भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.321

12.321.1

साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे ।
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥

12.321.2

नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् ।
तावुभावेकचर्यौ तावुभावनिधनौ स्मृतौ ॥

12.321.3

पृथक्पृथक्प्रपश्यन्ति येऽप्यबुद्धिरता नराः ।
वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥

12.321.4

यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥

12.321.5

रुद्रप्रधानानपरान्विद्धि योगानरिन्दम् ।
तेनैव चाथ देहेन विचरन्ति दिशो दश ॥

12.321.6

यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह ।
योगेन लोकान्विचरन्सुखं सन्न्यस्य चानघ ॥

12.321.7

तावदेवाष्टगुणिनं योगप्राहुर्मनीषिणः ।
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥

12.321.8

द्विगुणं योगत्यं तु योगानां प्राहुरुत्तमम् ।
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥

12.321.9

धारणं चैव मनसः प्राणायामश्च पार्थिव ।
एकाग्रता च मनसः प्राणायामस्तथैव च ॥

12.321.10

प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः । यद्यदृश्यति मुञ्चन्वै प्राणान्मैथिलसत्तम ।
वाताधिक्यं भवत्येव तस्मात्तं न समाचरेत् ॥

12.321.11

निशायाः प्रथमे यामे चोदना द्वादश स्मृताः ।
मध्ये स्वप्नात्परे यामे द्वादशैव तु चोदनाः ॥

12.321.12

तदेवमुपशान्तेन दान्तेनैकान्तशीलिना ।
आत्मारामेण बुद्धेन योक्तव्योऽत्मा न संशयः ॥

12.321.13

पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा ।
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च ॥

12.321.14

प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल ।
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥

12.321.15

मनस्तथैवाहन्कारे प्रतिष्ठाप्य नराधिप ।
अहन्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥

12.321.16

एवं हि परिसंख्याय ततो ध्यायन्ति केवलम् ।
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥

12.321.17

तस्थुषं पुरुषं नित्यमभेद्यमजरामरम् ।
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाख्यम् ॥

12.321.18

युक्तस्य तु महाराज लक्षणान्युपधारम् ।
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वयेत् ॥

12.321.19

निर्वाते तु यथा दीपो ज्वलेत्स्नेहस --धतः ।
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिण ॥

12.321.20

पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः ।
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ॥

12.321.21

शक्तदुन्दुभिनिर्घोषैर्विधिधैर्गीतवादितैः ।
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥

12.321.22

तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः ।
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिषणिभिः ॥

12.321.23

संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् ।
तथैवोत्तरमागम्य एकाग्रमनसस्तथा ॥

12.321.24

स्थिरत्वादिन्द्रियाणां तु निश्चलस्तथैव च ।
एवं युक्तस्य तु मुनेर्लक्षणान्युपल---- ॥

12.321.25

स्वयुक्तः पश्यते ब्रह्म यत्तत्परम----यम् ।
महतस्तमसो मध्ये स्थितं ज्व नसा--भम् ॥

12.321.26

एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् ।
कालेन महता राजञ्श्रुतिरेषा सनातनी ॥

12.321.27

एतद्धि योगं योगानां किमन्यद्योगलक्षणम् ।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc