययम् । स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः ।
दोषः कालपरीमाणो महानेष क्रियावताम् ॥

12.349.13

एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम् ।
छिन्धीतिहासकथनात्परं कौतूहलं हि मे ॥

12.349.14

कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज ।
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः ॥

12.349.15

ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम ।
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै ॥
वैशम्पायन उवाच ।

12.349.16

अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर । नातप्ततपसा ह्येष नावेदविदुषा तथा ।
नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा ॥

12.349.17

हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः ।
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः ॥

12.349.18

सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः ॥

12.349.19

एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान् ।
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान् ॥

12.349.20

वेदानध्यापयामास महाभारतपञ्चमान् ।
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते ॥

12.349.21

तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत् ।
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः ॥

12.349.22

ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत ॥

12.349.23

शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः ।
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत् ॥

12.349.24

मया हि सुमहत्तप्तं तपः परमदारुणम् ।
भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः ॥

12.349.25

तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च ।
नारायणप्रसादेन क्षीरोदस्यानुकूलतः ॥

12.349.26

त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम् ।
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम् ॥

12.349.27

यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा ।
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः ॥

12.349.28

महापुरुषसञ्ज्ञां स लभते स्वेन कर्मणा ।
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः ॥

12.349.29

अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात् ।
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते ॥

12.349.30

योसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ।
योऽहन्कार इति प्रोक्तः सर्वतेजोमयो हि सः ॥

12.349.31

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
अहन्कारप्रसूतानि महाभूतानि पञ्चधा ॥

12.349.32

महाभूतानि सृष्ट्वैव तान्गुणान्निर्ममे पुनः ।
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च ताञ्शृणु ॥

12.349.33

मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महात्मा वै मनुः स्वायम्भुवस्तथा ।
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः ॥

12.349.34

वेदान्वेदाङ्गसंयुक्तान्यज्ञयज्ञाङ्गसंयुतान् ।
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः ॥

12.349.35

अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत् ॥

12.349.36

रुद्रो रोषात्मको जातो दशान्यान्सोसृजस्त्वयम् ।
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः ॥

12.349.37

ते रुद्राः प्रकृरतिश्चैव सर्वे चैव सुरर्षयः ।
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः ॥

12.349.38

वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना ।
येन यस्मिन्नधीकारे वर्तितव्यं पितामह ॥

12.349.39

योसौ त्वयाऽभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः ।
परिपाल्यः कथं तेन साहन्कारेण कर्तृणा ॥

12.349.40

प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः ।
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत् ॥
ब्रह्मोवाच ।

12.349.41

साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः ।
ममाप्येषा समुत्पन्ना चिन्ता या भवतामिह ॥

12.349.42

लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः ।
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च वै ॥

12.349.43

इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम् ।
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम् ॥

12.349.44

ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा ।
क्षीरादस्योत्तरं कूलं जग्मूर्लोकहितार्थिनः ॥

12.349.45

ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम् ।
स महानियमो नाम तपश्चर्या सुदारुणा ॥

12.349.46

ऊर्ध्वदृग्बाहवश्चैव एकाग्रमनसोऽभवन् ।
एकपादस्थिताः सर्वे काष्ठभूताः समाहिताः ॥

12.349.47

दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम् ।
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम् ॥
वागुवाच ।

12.349.48

भोभोः सब्रह्यका देवा ऋषयश्च तपोधनाः ।
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम् ॥

12.349.49

विज्ञातं वो मया कार्यं तच्च लोकहितं महत् ।
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम् ॥

12.349.50

सुतप्तं वस्तपो देवा ममाराधनकाम्यया ।
भोक्ष्यथास्य महासत्वास्तपसः फलमुत्तमम् ॥

12.349.51

एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः ।
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः ॥

12.349.52

सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः ।
तत्र श्रेयोऽभिधास्यामि यथाऽधीकारमीश्वराः ॥
वैशम्पायन उवाच ।

12.349.53

श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः ।
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः ॥

12.349.54

वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् ।
तस्मिन्सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत् ॥

12.349.55

देवा देवर्षयश्चैव स्वंस्वं भागमकल्पयम् ।
ते कार्तयुगधर्माणो भागाः परमसत्कृताः ॥

12.349.56

प्राहुरादित्यवर्णं तं पुरुषं तमसः परम् ।
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् ॥

12.349.57

ततोऽथ वरदौ देवस्तान्सर्वानमरान्स्थितान् ।
अशरीरो बभापेदं वाक्यं स्वस्थो महेश्वरः ॥

12.349.58

येन यः कल्पितो भागः स तथा मामुपागतः । प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ।
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम् ॥

12.349.59

यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः ।
युगेयुगे भविष्यध्वं प्रवृत्तिफलभागिनः ॥

12.349.60

यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः ।
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥

12.349.61

यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ ।
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥

12.349.62

यूयं लोकान्भावयध्वं यज्ञभागफलोचिताः ।
सर्वार्थचिन्तका लोके मयाऽधीकारनिर्मिताः ॥

12.349.63

याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः ।
ताभिराप्यायितबला लोकान्वै धारयिष्यथ ॥

12.349.64

यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः ।
मां ततो भावयिष्यध्वमेषा वो भावना मम ॥

12.349.65

इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह ।
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ ॥

12.349.66

निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम् । मया कृतं सुरश्रेष्ठा यवात्कल्पक्षयादिह ।
चिन्तयध्वं लोकहितं यथादीकारमीश्वराः ॥

12.349.67

मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठ इति सप्तैते मनसा निर्मिता हि ते ॥

12.349.68

एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः ।
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः ॥

12.349.69

अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः ।
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः ॥

12.349.70

सनः सनत्सुजातश्च सनकः समनन्दनः ।
सनत्कुमारः कपिलः सप्तमश्च सनातनः ॥

12.349.71

सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः ।
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः ॥

12.349.72

एते योगविदो मुख्याः साङ्ख्यशास्त्रविशारदाः ।
आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः ॥

12.349.73

यतोऽहं प्रसृतः पूर्वमव्यक्तात्रिगुणो महान् ।
तस्मात्परतरो योसौ क्षेत्रज्ञ इति कल्पितः ॥

12.349.74

सोहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः ।
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि ॥

12.349.75

प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोश्नुतेऽवशः ।
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः ॥

12.349.76

एष माता पिता चैव युष्माकं च पितामहः ।
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः ॥

12.349.77

अस्य चैवात्मजो रुद्रो ललाटाद्यः समुत्थितः ।
ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः ॥

12.349.78

गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि ।
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम् ॥

12.349.79

प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा ।
परिनिष्ठितकालानि आयूंषीह सुरोत्तमाः ॥

12.349.80

इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः ।
अहिंस्या यज्ञपशवो युगेऽस्मिन्न तदन्यथा ॥

12.349.81

चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः ।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति ॥

12.349.82

प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे ।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति ॥

12.349.83

ततो वै द्वापरं नाम मिश्रः कालो भविष्यति ।
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति ॥

12.349.84

ततस्तिष्येऽथ सम्प्राप्ते युगे कलिपुरस्कृते ।
एकपादस्थितो धर्मो यत्र तत्र भविष्यति ॥
देवा ऊचुः ।

12.349.85

देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम् । एकपादस्थिते धर्मे यत्र क्वचन गामिनि ।
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः ॥
श्रीभगवानुवाच ।

12.349.86

गुरवो यत्र पूज्यन्ते साधुवृत्तसमन्विताः । वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते ॥

12.349.87

यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा । अहिंसा धर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः ।
स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत् ॥
व्यास उवाच ।

12.349.88

तेऽनुशिष्टा भगवता देवाः सपिगणास्तथा ।
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान् ॥

12.349.89

गतेषु त्रिदिवौकस्सु ब्रह्मैकः पर्यवस्थितः ।
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम् ॥

12.349.90

तं देवो दर्शयामास कृत्वा हयशिरो महत् ।
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक् ॥

12.349.91

ततोऽश्वशिरसं दृष्ट्वातं देवममितौजसम् ।
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया ॥

12.349.92

मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः ।
स परिष्वज्य देवेन वचनं श्रावितस्तदा ॥
भगवानुवाच ।

12.349.93

लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि । धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः ।
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा ॥

12.349.94

यदा च सुरकार्यं ते अविषह्यं भविष्यति ।
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकः ॥
व्यास उवाच ।

12.349.95

एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत ।
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः ॥

12.349.96

एवमेष महाभागः पद्मनाभः सनातनः ।
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा ॥

12.349.97

निवृत्तिं चास्थितो धर्मं गमिमक्षयधर्मिणाम् ।
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम् ॥

12.349.98

स आदिः स मध्यः स चान्तः प्रजानां स धाता स धेयं स कर्ता स कार्यम् ।
युगान्ते प्रसुप्तः सुसन्क्षिप्य लोकान् युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज ॥

12.349.99

तस्मै नमध्वं देवाय निर्गुणाय महात्मने ।
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम् ॥

12.349.100

महाभूताधिपतये रुद्राणां पतये तथा ।
आदित्यपतये चैव वसूनां पतये तथा ॥

12.349.101

अश्विभ्यां पतये चैव मरुतां पतये तथा ।
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च ॥

12.349.102

समुद्रावसिने नित्यं हरये मुञ्जकेशिने ।
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे ॥

12.349.103

तपसां तेजसां चैव पतये यशसामपि ।
वचसां पतये नित्यं सरितां पतये तथा ॥

12.349.104

कपर्दिने वराहाय एकशृङ्गाय धीमते । विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा ।
सूक्ष्माय ज्ञानदृश्याय अजरायाक्षयाय च ॥

12.349.105

एष देवः सञ्चरति सर्वत्र गतिरव्ययः । [एष चैतत्परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा ॥ ]

12.349.106

एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा ।
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः ॥

12.349.107

क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः ।
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि ॥
वैशम्पायन उवाच ।

12.349.108

इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता ।
सर्वे शिष्या सुतश्चास्य शुकः परमधर्मवित् ॥

12.349.109

स चास्माकमुपाध्यायः सहास्माभिर्विशाम्पते ।
चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे ॥

12.349.110

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः ॥

12.349.111

यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत् ।
नमो भगवते कृत्वा समाहितमतिर्नरः ॥

12.349.112

भवत्यरोगो मतिमान्बलरूपसमन्वितः ।
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥

12.349.113

कामकामी लभेत्कामं दीर्घं चायुरवाप्नुयात् ।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत् ॥

12.349.114

वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात् ।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम् ॥

12.349.115

लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम् ।
बन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत् ॥

12.349.116

क्षेमेण गच्छेदध्वानमिदं यः पठते पथि ।
यो यं कामं कामयते स तमाप्नोति च ध्रुवम् ॥

12.349.117

इदं महर्षेर्वचनं विनिश्चितं महात्मनः पुरुषवरस्य कीर्तितम् ।
समागमं चर्षिदिवौकसामिमं निशम्य भक्ताः सुसुखं लभन्ते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc