भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.299

12.299.1

वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना ।
प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥

12.299.2

वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा ।
न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥

12.299.3

सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः ।
नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥

12.299.4

यथोदयगिरौ द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निकर्षेण हीनवर्णोऽपि दीयते ॥

12.299.5

यादृशेन हि वर्णेन भाव्यते शुक्लमम्बरम् ।
तादृशं कुरुते रूपमेतदेवमवेहि मे ॥

12.299.6

तस्माद्गुणेषु रज्येथा मा दोषेषु कदाचन ।
अनित्यमिह मर्त्यानां जीवितं हि चलाचलम् ॥

12.299.7

सुखे वा यदि वा दुःखे वर्तमानो विचक्षणः ।
यश्चिनोति शुभान्येव स भद्राणीह पश्यति ॥

12.299.8

धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् ।
न तत्सेवेत मेधावी न तद्धितमिहोच्यते ॥

12.299.9

धर्मेण सहितं यत्तु भवेदल्पफलोदयम् । तत्कार्यमविशङ्केन कर्मात्यन्तं सुखावहम् ॥

12.299.10

यो हृत्वा गोसहस्राणि नृपो दद्यादरक्षिता ।
स शब्दमात्रफलभाग्राजा भवति तस्करः ॥

12.299.11

स्वयम्भूरसृजच्चाग्रे धातारं लोकसत्कृतम् ।
धाताऽसृजत्पुत्रमेकं लोकानां धारणे रतम् ॥

12.299.12

तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् ।
रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥

12.299.13

अजिह्नैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः ।
शूर्दैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥

12.299.14

अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः ।
सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥

12.299.15

तस्माद्यो रक्षति नृपः स धर्मेणेति पूज्यते ।
अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥

12.299.16

यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः ।
अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥

12.299.17

प्राणसन्तापनिर्दिष्टाः काकिण्योऽपि महाफलाः ।
न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥

12.299.18

सत्कृत्य हि द्विजातिभ्यो यो ददाति नराधिपः ।
यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥

12.299.19

अभिगम्य तु यद्दत्तं धर्म्यमाहुरभिष्टुतम् ।
याचितेन तु यद्दत्तं तदाहुर्मध्यमं फलम् ॥

12.299.20

अवज्ञया दीयते यत्तथैवाश्रद्धयाऽपि वा ।
तदाहुरधमं दानं मुनयः सत्यवादिनः ॥

12.299.21

अतिक्रामेन्मज्जमानो विविधेन नरः सदा ।
तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥

12.299.22

दमेन शोभते विप्रः क्षत्रियो विजयेन तु ।
धनेन वैश्यः शृद्रस्तु नित्यं दाक्ष्येण शोभते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc