भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.285

12.285.1

धन्याधन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत ।
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह ॥

12.285.2

लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम ।
प्राप्य जातिं मनुष्येषु देवैरपि पितामह ॥

12.285.3

कदा वयं करिष्यामः सन्न्यासं दुःखभेषजम् ।
दुःखमेतच्छरीराणां धारणं कुरुसत्तम ॥

12.285.4

विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः ।
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिश्च पितामह ॥

12.285.5

न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः ।
कदा वयं गमिष्यामो राज्यं हित्वा परन्तप ॥
भीष्म उवाच ।

12.285.6

नास्त्यनन्तं महाराज सर्वं सङ्ख्यानगोचरम् ।
पुनर्भावोपि संख्यातो नास्ति किञ्चिदिहाचलम् ॥

12.285.7

न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः ।
उद्योगादेव धर्मज्ञाः कालेनैव गमिष्यथ ॥

12.285.8

नेशेऽयं सततं देही नृपते पुण्यपापयोः ।
तत एव समुत्थेन तमसा रुध्यतेऽपि च ॥

12.285.9

यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः ।
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः ॥

12.285.10

तथा कर्मफलैर्देही रञ्जितस्तमसा वृतः ।
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते ॥

12.285.11

ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः ।
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् ॥

12.285.12

अयत्नसाध्यं मुनयो वदन्ति चे चापि मुक्तास्तदुपासितव्याः ।
त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसङ्घाः ॥

12.285.13

अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप ।
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् ॥

12.285.14

निर्जितेनासहायेन हृतराज्येन भारत ।
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् ॥

12.285.15

भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् ।
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव ॥
वृत्र उवाच ।

12.285.16

सत्येन तपसा चैव विदित्वा सन्क्षयं ह्यहम् ।
न शोचामि न हृष्यामि भूतानामागतिं गतिम् ॥

12.285.17

कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः ।
परिहृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः ॥

12.285.18

क्षपयित्वा तु तं कालं गणितं कालचोदिताः ।
सावशेषेण कालेन सन्धावन्ति पुनःपुनः ॥

12.285.19

तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।
निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः ॥

12.285.20

एवं संसरमाणानि ह्यहं भूतानि दृष्टवान् ।
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् ॥

12.285.21

तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च ।
सुखदुःखे प्रिये द्वेष्ये चरित्वा पूर्वमेव च ॥

12.285.22

कृतान्तविधिसंयुक्तः सर्वो लोकः प्रपद्यते ।
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा ॥

12.285.23

कालसङ्ख्यानसङ्ख्येयं सृष्टिस्थितिपरायणम् । तं भाषमाणं भगवानुशना प्रत्यभाषत ।
इमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषते ॥
वृत्र उवाच ।

12.285.24

प्रत्यक्षमेतद्भवतस्तथाऽन्येषां मनीषिणाम् ।
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः ॥

12.285.25

गन्धानादाय भूतानां रसांश्च विविधानपि ।
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा ॥

12.285.26

ज्वालामालापरिक्षिप्तो वैहायसगतिस्तथा ।
अजेयः सर्वभूतानामासं नित्यमपेतभीः ॥

12.285.27

ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः ।
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् ॥

12.285.28

युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ।
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः ॥

12.285.29

वैकुण्ठः पुरुषोऽनन्तः शुक्लो विष्णुः सनातनः ।
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः ॥

12.285.30

नूनं तु तस्य तपसः सावशेषं ममास्ति वै ।
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम् ॥

12.285.31

ऐश्वर्यं वै महद्ब्रह्मन्वर्णे कस्मिन्प्रतिष्ठितम् ।
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् ॥

12.285.32

भवन्ति कस्माद्भूतानि प्रवर्तन्ते यथा पुनः ।
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः ॥

12.285.33

केन वा कर्मणा शक्यमथ ज्ञानेन केन वा ।
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि ॥

12.285.34

इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह ।
मयोच्यमानं पुरुषर्षभ त्व मनन्यचित्तः सह सोदरीयैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc