भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.337

12.337.1

एतस्मिन्नन्तरे भूते नारदः पुनरागमत् ।
शुकं स्वाध्यायनिरतं वेदार्थान्प्रष्टुमीप्सवा ॥

12.337.2

देवर्षि तु शुको दृष्ट्वा नारदं समुपस्यितम् ।
अर्ध्यपूर्वेण विधिवा वेदोक्तेनाभ्यपूजयत् ॥

12.337.3

नारदोऽयाजवीत्प्रीतो ब्रूहि ब्रह्मविदां वर ।
केन त्वां श्रेयसा वत्स योजयामीति हृष्टवत् ॥

12.337.4

नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत ।
अस्मिँल्लोके हितं यत्स्वात्तेन मां योक्तुमर्हसि ॥
नारद उवाच ।

12.337.5

तत्त्वं जिज्ञासतां पूर्वनृषीणां भावितात्मनाम् ।
सनत्कुमारो भगवानिदं वतनमब्रवीत् ॥

12.337.6

नास्ति विद्यासगं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥

12.337.7

निवृत्तिः कर्मणा पापात्सततं पुण्यशीलता ।
सद्वृत्तिः सद्वदाचारः श्रेय एवदनुत्तमम् ॥

12.337.8

नानुवयसुखं प्राप्य यः सज्जति न मुच्यते ।
नालं स दुःखमोक्षाय संयोगो दुःखलक्षणम् ॥

12.337.9

सक्तस्य बुद्धिश्चलति मोहजालविवर्धनी ।
मोहवालावृतो दुःखमिह चामुत्र सोऽश्नुते ॥

12.337.10

सर्वोपागात्तु कामस्व क्रोधस्य च विनिग्रहः ।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥

12.337.11

नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥

12.337.12

आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥

12.337.13

सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् ।
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥

12.337.14

सर्वारम्भपरित्यागी निराशीर्निष्परिग्रहः ।
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥

12.337.15

इन्द्रियैरिन्द्रियार्थान्यश्चरत्यात्मवशैरिह ।
आसज्जमानः शान्तात्मा निर्विकारः समाहितः ॥

12.337.16

अत्मभूतैरतद्भूतः सह चैव विनैव च ।
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥

12.337.17

अदर्शनमसंस्पर्शस्तथाऽसम्भाषणं तदा ।
यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥

12.337.18

न हिंस्यात्सर्वभूतानि मैत्रायगणतश्चरेत् ।
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥

12.337.19

आकिञ्चन्यं सुसन्तोषो निराशीस्त्वमचापलम् ।
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥

12.337.20

परिग्रहं परित्यज्य भव तात जितेन्द्रियः ।
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ॥

12.337.21

निरामिषा न शोचन्ति त्यजेदामिषमात्मनः ।
परित्यज्यामिषं सौभ्य दुःखतापाद्विमोक्ष्यसे ॥

12.337.22

तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥

12.337.23

गुणसङ्गेष्वनासक्त एकचर्यारतः सदा ।
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् ॥

12.337.24

द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः ।
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥

12.337.25

शुभैर्लभति देवत्वं व्यामिश्रेर्जन्म मानुषम् ।
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥

12.337.26

तत्र मृत्युवशो दुःखैः सततं समभिद्रुतः ।
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥

12.337.27

अहिते हितसञ्ज्ञस्त्वमध्रुवे ध्रुवसञ्ज्ञकः ।
अनर्थे चार्थसञ्ज्ञस्त्वं किमर्थं नावबुध्यसे ॥

12.337.28

संवेष्ट्यमानं बहुभिर्मोहात्तन्तुभिरात्मजैः ।
कोशकार इवात्मानं वेष्टयन्नावबुध्यसे ॥

12.337.29

अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
कृमिर्हि कोशकारस्तु बध्यते स परिग्रहात् ॥

12.337.30

पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥

12.337.31

महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् ।
मोहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥

12.337.32

कुटुम्बं पुत्रदारांश्च शरीरं सञ्चयाश्च ये ।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥

12.337.33

यदा सर्वान्परित्यज्य गन्तव्यमवशेन ते ।
अनर्थे किं प्रसक्तस्त्वं समर्थं नानुतिष्ठसि ॥

12.337.34

अविश्रान्तमनालम्बमपाथेयमदैशिकम् ।
तमः कान्तारमध्वानं कथमेको गमिष्यसि ॥

12.337.35

न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यतः ॥

12.337.36

विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम् ।
अर्थार्थमनुसार्यन्ते सिद्धार्थस्य विमुच्यते ॥

12.337.37

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥

12.337.38

रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् ।
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥

12.337.39

क्षमारित्रां सत्यमयीं धर्मस्थैर्यपदाङ्कुराम् ।
त्यागवाताध्वगां शीघ्रां नौतार्यां तां नदीं तरेत् ॥

12.337.40

त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥

12.337.41

त्यज धर्ममसन्कल्पादधर्मं चाप्यलिप्सया ।
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥

12.337.42

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः ॥

12.337.43

जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यज ॥

12.337.44

इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् ।
महाभूतात्मकं सर्वं महद्यत्परमाणु च ॥

12.337.45

महाभूतानि खं वायुरग्निरापस्तथा मही । षष्ठं तु चेतना या तु आत्मा सप्तममुच्यते ।
अष्टमं तु मनो ज्ञेयं बुद्धिस्तु नवमी स्मृता ॥

12.337.46

इन्द्रियाणि च पञ्चैव तमः सत्वं रजस्तथा ।
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ॥

12.337.47

सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः ।
चतुर्विशक इत्येष व्यक्ताव्यक्तमयो गणः ॥

12.337.48

एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते ।
त्रिवर्गं तु सुखं दुःखं जीवितं मरणं तथा ॥

12.337.49

य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ।
पारम्पर्येह बोद्धव्यं ज्ञानानां यच्च किञ्चन ॥

12.337.50

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥

12.337.51

इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।
लोके विततमात्मानं लोकांश्चात्मनि पश्यति ॥

12.337.52

परावरदृशः शक्तिर्ज्ञानमूला न नश्यति ।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥

12.337.53

ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ॥

12.337.54

लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ।
अनादिनिधनज्ञं तमात्मनि स्थितमव्ययम् ॥

12.337.55

अकर्तारममूर्तं च भगवानाह तीर्थवित् ।
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥

12.337.56

स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ।
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ॥

12.337.57

तप्यतेऽथ पुनस्तेन भुक्त्वा पथ्यमिवातुरः ।
अजस्रमेव मोहान्धो दुःखेषु सुखसञ्ज्ञितः ॥

12.337.58

बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ।
ततो निबद्धः स्वां योनिं कर्मणामुदयादिह ॥

12.337.59

परिभ्रमति संसारं चक्रवद्बहुवेदनः ।
सत्वं निर्वृत्तबन्धस्तु निवृत्तश्चापि कर्मतः ॥

12.337.60

सर्ववित्सर्वजित्सिद्धौ भव भावविवर्जितः । संयमेन नवं बन्धं निवर्त्य तपसो बलात् ।
सम्प्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc