भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.329

12.329.1

कथं निर्वेदमापन्नः शुको वैयासकिः पुरा ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
भीष्म उवाच ।

12.329.2

प्राकृतेनैव वृत्तेन चरन्तमकुतोभयम् ।
अध्याप्य कृत्स्नं स्वाध्यायमन्वशाद्वै पिता सुतम् ॥
व्यास उवाच ।

12.329.3

धर्मं पुत्र निपेवस्व सुतीक्ष्णौ च हिमातपौ ।
क्षुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥

12.329.4

सत्यमार्जवमक्रोधमनसूयां दमं तपः ।
अहिंसां चानृशंस्यं च विधिवत्परिपालय ॥

12.329.5

सत्ये तिष्ठ रतो धर्मे हित्वा सर्वमनार्जवम् ।
देवतातिथिशेषेण यात्रां प्राणस्य संलिह ॥

12.329.6

फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते ।
अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥

12.329.7

अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु ।
अन्तरं लिप्यमानेषु बालस्त्वं नावबुध्यसे ॥

12.329.8

अहःसु गण्यमानेषु क्षीयमाणे तथाऽयुषि ।
जीविते लिख्यमाने च किमुत्थाय न धावसि ॥

12.329.9

ऐहलौकिकनीहन्ते मांसशोणितवर्धनम् ।
पारलौकिककार्येषु प्रसुप्ता भृशनास्तिकाः ॥

12.329.10

धर्माय येऽभ्यसूयन्ति बुद्धिमोहान्विता नराः ।
अपथा गच्छतां तेषामनुयाताऽपि पीड्यते ॥

12.329.11

ये तु तुष्टाः श्रुतिपरा महात्मानो महाबलाः ।
धर्म्यं पन्थानमारूढास्तानुपास्स्व च पृच्छ च ॥

12.329.12

उपधार्य मतं तेषां बुधानां धर्मदर्शिनाम् ।
नियच्छ परया बुद्ध्या चित्तमुत्पथगामि वै ॥

12.329.13

आद्यकालिकया बुद्ध्या दूरेश्च इति निर्भयाः ।
सर्वभक्ष्या न पश्यन्ति कर्मभूमिमचेतसः ॥

12.329.14

धर्मं निःश्रेणिमास्थाय किञ्चित्किञ्चित्समारुह ।
कोशकारवदात्मानं वेष्टयन्नावबुध्यसे ॥

12.329.15

नास्तिकं भिन्नमर्यादं कूलपातमिव स्थितम् ।
वामतः कुरु विस्रब्धो नरं वेणुमिवोद्धृतम् ॥

12.329.16

कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥

12.329.17

मृत्युनाऽभ्याहते लोके जरया परिपीडिते ।
अमोघासु पतन्तीषु धर्मयानेन सन्तर ॥

12.329.18

तिष्ठन्तं च शयानं च मृत्युरन्वेषते यदा ।
निर्वृत्तिं लभते कस्मादकस्मान्मृत्युनाऽशितः ॥

12.329.19

सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् ।
वृकीवोरणमासाद्य मृत्युरादायं गच्छति ॥

12.329.20

क्रमशः सञ्चितशिखो धर्मबुद्धिमयो महान् ।
अन्धकारे प्रवेष्टव्ये दीपो यत्नेन धार्यताम् ॥

12.329.21

सम्पतन्देहजालानि कदाचिदिह मानुषे ।
ब्राह्मण्यं लभते जन्तुस्तत्पुत्र परिपालय ॥

12.329.22

ब्राह्मणस्य तु देहोऽयं न कामार्थाय जायते ।
इह क्लेशाय तपसे प्रेत्य त्वनुपमं सुखम् ॥

12.329.23

ब्राह्मण्यं बहुभिरवाप्यते तपोभि स्तल्लब्ध्वा न रतिपरेण हेलितव्यम् ।
स्वाध्याये तपसि दमे च नित्ययुक्तः मोक्षार्थी कुशलपरः सदा यतस्व ॥

12.329.24

अव्यक्तप्रकृतिरयं कलाशरीरः सूक्ष्मात्मा क्षणत्रुटिका निमेषरोमा ।
यानेतत्समबलशुक्लकृष्णनेत्रो मासाङ्गो द्रवति वयोहयो नराणाम् ॥

12.329.25

तं दृष्ट्वा प्रसृतमजस्रमुग्रवेगं गच्छन्तं सततमिहान्ववेक्षमाणम् ।
यक्षुस्ते यदि न परप्रणेतृनेयं धर्मे ते रमतु मनः परं निशाम्य ॥

12.329.26

येऽमी तु प्रचलितधर्मकामवृत्ताः क्रोशन्तः सततमनिष्टसम्प्रयोगात् ।
क्लिश्यन्तः परिगतवेदनाशरीरा बह्वीभिः सुभृशमधर्मवागुराभिः ॥

12.329.27

राजा सदा धर्मपरः शुभाशुभस्य गोप्ता समीक्ष्य सुकृतिनां दधाति लोकान् ।
बहुविधमपि चरति प्रविशति सुखमनुपगतं निरवद्यम् ॥

12.329.28

श्वानो भीषणकाया अयोमुखानि वयांसि बलगृध्रकुररपक्षिणां च सन्घातम् ।
नरकदने रुधिरपा गुरुवचन नुदमुपरतं विशन्त्यसन्तः ॥

12.329.29

मर्यादा नियताः स्वयम्भुवा य इहेमाः प्रभिनत्ति दश गुणा मनोऽनुगत्वात् ।
निवसति भृशमसुखं पितृविषय विपिनमवगाह्य स पापः ॥

12.329.30

यो लुब्ध सुभृशं प्रियानृतश्च मनुष्यः सततनिकृतिवञ्चनाभिरतिः स्यात् ।
उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखमनुभवति दुष्कृतकर्मा ॥

12.329.31

उष्णां वैतरणीं महानदीमव गाढोऽसिपत्रवनभिन्नगात्रः ।
परशुवनशयोनिपतितो वसति च महानिरये भृशार्तः ॥

12.329.32

महापादनि कत्थसे न चाप्यवेक्षसे परम् ।
चिरस्य मृत्युकारिकामनागतां न बुध्यसे ॥

12.329.33

प्रयस्यतां किमास्यते समुत्थितं महद्भयम् ।
अतिप्रमार्थि दारुणं सुखस्य संविधीयताम् ॥

12.329.34

पुरा मृतः प्रणीयसे यमस्य राजशासनात् ।
त्वमन्तकाय दारुणैः प्रयत्नमार्जवे कुरु ॥

12.329.35

पुरा समूलबान्धवं प्रभुर्हरत्यदुःखवित् ।
कियत्तवेह जीवितं यमे न चास्ति वारकः ॥

12.329.36

पुरा विवाति मारुतो यमस्य यः पुरःसरः ।
पुरैक एव नीयसे कुरुष्व साम्परायिकम् ॥

12.329.37

पुरा स एक एव ते प्रवाति मारुतोऽन्तकः ।
पुरा च विभ्रमन्ति ते दिशो महाभयागमे ॥

12.329.38

श्रुतिश्च सन्निरुध्यते पुरा तवेह पुत्रक ।
समाकुलस्य गच्छतः समाधिमुत्तमं कुरु ॥

12.329.39

शुभाशुभे पुरा कृते प्रमादकर्मविप्लुते ।
स्मरन्पुराऽनुतप्यसे निधत्स्व केवलं निधिम् ॥

12.329.40

पुरा जरा कलेवरं विजर्झरीकरोति ते ।
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम् ॥

12.329.41

पुरा शरीरमन्तको भिनत्ति रोगसायकैः ।
प्रसह्य जीवितक्षये तपो महत्समारभ ॥

12.329.42

पुरा वृका भयन्करा मनुष्यदेहगोचराः ।
अभिद्रवन्ति सर्वतो यतस्व पुण्यशीलने ॥

12.329.43

पुरान्धकारमेककोऽनुपश्यसि त्वरस्व वै ।
पुरा हिरण्मयान्नगान्निरीक्षसेऽद्रिमूर्धनि ॥

12.329.44

पुरा कुसङ्गतानि ते सुहृन्मुखाश्च शत्रवः ।
विचालयन्ति दर्शनाद्धटस्व पुत्र यत्परम् ॥

12.329.45

धनस्य यस्य राजतो भयं न चास्ति चोरतः ।
मृतं च यन्न मुञ्चति समार्जयस्व तद्धनम् ॥

12.329.46

न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।
यदेव यस्य यौतकं तदेव तत्र सोऽश्नृते ॥

12.329.47

परत्र तेन जीव्यते तदेव पुत्र जीयताम् ।
धनं यदक्षरं ध्रुवं समार्जयस्व तत्स्वयम् ॥

12.329.48

न यावदेव पच्यते महाजनस्य यावकम् ।
अपक्व एव यावके पुरा प्रलीयते त्वरम् ॥

12.329.49

न मातृपुत्रबान्धवा न संस्तुतः प्रियो जनः ।
अनुव्रजन्ति सन्कटे व्रजन्तमेकपातिनम् ॥

12.329.50

यदेव कर्म केवलं पुराकृतं शुभाशुभम् ।
तदेव पुत्र यौतकं भवत्यमुत्र गच्छतः ॥

12.329.51

हिरण्यरत्नसञ्चयाः शुभाशुभेन सञ्चिताः ।
न तस्य देहसन्क्षये भवन्ति कार्यसाधकाः ॥

12.329.52

न पुत्र शान्तिरस्ति ते कृताकृतस्य कर्मणः ।
न साक्षिकोऽत्मना समो नृणामिहास्ति कश्चन ॥

12.329.53

मनुष्यदेहशून्यकं भवत्यमुत्र गच्छतः ।
प्रविश्य बुद्धिचक्षुषा प्रदृश्यते हि सर्वशः ॥

12.329.54

इहाग्निसूर्यवायवः शरीरमाश्रितास्त्रयः ।
त एव तस्य साक्षिणो भवन्ति धर्मदर्शिनः ॥

12.329.55

अहनिंशेषु सर्वतः स्पृशत्सु सर्वचारिषु ।
प्रकाशगूढवृत्तिषु स्वधर्ममेव पालय ॥

12.329.56

अनेकपारिपान्थके विरूपरौद्रमक्षिके ।
स्वमेव कर्म रक्ष्यतां स्वकर्म तत्र गच्छति ॥

12.329.57

न तत्र संविभज्यते स्वकर्मभिः परस्परम् ।
तथा कृतं स्वकर्मजं तदेव भुज्यते फलम् ॥

12.329.58

यथाऽप्सरोगणाः फलं सुखं महर्षिभिः सह ।
तथाऽप्नुवन्ति कर्मजं विमानकामगामिनः ॥

12.329.59

यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः ।
तदाप्नुवन्ति मानवास्तथा विशुद्धयोनयः ॥

12.329.60

प्रजापतेः सलोकतां बृहस्पतेः शतक्रतोः ।
व्रजन्ति ते परां गतिं गृहस्थधर्मसेतुभिः ॥

12.329.61

सहस्रशोऽप्यनेकशः प्रवक्तुमुत्सहामहे ।
अबुद्धिमोहनं पुनः प्रभुस्तु तेन पावकः ॥

12.329.62

गता त्रिरष्टवर्षता ध्रुवोऽसि पञ्चविंशकः ।
कुरष्व धर्मसञ्चयं वयो हि तेऽतिवर्तते ॥

12.329.63

पुरा करोति सोऽन्तकः प्रमादगोमुखां चमूम् ।
यथागृहीतमुत्थितस्त्वरस्व धर्मपालने ॥

12.329.64

यथा त्वमेव पृष्ठतस्त्वमग्रतो गमिष्यसि ।
तथा गतिं गमिष्यतः किमात्मना परेण वा ॥

12.329.65

यदेकपातिनां सतां भवत्यमुत्र गच्छताम् ।
भयेषु साम्परायिकं निधत्स्व केवलं निधिम् ॥

12.329.66

सतूलमूलबान्धवं प्रभुर्हरत्यसङ्गवान् ।
न सन्ति यस्य वारकाः कुरष्व धर्मसन्निधिम् ॥

12.329.67

इदं निदर्शनं मया तवेह पुत्र सम्मतम् ।
स्वदर्शनानुपानतः प्रवर्णितं कुरुष्व तत् ॥

12.329.68

ददाति यः स्वकर्मणा धनानि यस्यकस्यचित् ।
अबुद्धिमोहजैर्गुणैः स एक एव युज्यते ॥

12.329.69

शुभं समस्तमश्नुते प्रकुर्वतः शुभाः क्रियाः ।
तदेतदर्थदर्शनं कृतज्ञमर्थसंहितम् ॥

12.329.70

निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैतां सुकृतो यान्ति नैनां छिदन्ति दुष्कृतः ॥

12.329.71

किं ते धनेन किं बन्धुभिस्ते किं ते पुत्रैः पुत्रक यो मरिष्यसि ।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताश्च सर्वे ॥

12.329.72

श्वः कार्यमद्ये कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाऽकृतम् ॥

12.329.73

अनुगम्य विनाशान्ते निवर्तन्ते ह बान्धवाः ।
अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ॥

12.329.74

नास्तिकान्निरनुक्रोशान्नरान्पापमते स्थितान् ।
वामतः कुरु विस्रब्धं परं प्रेप्सुरतन्द्रितः ॥

12.329.75

एवमभ्याहते लोके कालेनोपनिपीडिते ।
सुमहद्धैर्यमालम्ब्य धर्मं सर्वात्मना कुरु ॥

12.329.76

अथेमं दर्शनोपायं सम्यग्यो वेत्ति मानवः ।
सम्यक् स्वधर्मं कृत्वेह परत्र सुखमश्नुते ॥

12.329.77

न देहभेदे मरणं विजानतां न च प्रणाशः स्वनुपालिते पथि ।
धर्मं हि यो बर्धयते स पण़्डितो य एव धर्माच्च्यवते स दह्यते ॥

12.329.78

प्रयुक्तयोः कर्मपथि स्वकर्मणोः फलं प्रयोक्ता लभते यथाविधि ।
निहीनकर्मा निरयं प्रपद्यते त्रिविष्टपं गच्छति धर्मपारगः ॥

12.329.79

सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ।
तथाऽत्मानं समादध्याद्धश्यते न पुनर्यथा ॥

12.329.80

यस्य नोत्क्रामति मतिः स्वर्गमार्गानुसारिणी ।
तमाहुः पुण्यकर्माणमशोच्यं मित्रबान्धवैः ॥

12.329.81

यस्य नोपहता बुद्धिर्निश्चये ह्यवलम्बते ।
स्वर्गे कृतावकाशस्य नास्ति तस्य महद्भयम् ॥

12.329.82

तपोवनेषु ये जातास्तत्रैव निधनं गताः ।
तेषामल्पतरो धर्मः कामभोगानजानताम् ॥

12.329.83

यस्तु भोगान्परित्यज्य शरीरेण तपश्चरेत् ।
न तेन किञ्चिन्न प्राप्तं तन्मे बहुमतं फलम् ॥

12.329.84

मातापितृसहस्राणि पुत्रदारशतानि च ।
अनागतान्यतीतानि कस्य ते कस्य वा वयम् ॥

12.329.85

अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं तन्न पश्यामि यो मम ॥

12.329.86

न तेषां भवता कार्यं न कार्यं तव तैरपि ।
स्वकृतैस्तानि जातानि भवांश्चैव गमिष्यति ॥

12.329.87

इह लोके हि धनिना परोऽपि स्वजनायते ।
स्वजनस्तु दरिद्राणां जीवतामपि नश्यति ॥

12.329.88

सञ्चिनोत्यशुभं कर्म कलत्रापेक्षया नरः ।
ततः क्लेशमवाप्नोति परत्रेह तथैव च ॥

12.329.89

पश्यति च्छिन्नभूतं हि जीवलोकं स्वकर्मणा ।
तत्कुरुष्व तथा पुत्र कृत्स्नं यत्समुदाहृतम् ॥

12.329.90

तदेतत्सम्प्रदृश्यैव कर्म भूमिं प्रपश्यतः ।
शुभान्याचरितव्यानि परलोकमभीप्सता ॥

12.329.91

मासर्तुसञ्ज्ञापरिवर्तकेन सूर्याग्निना रात्रिदिवेन्धनेन ।
स्वकर्मनिष्ठाफलसाक्षिकेण भूतानि कालः पचति प्रसह्य ॥

12.329.92

धनेन किं यन्न ददाति नाश्नुते बलेन किं येन रिपुं न बाधते ।
श्रुतेन किं येन न धर्ममाचरे त्किमात्मना यो न जितेन्द्रियो वशी ॥
भीष्म उवाच ।

12.329.93

इदं द्वैपायनवचो हितमुक्तं निशम्य तु ।
शुको गतः परित्यज्य पितरं मोक्षदैशिकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc