भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.288

12.288.1

वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः ।
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ॥

12.288.2

ज्वलितास्योऽभवद्धोरो वैवर्ण्यं चागमत्परम् ।
गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् ॥

12.288.3

रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप ।
शिवा चाशिवसन्काशा तस्य वक्रात्सुदारुणा ॥

12.288.4

निष्पपात महाघोरा स्मृतिर्नष्टास्य भारत ।
उत्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे ॥

12.288.5

गृध्राः कङ्का बलाकाश्च वाचोऽमुञ्चन्सुदारुणाः ।
वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः ॥

12.288.6

ततस्तं रथमास्थाय देवाप्यायित आहवे ।
वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत ॥

12.288.7

अमानुषमथो नादं स मुमोच महासुरः ।
व्यजृम्भच्चैव राजेन्द्र तीव्रज्वरसमन्वितः ॥

12.288.8

अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत् ।
स वज्रः सुमहातेजा कालान्तकयमोपमः ॥

12.288.9

क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत् ।
ततो नादः समभवत्पुनरेव समन्ततः ॥

12.288.10

वृत्रं विनिहितं दृष्ट्वा देवानां भरतर्षभ ।
वृत्रं तु हत्वा मघवा दानवारिर्महायशाः ॥

12.288.11

वज्रेण विष्णुयुक्तेन दिवमेव समाविशत् ।
अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता ॥

12.288.12

ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा ।
करालदशना भीमा विकृता कृष्णपिङ्गला ॥

12.288.13

प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत ।
कपालमालिनी चैव कृत्येव भरतर्षभ ॥

12.288.14

रुधिरार्द्रा च धर्मज्ञ चीरवल्कलवासिनी ।
साऽभिनिष्क्रम्य राजेन्द्र तादृग्रृपा भयावहा ॥

12.288.15

वज्रिणं मृगयामास तदा भरतसत्तम ।
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन ॥

12.288.16

स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया ।
सा विनिःसरमाणं तु दृष्ट्वा शक्रं महौजसम् ॥

12.288.17

कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा ।
स हि तस्मिन्समुत्पन्ने ब्रह्मवध्याकृते भये ॥

12.288.18

नलिन्या विसमध्यस्थ उवासाब्दगणान्बहून् ।
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया ॥

12.288.19

तदा गृहीतः कौरव्य निस्तेजाः समपद्यत ।
तस्या व्यपोहने शक्रः परं यत्नं चकार ह ॥

12.288.20

न चाशकत्तां देवेन्द्रो ब्रह्मवध्यां व्यपोहितुम् ।
गृहीत एव तु तया देवेन्द्रो भरतर्षभ ॥

12.288.21

पितामहमुपागम्य शिरसा प्रत्यपूजयत् ।
ज्ञात्वा गृहीतं शक्रं स द्विजप्रवरवध्यया ॥

12.288.22

ब्रह्मा स चिन्तयामास तदा भरतसत्तम ।
तामुवाच महाबाहो ब्रह्मवध्यां पितामहः ॥

12.288.23

स्वरेण मधुरेणाथ सान्त्वयन्निव भारत ।
मुच्यतां त्रिदशेन्द्रोयं मत्प्रियं कुरु भामिनी ॥

12.288.24

ब्रूहि किं ते करोम्यद्य कामं किं त्वमिहेच्छसि ॥
ब्रह्महत्योवाच ।

12.288.25

त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि ।
कृतमेव हि मन्यामि निवासं तु विधत्स्व मे ॥

12.288.26

त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना ।
स्थापना वै सुमहती त्वया देव प्रवर्तिता ॥

12.288.27

प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वर प्रभो ।
शक्रादपगमिष्यामि निवासं संविधत्स्व मे ॥
भीष्म उवाच ।

12.288.28

तथेति तां प्राह तदा ब्रह्मवध्यां पितामहः ।
उपायतः स शक्रस्य ब्रह्मवध्यां व्यपोहितुम् ॥

12.288.29

ततः स्वयम्भुवा ध्यातस्तत्र वह्निर्महात्मना ।
ब्रह्माणमुपसन्गम्य ततो वचनमब्रवीत् ॥

12.288.30

प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमनिन्दित् ।
यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति ॥
ब्रह्मोवाच ।

12.288.31

बहुधा विभजिष्यामि ब्रह्मवध्यामिमामहम् ।
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ वै ॥
अग्निरुवाच ।

12.288.32

मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो ।
एतदिच्छामि विज्ञातुं तत्वतो लोकपूजित ॥
ब्रह्मोवाच ।

12.288.33

यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् ।
बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः ॥

12.288.34

तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।
ब्रह्मवध्या हव्यवाह व्येतु ते मानसो ज्वरः ॥

12.288.35

इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् ।
पितामहस्य भगवांस्तथा च तदभूत्प्रभो ॥

12.288.36

ततो वृक्षौषधितृणं समाहूय पितामहः ।
इममर्थं महाराज वक्तुं समुपचक्रमे ॥

12.288.37

इयं पुत्रादनुप्राप्ता ब्रह्महत्या महाभया । पुरुहूतं चतुर्थांशमस्या यूयं प्रतीच्छत ॥

12.288.38

ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् ।
व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत् ॥

12.288.39

अस्माकं ब्रह्मवध्यायाः कोऽन्तो लोकपितामह ।
स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि ॥

12.288.40

वयमग्निं तथा शीतं वर्षं च पवनेरितम् ।
सहामः सततं देव तथा च्छेदनभेदने ॥

12.288.41

ब्रह्मवध्यामिमामद्य भवतः शासनाद्वयम् । ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान् ।
ब्रह्मोवाच ।

12.288.42

पर्वकाले तु सम्प्राप्ते यो वै छेदनभेदनम् ।
करिष्यति नरो मोहात्तमेषाऽनुगमिष्यति ॥
भीष्म उवाच ।

12.288.43

ततो वृक्षौषधितृणमेवमुक्तं महात्मना ।
ब्रह्माणमभिसम्पूज्य जगामाशु यथागतम् ॥

12.288.44

आहूयाप्सरसो देवस्ततो लोकपितामहः ।
वाचा मधुरया प्राह सान्त्वयन्निव भारत ॥

12.288.45

इयमिन्द्रादनुप्राप्ता ब्रह्मवध्या वराङ्गनाः ।
चतुर्थमस्या भागांशं मयोक्ताः सम्प्रतीच्छत ॥
अप्सरस ऊचुः ।

12.288.46

ग्रहणे कृतबुद्धीनां देवेश तव शासनात् ।
मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह ॥
ब्रह्मोवाच ।

12.288.47

रजस्वलासु नारीषु यो वै मैथुनमाचरेत् ।
तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः ॥
भीष्म उवाच ।

12.288.48

तथेति हृष्टमनस इत्युक्त्वाऽप्सरसां गणाः ।
स्वानि स्थानानि सम्प्राप्य रेमिरे भरतर्षभ ॥

12.288.49

ततस्त्रिलोककृद्देवः पुनरेव महातपाः ।
अथः सञ्चिन्तयामास ध्यातास्ताश्चाप्यथागमन् ॥

12.288.50

तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम् ।
इदमूचुर्वचो राजन्प्रणिपत्य पितामहम् ॥

12.288.51

इमाः स्म देव सम्प्राप्तास्त्वत्सकाशमरिन्दम् ।
शासनात्तव लोकेश समाज्ञापय नः प्रभो ॥
ब्रह्मोवाच ।

12.288.52

इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया ।
ब्रह्मवध्या चतुर्थांशमस्या यूयं प्रतीच्छत ॥
आप ऊचुः ।

12.288.53

एवं भवतु लोकेश यथा वदसि नः प्रभो ।
मोक्षं समयतोऽस्माकं सञ्चिन्तयितुमर्हसि ॥

12.288.54

त्वं हि देवेश सर्वस्य जगतः परमा गतिः ।
कोऽन्यः प्रसाद्यो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत् ॥
ब्रह्मोवाच ।

12.288.55

अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः ।
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ॥

12.288.56

तमियं यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः ॥

12.288.57

ततो विमुच्य देवेन्द्रं ब्रह्मवध्या युधिष्ठिर ।
यथा निसृष्टं तं वासमगमद्देवशासनात् ॥

12.288.58

एवं शक्रेण सम्प्राप्ता ब्रह्मवध्या जनाधिप ।
पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत् ॥

12.288.59

श्रूयते च महाराज सम्प्राप्ता वासवेन वै ।
ब्रह्मवध्या ततः शुद्धिं हयमेधेन लब्धवान् ॥

12.288.60

समवाप्य श्रियं देवो हत्वाऽरींश्च सहस्रशः ।
प्रहर्षमतुलं लेभे वासवः पृथिवीपते ॥

12.288.61

वृत्रस्य रुधिराच्चैव बुद्बुदाः पार्थ जज्ञिरे ।
द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः ॥

12.288.62

सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु ।
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन ॥

12.288.63

एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः ।
उपायपूर्वं निहतो वृत्रो ह्यमिततेजसा ॥

12.288.64

एवं त्वमपि कौन्तेय पृथिव्यामपराजितः ।
भविष्यसि यथा देवः शतक्रतुरमित्रहा ॥

12.288.65

ये तु शक्रकथां दिव्यामिमां पर्वसुपर्वसु ।
विप्रमध्ये वदिष्यन्ति न ते प्राप्स्यन्ति किल्विषं ॥

12.288.66

इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत् ।
कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc