भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.344

12.344.1

ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते ।
बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥

12.344.2

बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः ।
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥

12.344.3

तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ।
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजं ॥

12.344.4

स राजा भावितः पूर्वं दैवेन विधिना वसुः ।
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥

12.344.5

तस्य यज्ञो महानासीदश्वमेधो महात्मनः ।
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥

12.344.6

प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चैव मर्हषयः ॥

12.344.7

धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू ।
ऋषिर्मोधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥

12.344.8

ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः ।
ऋषिश्रेष्ठश्च कपिलः शालिहोत्रपिता स्मृतः ॥

12.344.9

आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः ।
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ॥

12.344.10

सम्भूताः सर्वसम्भारास्तस्मिन्राजन्महाक्रतौ ।
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् ॥

12.344.11

अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ।
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥

12.344.12

प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ।
साक्षात्तं दर्शयामास सोदृश्योऽन्येन केनचित् ॥

12.344.13

स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् ।
अदृश्येन हृतो भागो देवेन हरिमेधसा ॥

12.344.14

बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः ।
आकाशं घ्नन्स्रुचः पातै रोषादश्रूण्यवर्तयत् ॥

12.344.15

उवाच चोपरिचरं मया भागोऽयमुद्यतः ।
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥

12.344.16

उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह ।
किमर्थमिह न प्राप्तो दर्शनं मे हरिर्नृप ॥
भीष्म उवाच ।

12.344.17

ततः स तं समुद्भूतं भूमिपालो महान्वसुः ।
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥

12.344.18

हुतस्त्वया वदानीह पुरोडाशस्य यावती ।
गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः ॥

12.344.19

इत्येवमुक्ते वसुना सरोषश्चाब्रवीद्गुरुः ।
न यजेयमहं चात्र परिभूतस्त्वया नृप ॥

12.344.20

त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः ।
त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम् ॥
वसुरुवाच ।

12.344.21

पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः । अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम् ।
तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि ॥

12.344.22

वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः ।
उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन् ॥

12.344.23

अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः । ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि ॥

12.344.24

शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् । नैष धर्मः कृतयुगे यत्त्वं रोषमिहाहिथाः ॥

12.344.25

अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः । न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥

12.344.26

वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः ।
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥

12.344.27

तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् ।
एकपादा स्थिताः सम्यक्काष्ठभूताः समाहिताः ॥

12.344.28

मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः ।
स देशो यत्र नस्तप्तं तपः परमदारुणम् ॥

12.344.29

वरेण्यं वरदं तं वै देवदेवं सनातनम् ।
कथं पश्येमहि वयं देवं नारायणं त्विति ॥

12.344.30

अथ व्रतस्यावभृथे वागुवाचाशरीरिणी ।
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ॥

12.344.31

सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ।
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम् ॥

12.344.32

क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ।
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ॥

12.344.33

एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ।
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् ॥

12.344.34

अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः । एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः । 12-344-34च गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥

12.344.35

अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् ।
यथाख्यातेन मार्गेण तं देशं प्रविशेमहि ॥

12.344.36

प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः । सहसा हि गताः सर्वे तेजसा तस्य मोहिताः ॥

12.344.37

ततोऽस्मद्दृष्टिविषयस्तदा प्रतिहतोऽभवत् ।
न च पश्याम पुरुषं तत्तेजोहतदर्शनाः ॥

12.344.38

ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ।
न किलातप्ततपसा शक्यते द्रष्टमञ्जसा ॥

12.344.39

ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ।
व्रतावसाने च शुभान्नरान्ददृशिमो वमय् ॥

12.344.40

श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ।
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्भुखान् ॥

12.344.41

मानसो नाम स जपो जप्यते तैर्महात्मभिः ।
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥

12.344.42

याऽभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये ।
एकैकस्य प्रभा तादृक्साऽभवन्मानवस्य ह ॥

12.344.43

तेजोनिवासः स द्वीप इति वै मेनिरे वयम् ।
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥

12.344.44

अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् ।
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥

12.344.45

सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् ।
कृताञ्जलिपुष्टा हृष्टा नम इत्येव वादिनः ॥

12.344.46

ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम् ।
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥

12.344.47

वयं तु तेजसा तस्य सहसा हृतचेतसः ।
न किञ्चिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः ॥

12.344.48

एकस्तु शब्दो विततः श्रुतोऽस्माभिरुदीरितः ।
आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः ॥

12.344.49

जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः ॥

12.344.50

एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः ।
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥

12.344.51

तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः ।
भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा ॥

12.344.52

नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ।
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥

12.344.53

मारुते सन्निवृत्ते च बलौ च प्रतिपादिते ।
चिन्ताव्याकुलितात्मानो जाताः स्मोङ्गिसांवर ॥

12.344.54

मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु ।
अस्मान्न कश्चिन्मनसा चक्षुषा वाऽप्यपूजयत् ॥

12.344.55

तेऽपि स्वस्था मुनिगणा एक भावमनुव्रताः ।
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥

12.344.56

ततोऽस्मान्सुपरिश्रान्तांस्तपसा चातिकर्शितान् ।
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम् ॥
देव उवाच ।

12.344.57

दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः ।
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमैः ॥

12.344.58

गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् ।
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथञ्चन ॥

12.344.59

कामं कालेन महता एकान्तित्वमुपागतैः ।
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ॥

12.344.60

महत्कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः ।
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ॥

12.344.61

वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः ।
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥

12.344.62

ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम् ।
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सिन्तमञ्जसा ॥

12.344.63

एवं सुतपसा चैव हव्यकव्यस्तैथैव च ।
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ॥

12.344.64

नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ।
अनादिनिधनोऽव्यक्तो देवदानवपूजितः ॥

12.344.65

एवमेकतवाक्येन द्वितत्रितमतेन च । अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः ।
समापयत्ततो यज्ञं दैवतं समपूजयत् ॥

12.344.66

समाप्तयज्ञो राजाऽपि प्रजां पालितवान्वसुः ।
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥

12.344.67

स राजा राजशार्दूल सत्यधर्मपरायणः ।
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः ॥

12.344.68

नारायणपरो भूत्वा नारायणजपं जपन् ।
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ॥

12.344.69

महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ।
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc