भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.305

12.305.1

सत्यं दमं क्षमां प्रज्ञां प्रशंसन्ति पितामह ।
विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥
भीष्म उवाच ।

12.305.2

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥

12.305.3

हंसो भूत्वाऽथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥
साध्या ऊचुः ।

12.305.4

शकुने वयं स्म देवा वै साध्यास्त्वामनुयुङ्क्ष्महे ।
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥

12.305.5

श्रुतोसि नः पण्डितो धीरवादी साधुः शब्दश्चरते ते पतत्रिन् ।
किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥

12.305.6

तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम् ।
यत्कृत्वा वै पुरुषः सर्वबन्धै र्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥
हंस उवाच ।

12.305.7

इदं कार्यममृताशाः शृणुध्वं तपो दमः सत्यमात्माभिगुप्तिः ।
ग्रन्थीन्विमुच्य हृदयस्य सर्वा न्प्रियाप्रिये स्वं वशमानयीत ॥

12.305.8

नारुतुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत न तां वदेदुशतिं पापलोक्याम् ॥

12.305.9

वाक्सायका वदनान्निष्यतन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥

12.305.10

परश्चेदेनमतिवादवाणै र्भृशं विध्येच्छम एवेह कार्यः ।
संरोष्यमाणः प्रतिहृष्यते यः स आदत्ते सुकृतं वै परस्य ॥

12.305.11

क्षेपायमाणमभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम् ।
अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥

12.305.12

आक्रुश्यमानो न वदामि किञ्चि त्क्षमाम्यहं ताड्यमानश्च नित्यम् ।
श्रेष्ठं ह्येतद्यत्क्षमामाहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥

12.305.13

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥

12.305.14

वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम् ।
एतान्वेगान्यो विषहेदुदीर्णां स्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥

12.305.15

अक्रोधनः क्रुध्यतां वै विशिष्ट स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषान्मानुषो वै विशिष्ट स्तथाऽज्ञानाज्ज्ञानवान्वै विशिष्टः ॥

12.305.16

आक्रुश्यमानो नाक्रोशेन्मन्युरेवं तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥

12.305.17

यो नायुक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् ।
पापं च यो नेच्छति तस्य हन्तु स्तस्येह देवाः स्पृहयन्ति नित्यम् ॥

12.305.18

पापीयसः क्षमेतैव श्रेयसः सदृशस्य च ।
विमानितो हतोक्रुष्ट एवं सिद्धिं गमिष्यति ॥

12.305.19

सदाऽहमार्यान्निभृतोप्युपासे न मे विधित्सोत्सहते न रोषः ।
न चाप्यहं लिप्समानः परैमि न चैव किञ्चिद्विषमेण यामि ॥

12.305.20

नाहं शप्तः प्रतिशपामि कञ्चि द्दमं द्वारं ह्यमृतस्येह वेद्मि ।
गुह्यं ब्रह्म तदिदं ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किञ्चित् ॥

12.305.21

निर्मुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः ।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥

12.305.22

यः सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्भ इवाभिजातः ।
यस्मै वाचं सुप्रसन्नां वदन्ति स वै देवान्गच्छति संयतात्मा ॥

12.305.23

न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् ।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥

12.305.24

यस्य वाङ्भनसी गुप्ते सम्यक्प्रणिहिते सदा ।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥

12.305.25

आक्रोशनविमानाभ्यां नाबुधान्बोधयेद्बुधः ।
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेन्त् ॥

12.305.26

अमृतस्येव सन्तृप्येदवमानस्य पण्डितः ।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥

12.305.27

यत्क्रोधनो यजति यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति हि क्रोधनस्य ॥

12.305.28

चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥

12.305.29

सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः ।
स्वाध्यायनित्योऽस्पृहयन्यरेषा मेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥

12.305.30

सर्वान्देदाननुचरन्वत्सवच्चतुरः स्तनान् ।
न पावनतमं किञ्चित्सत्याद्गध्यगमं क्वचित् ॥

12.305.31

आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसञ्चरन् ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥

12.305.32

यादृशैः संविवदते यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥

12.305.33

यदि सन्तं सेवति यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रागवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥

12.305.34

सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् ।
नेन्दुः समः स्यादसमो हि वायु रुच्चावचं विषयं यः स वेद ॥

12.305.35

अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे ।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥

12.305.36

विश्नोदरे ये निरताः सदैव स्तेना नरा वाक्यरुषाश्च नित्यम् ।
अपेतधर्मानिति तान्विदित्वा दूराद्देवः सम्परिवर्जयन्ति ॥

12.305.37

न वै देवा हीनसत्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा ।
सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह सम्भजन्ते ॥

12.305.38

अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
धर्म्यं वदेद्व्याहृतं तत्तृतीयं प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥
साध्या ऊचुः ।

12.305.39

केनायमावृतो लोकः केन वा न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥
हंस उवाच ।

12.305.40

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥
साध्या ऊचः ।

12.305.41

कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते ।
कः स्विदेको बलवान्दुर्बलोपि कः स्विदेषां कलहं नान्ववैति ॥
हंस उवाच ।

12.305.42

प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञश्चैको बहुभिर्जोषमास्ते
प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्वबैति ॥
साध्या ऊचुः ।

12.305.43

किं ब्राह्मणानां देवत्वं किञ्च साधुत्वमुच्यते ।
असाधुत्वे च किं तेषां किमेषां मानुषं मतम् ॥
हंस उवाच ।

12.305.44

स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।
असाधुत्वं परीवादो मृत्युर्मानुष्यमुच्यते ॥
भीष्म उवाच ।

12.305.45

इत्युक्त्वा परमो देवो भगवान्नित्य अव्ययः ।
साध्यैर्देवगणैः सार्धं दिवमेवारुरोह सः ॥

12.305.46

एतद्यशस्यमायुष्यं पुण्यं स्वर्गाय च ध्रुवम् । दर्शितं देवदेवेन परमेणाव्ययेन च ॥

12.305.47

संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc