भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.310

12.310.1

एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ।
सर्गकोटिसहस्राणि मरणान्तानि गच्छति ॥

12.310.2

धाम्ना धामसहस्राणि पतनान्तानि गच्छति ।
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च ॥

12.310.3

चन्द्रमा इव भूतानां पुनस्तत्र सहस्रशः ।
लीयतेऽप्रतिबुद्धत्वादेवमेष ह्यबुद्धिमान् ॥

12.310.4

कला पञ्चदशी योनिस्तद्धाम इति मन्यते ।
नित्यमेतं विजानीहि सोमं वै षौडशीं कलाम् ॥

12.310.5

कलया जायते जन्तुः पुनः पुनरबुद्धिमान् ।
धाम तस्योपयुञ्जन्ति भूय एवोपजायते ॥

12.310.6

षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ।
न तूपयुज्यते देवैर्देवानुपयुनक्ति सा ॥

12.310.7

एतामक्षपयित्वा हि जायते नृपसत्तम ।
सा ह्यस्य प्रकृतिर्दृष्टा तत्क्षयान्मोक्ष उच्यते ॥

12.310.8

तदेवं षोडशकलं देहमव्यक्तसञ्ज्ञिकम् ।
ममायमिति मन्वानस्तत्रैव परिवर्तते ॥

12.310.9

पञ्चविंशस्तथैवात्मा तस्यैवाप्रतिबोधनात् ।
विमलश्च विशुद्धश्च शुद्धामलनिषेवणात् ॥

12.310.10

अशुद्ध एव शुद्धात्मा तादृग्भवति पार्थिव ।
अबुद्धसेवनाच्चापि बुद्धोऽप्यबुद्धतां व्रजेत् ॥

12.310.11

तथैवाप्रतिबुद्धोऽपि विज्ञेयो नृपसत्तम ।
प्रकृतेस्त्रिगुणायास्तु सेवनात्प्राकृतो भवेत् ॥
करालजनक उवाच ।

12.310.12

अक्षरक्षरयोरेषु द्वयोः सम्बन्ध उच्यते ।
स्त्रीपुंसोश्चापि भगवन्सम्बन्धस्तद्वदुच्यते ॥

12.310.13

ऋते तु पुरुषं नेह स्त्री गर्भं धारयत्युत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तयेत्तथा ॥

12.310.14

अन्योन्यस्याभिसम्बन्धादन्योन्यगुणसंश्रयात् ।
रूपं निर्वर्तयत्येतदेवं सर्वासु योनिषु ॥

12.310.15

स्त्रीपुंसोरभिसम्बन्धादन्योन्यगुणसंश्रयात् ।
ऋतौ निर्वर्त्यते रूपं तद्वक्ष्यामि निदर्शनम् ॥

12.310.16

ये गुणाः पुरुषस्येह ये च मातृगुणास्तथा ।
अस्थि स्नायु च मज्जानं जानीमः पैतृकान्द्विज ॥

12.310.17

त्वङ्भांसं शोणितं चेति मातृजान्यपि शुश्रुम ।
एवमेताद्द्विजश्रेष्ठ वेदे शास्त्रे च पठ्यते ॥

12.310.18

प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
वेदशास्त्रप्रमाणानां प्रमाणं तत्सनातनम् ॥

12.310.19

[अन्योन्यगुणसंरोधादन्योन्यगुणसंश्रयात्.] एवमेवाभिसम्बद्धौ नित्यं प्रकृतिपूरुषौ ॥

12.310.20

पश्यामि भगवंस्तस्मान्मोक्षधर्मो न विद्यते । अथवाऽनन्तरकृतं किञ्चिदेव निदर्शनम् ।
तन्ममाचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वथा ॥

12.310.21

मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् ।
अदेहमजरं नित्यमतीन्द्रियमनीश्वरम् ॥
वसिष्ठ उवाच ।

12.310.22

यदेतदुक्तं भवता देवशास्त्रनिदर्शनम् ।
एवमेतद्यथा चैतन्न गृह्णाति तथा भवान् ॥

12.310.23

धार्यते हि त्वया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथावत्त्वं नरेश्वरः ॥

12.310.24

यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः ।
न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्वारणं वृथा ॥

12.310.25

मारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थगुणो वृथा ॥

12.310.26

ग्रन्थस्यार्थस्य पृष्टः संस्तादृशो वक्तुमर्हति ।
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥

12.310.27

वस्तु संसत्सु कथयेद्ग्रन्थार्थस्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥

12.310.28

निर्णयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः ।
सोपहास्यात्मतामेति यस्माच्चावाप्तवानपि ॥

12.310.29

तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।
याथातथ्येन साङ्ख्येषु योगेषौ च महात्मसु ॥

12.310.30

यदेव योगाः पश्यन्ति साङ्ख्यैस्तदवगम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स बुद्धिमान् ॥

12.310.31

त्वङ्भांसं रुघिरं मेदः पित्तं मज्जा च स्नायु च ।
एतदैन्द्रियकं तात तद्भवानिदमाह माम् ॥

12.310.32

द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा ।
देहाद्देहमवाप्नोति बीजाद्वीजं तथैव च ॥

12.310.33

निरिन्द्रियस्याबीजस्य निर्द्रव्यस्याप्यदेहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥

12.310.34

गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च ।
एवं गुणाः प्रकृतितो जायन्ते निविशन्ति च ॥

12.310.35

त्वङ्भांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च ।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतानि वै ॥

12.310.36

पुमांश्चैवापुमांश्चैव त्रैलिङ्ग्यं प्राकृतं स्मृतम् ।
न वा पुमान्पुमांश्चैव स लिङ्गीत्यभिधीयते ॥

12.310.37

अलिङ्गात्प्रकृतिर्लिङ्गैरुपालभ्यति सात्मजैः ।
यथा पुष्पफलैर्नित्यमृतवो मूर्तयस्तथा ॥

12.310.38

एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते ।
पञ्चविंशतिमस्तात लिङ्गेषु नियतात्मकः ॥

12.310.39

अनादिनिधनोऽनन्तः सर्वदर्शी निरामयः ।
केवलं त्वभिमानित्वादगुणेष्वगुणा उच्यते ॥

12.310.40

गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥

12.310.41

यदा त्वेष गुणनिव प्रकृतावनुमन्यते ।
तदा स गुणवानेव परमं नानुपश्यति ॥

12.310.42

यत्तं बुद्धेः परं प्राहुः साङ्ख्ययोगाश्च सर्वशः ।
बुध्यमानं महाप्राज्ञमबुद्धपरिवर्जनात् ॥

12.310.43

अप्रबुद्धमथाव्यक्तं गुणं प्राहुरनीश्वरम् ।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥

12.310.44

प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।
साङ्ख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥

12.310.45

यदा प्रबुद्धास्त्वव्यक्तमवस्थाजन्मभीरवः ।
बुध्यमानं प्रबुद्धेन गमयन्ति समन्ततः ॥

12.310.46

एतन्निदर्शनं सम्यगसम्यक्चार्थदर्शनम् ।
बुध्यमानाप्रबुद्धाना पृथग्पृथगरिन्दम् ॥

12.310.47

परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।
एकत्वमक्षरं प्राहुर्नानात्वं क्षरमुच्यते ॥

12.310.48

पञ्चविंशतिनिष्ठोऽयं यदा सम्यक्प्रचक्षते ।
एकत्वं दर्शनं चास्य नानात्वं चाप्यदर्शनम् ॥

12.310.49

तत्त्वनिस्तत्त्वयोरेतत्पृथग्नेव निदर्शनम् ।
पञ्चविंशतितत्वं तु तत्त्वमाहुर्मनीषिणः ॥

12.310.50

निस्तत्त्वं पञ्चविंशस्य परमाहुर्निदर्शनम् ।
वर्गस्य वर्गमाचारं तत्त्वं तत्त्वात्सनातनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc