भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.335

12.335.1

एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः ।
आत्मनाऽत्मानमास्थाय दृष्ट्वा चात्मानमात्मना ॥

12.335.2

कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्भुखः ।
शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः ॥

12.335.3

एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा ।
हिमवन्तमियाद्दुष्टुं सिद्धचारणसेवितम् ॥

12.335.4

तमप्सरोगाकीर्णं गीतस्वननिनादितम् ।
किन्नराणां सहस्रैश्च भृङ्गराजैस्तथैव च ॥

12.335.5

मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः ॥

12.335.6

चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः ।
राजहंससमूहैश्च हृष्टैः परभृतैस्तथा ॥

12.335.7

पक्षिराजो गरुत्मांश्च यं नित्यमधितिष्ठति ।
चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा ॥

12.335.8

तत्र नित्यं समायान्ति लोकस्य हितकाम्यया ।
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना ॥

12.335.9

तत्रैव च कुमारेण बाल्ये क्षिप्ता दिवौकसः ।
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै ॥

12.335.10

तत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा ।
योऽन्योस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः ॥

12.335.11

यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान् ।
सोभ्युद्धरत्विमां शक्तिमथवा कम्पयत्विति ॥

12.335.12

तच्छुत्वा व्यथिता लोकाः क इमामुद्धरेदिति ।
अथ देवगणं सर्वं सम्भ्रान्तेन्द्रियमानसम् ॥

12.335.13

अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् ।
किन्न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन् ॥

12.335.14

अनामृष्य ततः क्षेपमवैक्षत च पाविकम् ।
सम्प्रगृह्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा ॥

12.335.15

कम्पयामास सव्येन पाणिना पुरुषोत्तमः ।
शक्त्यां तु कम्प्यमानायां विष्णुना बलिना तदा ॥

12.335.16

मेदिनी कम्पिता सर्वा सशैलवनकानना ।
शक्तेनापि समुद्धर्तुं कम्पिता साऽभवत्तदा ॥

12.335.17

रक्षिता स्कन्दराजस्य धर्षणा प्रभविष्णुना ।
तां कम्पयित्वा भगवान्प्रह्लादमिदमब्रवीत् ॥

12.335.18

पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति ।
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः ॥

12.335.19

जग्राह तां तदा शक्तिं न चैनामभ्यकम्पयत् ।
नादं महान्तं मुक्त्वा स मूर्च्छितो गिरिमूर्घनि ॥

12.335.20

विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः ।
तत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः ॥

12.335.21

तपोऽतप्यत दुर्घर्षं तात नित्यं वृषध्वजः ।
पावकेन परिक्षिप्तं दीप्यता यस्य चाश्रमम् ॥

12.335.22

आदित्यपर्वतं नाम दुर्घर्षमकृतात्मभिः ।
न तत्र शक्यते गन्तुं यक्षराक्षसदानवैः ॥

12.335.23

दशयोजनविस्तारमग्निज्वालसमावृतम् ।
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् ॥

12.335.24

सर्वान्विघ्नान्प्रशमयन्महादेवस्य धीमतः ।
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः ॥

12.335.25

देवान्सन्तापयंस्तत्र महादेवो महाव्रतः ।
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः ॥

12.335.26

विविक्ते पर्वततटे पाराशर्यो महातपाः ।
वेदानध्यापयामास व्यासः शिष्यान्महातपाः ॥

12.335.27

सुमन्तुं च महाभागं वैशम्पायनमेव च ।
जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम् ॥

12.335.28

एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः । तत्राश्रमपदं रम्यं ददर्श पितुरुत्तमम् ।
आरणेयो विशुद्धात्मा नभसीव दिवाकरः ॥

12.335.29

अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् ।
ददृशे सुतमायान्तं दिवाकरसमप्रभम् ॥

12.335.30

असज्जमानं वृक्षेषु शैलेषु विषयेषु च ।
योगयुक्तं महात्मानं यथा बाणं गुणच्युतम् ॥

12.335.31

सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः ।
यथोपजोषं तैश्चापि समागच्छन्महामुनिः ॥

12.335.32

ततो निवेदयामास पित्रे सर्वमशेषतः ।
शुको जनकराजेन संवादं प्रीतमानसः ॥

12.335.33

एवमध्यापयञ्शिष्यान्व्यासः पुत्रं च वीर्यवान् ।
उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः ॥

12.335.34

ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे ।
वेदाध्ययनसम्पन्नाः शान्तात्मानो जितेन्द्रियाः ॥

12.335.35

वेदेषु निष्ठां सम्प्राप्य साङ्गेष्वपि तपस्विनः ।
अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम् ॥
शिष्या ऊचुः ।

12.335.36

महता तेजसा युक्ता यशसा चापि वर्धिताः ।
एकं त्विदानीमिच्छामो गुरुणाऽनुग्रहं कृतम् ॥

12.335.37

इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाद ह ।
उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया ॥

12.335.38

एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः ।
पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम् ॥

12.335.39

ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् ।
यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम ॥

12.335.40

काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा ।
पष्ठः शिष्यो न ते ख्यातिं गच्छेदत्र प्रसीद नः ॥

12.335.41

चत्वारस्ते वयं शिष्या गुरुपूत्रश्च पञ्चमः ।
इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः ॥

12.335.42

शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् ।
पराशरात्मजो धीमान्परलोकार्थचिन्तकः ॥

12.335.43

उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः ।
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे तथा ॥

12.335.44

ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षते ।
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् ॥

12.335.45

नाशिष्ये सम्प्रदातव्यो नाव्रते नाकृतात्मनि । एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः ।
नापरीक्षितचारित्रे विद्या देया कथञ्चन ॥

12.335.46

यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः ।
परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः ॥

12.335.47

न नियोज्याश्च वः शिष्या अनियोगे महाभये ।
यथामति यथापाठं तथा विद्या फलिष्यति ॥

12.335.48

सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः ॥

12.335.49

वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् ।
स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयम्भुवा ॥

12.335.50

यो निर्वदेत सम्मोहाद्ब्राह्मणां वेदपारगम् ।
सोऽभिध्यानाद्ब्राह्मणस्य पराभूयादसंशयम् ॥

12.335.51

यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥

12.335.52

एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति ।
उपकुर्याच्च शिष्याणामेतच्च हृद्वि वो भवेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc