भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.296

12.296.1

अतः परं महाबाहो यच्छ्रेयस्तद्ब्रवीहि मे ।
न तृप्याम्यमृतस्येव वचसस्ते पितामह ॥

12.296.2

किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम ।
श्रेयः परमवाप्नोति प्रेत्य चेह च तद्वद ॥
भीष्म उवाच ।

12.296.3

अत्र ते वर्तयिष्यामि यथा पूर्वं महायशाः ।
पराशरं महात्मानं पप्रच्छ जनको नृपः ॥

12.296.4

किं श्रेयः सर्वभूतानामस्मिँल्लोके परत्र च ।
यद्भवेत्प्रतिपत्त्व्यं तद्भवान्प्रब्रवीतु मे ॥

12.296.5

ततः स तपसा युक्तः सर्वधर्मविधानवित् ।
नृपायानुग्रहमना मुनिर्वाक्यमथाब्रवीत् ॥
पराशर उवाच ।

12.296.6

धर्म एव कृतः श्रेयानिह लोके परत्र च ।
तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः ॥

12.296.7

प्रतिपद्य नरो धर्मं स्वर्गलोके महीयते ।
धर्मात्मकः कर्मविधिर्देहिनां नृपसत्तम ॥

12.296.8

तस्मिन्त्राश्रमिणः सन्तः स्वकर्माणीह कुर्वते ॥

12.296.9

चतुर्विधा हि लोकेऽस्मिन्यात्रा तात विधीयते ।
मर्त्या यत्रावतिष्ठन्ते सा च कामात्प्रवर्तते ॥

12.296.10

सुकृतासुकृतं कर्म निषेव्य विविधैः क्रमैः ।
दशार्धप्रविभक्तानां भूतानां विविधा गतिः ॥

12.296.11

सौवर्णं राजतं चापि यथा भाण्डं निषिच्यते ।
तथा निपिच्यते जन्तुः पूर्वकर्मवशानुगः ॥

12.296.12

नाबीजाज्जायते किञ्चिन्नाकृत्वा सुखमेधते ।
सुकृतैर्विन्दते सौख्यं प्राप्य देहक्षयं नरः ॥

12.296.13

दैवं तात न पश्यामि नास्ति दैवस्य साधनम् ।
स्वभावतो हि संसिद्धा देवगन्धर्वदानवाः ॥

12.296.14

प्रेत्य यान्त्यकृतं कर्म न स्मरन्ति सदा जनाः ।
ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम् ॥

12.296.15

लोकयात्राश्रयश्चैव शब्दो वेदाश्रयः कृतः ।
शान्त्यर्थं मनसस्तात नैतद्वृद्धानुशासनम् ॥

12.296.16

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।
कुरुते यादृशं कर्म तादृशं प्रतिपद्यते ॥

12.296.17

निरन्तरं च मिश्रं च लभते कर्म पार्थिव ।
कल्याणं यदि वा पापं न तु नाशोऽस्य विद्यते ॥

12.296.18

कदाचित्सुकृतं तात कूटस्थमिव तिष्ठति ।
मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ॥

12.296.19

ततो दुःखक्षयं कृत्वा सुकृतं कर्म सेवते ।
सुकृतक्षयाच्च दुष्कृतं तद्विद्धि मनुजाधिप ॥

12.296.20

दमः क्षमा धृतिस्तेजः सन्तोषः सत्यवादिता ।
ह्रीरहिंसाऽव्यसनिता दाक्ष्यं चेति सुखावहाः ॥

12.296.21

दुष्कृते सुकृते चापि न जन्तुर्नियतो भवेत् ।
नित्यं मनः समाधाने प्रयतेत विचक्षणः ॥

12.296.22

नायं परस्य सुकृतं दुष्कृतं चापि सेवते ।
करोति यादृशं कर्म तादृशं प्रतिपद्यते ॥

12.296.23

सुखदुःखे समाधाय पुमानन्येन गच्छति ।
अन्येनैव जनः सर्वः सन्गतो यश्च पार्थिवः ॥

12.296.24

परेषां यदसूयेत न तत्कुर्यात्स्वयं नरः ।
यो ह्यसूयुस्तथा युक्तः सोऽवहासं नियच्छति ॥

12.296.25

भीरू राजन्यो ब्राह्मणः सर्वभक्ष्यो वैश्योऽनीहावान्हीनवर्णोऽलसश्च ।
विद्वांश्राशीलो वृत्तहीनः कुलीनः सत्याद्विभ्रष्टो ब्राह्मणस्त्री च तुष्टा ॥

12.296.26

रागी युक्तः पचमानोऽत्महेतो र्मूर्खो वक्ता नृपहीनं च राष्ट्रम् ।
एते सर्वे शोच्यतां यान्ति राज न्यश्रायुक्तः स्नेहहीनः प्रजासु ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc