भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.327

12.327.1

यद्भवानाह किं व्यक्तिं किमव्यक्तमिति अत्र ब्रूमः ॥

12.327.2

अव्यक्तमग्राह्यमतर्क्यमपरिमेयमव्यक्तं व्यक्तमुपलक्ष्यते यथर्तवो मूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते तद्वद्व्यक्तगुणैरुपलक्ष्यते ॥

12.327.3

प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च शतश्चानुग्राह्यत्वात्साऽकृतिः ॥

12.327.4

व्यक्त उत्तमो रजः सत्वं तत्प्रधानं तत्वमक्षमजरमित्येवमादीन्यव्यक्तनामानि भवन्ति ।
एवमाह ॥

12.327.5

अव्यक्तं बीजधर्माणं महाग्राहमचेतनम् ।
तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्वमीश्वरः ॥

12.327.6

तदेतदव्यक्तम् । प्रस्नवा घारणादानस्वभावमापोधारणे प्रजनने दाने गुणानां प्रकृतिः सपराप्रमत्तं तदेतदस्मिन्कार्यकरणे ॥

12.327.7

यदप्युक्तं किमव्यक्तमिति तत्र ब्रूमः । व्यक्तं नामाऽसुरे यत्पूर्वमव्यक्तादुत्पन्नतत्वमीश्वरमप्रतिबुद्धगुणस्यगेतत्पुरुषसञ्ज्ञिकं महदित्युक्तं बुद्धिरिति च । सत्ता स्मृतिर्धृतिर्मेधा व्यवसायः समाधिप्राप्तिरित्येवमादीनि व्यक्तपर्याये नामानि वदन्त्येवमाह ॥

12.327.8

मम व्यक्तादुपात्तासिद्धिरागता संयमश्च महद्यतः ।
परसर्गश्च दीप्त्यर्थमौत्सुक्यं च परं तथा ॥

12.327.9

यदेषोर्ध्यस्रोताभिर्महत्वादप्रतिबुद्धत्वाच्चात्मनः यकरोत्यहन्कारमव्यक्ताव्यक्ततरम् ॥

12.327.10

यदप्युक्तं किमव्यक्ततरमिति अत्र ब्रूमः ॥

12.327.11

व्यक्ताव्यक्ततरं नाम तृतीयं पुरुषसञ्ज्ञकम् । तदेतदुभयोर्विरिञ्चवैरिञ्चयोरेकैक उत्पत्तिः ॥ विरिञ्चोऽभिमानिन्यविवेक ईर्ष्या कामः क्रोधो लोभो मदो दर्पो ममकारश्चैतान्यहन्कारपर्यायनामानि भवन्त्येवमाह ॥

12.327.13

अहं कर्तेत्यहन्कर्ता ससृजे विश्वमीश्वरः ।
तृतीयमेनं पुरुषमभिमानगुणं विदुः ॥

12.327.14

अहन्काराद्युगपदुन्मादयामास पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि । तान्येव बुद्ध्यन्त इत्येवमाह ॥

12.327.15

भूतसङ्घमहङ्काराद्यो विद्वानवबुध्यसे ।
अभिमानमतिक्रम्य महान्तं प्रतितिष्ठते ॥

12.327.16

भूतेषु चाप्यहन्कारमश्वरूपस्तथोच्यते । पुनर्विषयहेत्वर्थे स मनस्सञ्ज्ञकः स्मृतः ॥ विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति । श्रोत्रं घ्राणं चक्षुर्जिह्वा त्वगित्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त इति पञ्च बुद्धीन्द्रियाणि वदन्त्येवमाहुराचार्याः ॥ वाग्घस्तौ पादपायुरानन्दश्चेति पञ्चेन्द्रियाणि विशेषमादित्योश्वीनि नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि वदन्त्येवमाह ॥

12.327.19

अहन्कारात्तथा भूतान्युत्पाद्य महदात्मनोः ।
वैखरत्वं ततो राज्ञा वैखर्यो विषयात्मकः ॥

12.327.20

विकारस्थमहन्कारमवबुध्याथ मानवः । महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc