भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.291

12.291.1

अध्यात्मं नाम यदिदं पुरुषस्येह विद्यते ।
यदध्यात्मं यतश्चैव तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.291.2

सर्वज्ञानं परं बुद्ध्या यन्मां त्वमनुपृच्छसि ।
तद्व्याख्यास्यामि ते तात तस्य व्याख्यामिमां शृणु ॥

12.291.3

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥

12.291.4

स तेषां गुणसन्घातः शरीरं भरतर्षभ ।
सततं हि प्रलीयन्ते गुणास्ते प्रभवन्ति च ॥

12.291.5

ततः सृष्टानि भूतानि तानि यान्ति पुनः पुनः ।
महाभूतानि भूतेभ्य ऊर्मयः सागरे यथा ॥

12.291.6

प्रसारयित्वेहाङ्गानि कूर्मः संहरते यथा ।
तद्वद्भूतानि भूतानामल्पीयांसि स्थवीयसाम् ॥

12.291.7

आकाशात्खलु यो घोषः सन्घातस्तु महीगुणः ।
वायोः प्राणो रसस्त्वद्भ्यो रूपं तेजस उच्यते ॥

12.291.8

इत्येतन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।
प्रलये च तमभ्येति तस्मादुद्दिश्यते पुनः ॥

12.291.9

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
विषयान्कल्पयामास यस्मिन्यदनुपश्यति ॥

12.291.10

शब्दश्रोत्रे तथा खानि त्रयमाकाशयोनिजम् ।
रसः स्नेहश्च जिह्वा च अपामेते गुणाः स्मृताः ॥

12.291.11

रूपं चक्षुर्विपाकश्च त्रिविधं ज्योतिरूच्यते ।
घ्रेयं घ्राणं शरीरं च एते भूमिगुणाः स्मृताः ॥

12.291.12

प्राणः स्पर्शश्च चेष्टा च वायोरेते गुणाः स्मृताः ।
इति सर्वगुणा राजन्व्याख्याताः पाञ्चभौतिकाः ॥

12.291.13

सत्त्वं रजस्तमः कालः कर्म बुद्धिश्च भारत ।
मनः षष्ठानि चैतेषु ईश्वरः समकल्पयत् ॥

12.291.14

यदूर्ध्वपादतलयोरवाड्यूर्ध्नश्च पश्यसि ।
एतस्मिन्नेव कृत्स्नेयं वर्तते बुद्धिरन्तरे ॥

12.291.15

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञः पुनरष्टमः ॥

12.291.16

इन्द्रियाणि च कर्ता च विचेतव्यानि भागशः ।
तमः सत्वं रजस्तैव तेऽपि भावास्तदाश्रयाः ॥

12.291.17

चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥

12.291.18

तमः सत्वं रजश्चेति कालः कर्म च भारत । गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाणि च ।
मनः षष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥

12.291.19

येन पश्यति तच्चक्षुः शृण्वती श्रोत्रमुच्यते ।
जिघ्रती भवति घ्राणं रसती रसना रसान् ॥

12.291.20

स्पर्शनं स्पर्शती स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् ।
यदा प्रार्थयते किञ्चित्तदा भवति सा मनः ॥

12.291.21

अधिष्ठानानि बुद्ध्या हि पृथगेतानि पञ्चधा ।
इन्द्रियाणीति तान्याहुस्तेषु दुष्टेषु दुष्यति ॥

12.291.22

पुरुषे तिष्ठती बुद्धिस्त्रिषु भावेषु वर्तते ।
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ॥

12.291.23

न सुखेन न दुःखेन कदाचिदपि वर्तते ।
सेयं भावात्मिका भावांस्त्रीनेतान्परिवर्तते ॥

12.291.24

सरितां सागरो भर्ता यथा वेलामिवोर्मिमान् ।
इति भावगता बुद्धिर्भावे मनसि वर्तते ॥

12.291.25

प्रवर्तमानं तु रजस्तद्भावेनानुर्तते ।
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ॥

12.291.26

कथञ्चिदुपपद्यन्ते पुरुषे सात्विका गुणाः ।
पिरदाहस्तथा शोकः सन्तापोऽपूर्तिरक्षमा ॥

12.291.27

लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ।
अविद्या रागमोहौ च प्रमादः स्तब्धता भयम् ॥

12.291.28

असमृद्धिस्तथा दैन्यं प्रमोहः स्वप्नतन्द्रिता ।
कथञ्चिदुपवर्तन्ते विविधास्तामसा गुणाः ॥

12.291.29

तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥

12.291.30

अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येव तदसंरभ्य चिन्तयेत् ॥

12.291.31

अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥

12.291.32

इति बुद्धिगतीः सर्वा व्याख्याता यावतीरिह ।
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ॥

12.291.33

सत्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ।
सृजतेऽत्र गुणानेक एको न सृजते गुणान् ॥

12.291.34

पृथग्भूतौ प्रकृत्या तु सम्प्रयुक्तौ च सर्वदा ।
यथा मत्स्योऽद्भिरन्यः स्यात्सम्प्रयुक्तो भवेत्तथा ॥

12.291.35

न गुणा विदुरात्मानं स गुणान्वेद सर्वतः ।
परिद्रष्टा गुणानां तु संस्रष्टा मन्यते यथा ॥

12.291.36

आश्रयो नास्ति सत्वस्य गुणसर्गेण चेतना ।
सत्वमस्य सृजन्त्यन्ये गुणान्वेद कदाचन ॥

12.291.37

सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति ।
सम्प्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः ॥

12.291.38

इन्द्रियैस्तु प्रदीपार्थं क्रियते बुद्धिरन्तरा ।
निश्चक्षुर्भिरजानद्भिरिन्द्रियाणि प्रदीपवत् ॥

12.291.39

एवं स्वभावमेवैतत्तद्बुद्ध्वा विहरन्नरः ।
अशोचन्नप्रहृष्यंश्च स वै विगतमत्सरः ॥

12.291.40

स्वभावसिद्धमेवैतद्यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥

12.291.41

प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ॥

12.291.42

इतीदं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम् ।
विमुच्य सुखमासीत विशोकश्छिन्नसंशयः ॥

12.291.43

ताम्येयुः प्रच्युताः पृथ्वीं मोहपूर्णां नदीं नराः ।
यथा गाधमविद्वांसो बुद्धियोगमयं तथा ॥

12.291.44

नैव ताम्यन्ति विद्वांसः प्लवन्तः पारमम्भसः ।
अध्यात्मविदुषो धीरा ज्ञानं तु परमं प्लवः ॥

12.291.45

न भवति विदुषां महद्भयं यदविदुषां सुमहद्भयं भवेत् ।
न हि गतिरधिकाऽस्ति कस्यचि त्सकृदुपदर्शयतीह तुल्यताम् ॥

12.291.46

यत्करोति बहुदोषमेकत स्तच्च दूषयति यत्पुरा कृतम् ।
नाप्रियं तदुभयं करोत्यसौ यच्च दूषयति यत्करोति च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc