भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.317

12.317.1

तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च ।
मया प्रोक्ताऽनुपूर्वेण संहारमपि मे शृणु ॥

12.317.2

यता संहरते जन्तून्ससर्ज च पुनः पुनः । अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ।

12.317.3

अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा ।
चोदयामास भगवानव्यक्तोऽहन्कृतं नरम् ॥

12.317.4

ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः ।
कृत्वा द्वादशधाऽत्मानमादित्यो ज्वलदग्निवत् ॥

12.317.5

चतुर्विधं प्रजाजातं निर्दहत्याशु तेजसा ।
जराय्वण्डस्वेदजातमुद्भिज्जं स नराधिप ॥

12.317.6

एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम् ।
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥

12.317.7

जगद्दग्ध्वाऽमितबलः केवलां जगर्ती ततः ।
अम्भसा बलिना क्षिप्रमापूरयति सर्वशः ॥

12.317.8

ततः कालाग्निमासाद्य तदम्भो याति सन्क्षयम् ।
विनष्टेऽम्भसि राजेन्द्र जाज्वलत्यनलो महान् ॥

12.317.9

तमप्रमेयातिबलं ज्वलमानं विभावसुम् ।
ऊष्माणं सर्वभूतानां सप्ताचिम्पमथाञ्जसा ॥

12.317.10

भक्षयामास भगवान्वायुरष्टात्मको बली ।
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥

12.317.11

तमप्रतिबलं भीममाकाशं ग्रसते पुनः ।
आकाशमप्यभिनदन्मनो ग्रसति चारिकम् ॥

12.317.12

मनो ग्रसति सर्वात्मा सोहन्कारः प्रजापतिः ।
अहन्कारो महानात्मा भूतभव्यभविष्यवित् ॥

12.317.13

तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥

12.317.14

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥

12.317.15

हृदयं सर्वभूतानां पर्वणाऽङ्गुष्ठमात्रकः ।
अणुग्रसत्यनन्तो हि महात्मा विश्वमीश्वरः ॥

12.317.16

ततः समभवत्सर्वमक्षयाव्ययमव्रणम् ।
भूतभव्यभविष्याणां स्रष्टारमनघं तथा ॥

12.317.17

एषोप्ययस्ते राजेन्द्र यथावत्समुदाहृतः ।
अध्यात्ममधिभूतं च श्रूयतां चाधिदैवतम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc