भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.267

12.267.1

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ॥

12.267.2

वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः ।
सागरोद्देशमागम्य तपस्तेपे महातपाः ॥

12.267.3

नियतो नियताहारश्चीराजिनजटाधरः ।
मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ॥

12.267.4

स कदाचिन्महातेजा जलवासो महीपते ।
चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ॥

12.267.5

स चिन्तयामास मुनिर्जलमध्ये कदाचन ।
विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम् ॥

12.267.6

न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे ।
अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ॥

12.267.7

स दृश्यमानो रक्षोभिर्जलमध्ये च भारत ।
आस्फोटयत्तदाऽकाशे धर्मः प्राप्तो मयेति वै ॥

12.267.8

अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि । तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः ।
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ॥

12.267.9

इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः ।
पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ॥

12.267.10

इति ब्रुवाणं तमृषिं रक्षांस्युत्थाय सागरात् ।
अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम् ॥

12.267.11

इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा ।
वाराणस्यां तुलाधारं समासाद्याब्रवीदिदम् ॥
युधिष्ठिर उवाच ।

12.267.12

किं कृतं दुष्करं तात कर्म जाजलिना पुरा ।
येन सिद्धिं परां प्राप्तस्तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।

12.267.13

अतीव तपसा युक्तो घोरेण स बभूव ह ।
नद्युपस्पर्शनपरः सायम्प्रातर्महातपाः ॥

12.267.14

अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः ।
वानप्रस्थ विधानज्ञो जाजलिर्ज्वलितः श्रिया ॥

12.267.15

वने तपस्यतिष्ठत्स न चाधर्ममवैक्षत ।
वर्षास्वाकाशशायी च हेमन्ते जलसंश्रयः ॥

12.267.16

वातातपसहो ग्रीष्मे न चाधर्ममविन्दत ।
दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ॥

12.267.17

ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः ।
अन्तरिक्षाज्जलं मूर्ध्नां प्रत्यगृह्णान्मुहुर्मुहुः ॥

12.267.18

आप्लुतस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो ।
अरण्यगमनान्नित्यं मलिनोऽमलसंयुतः ॥

12.267.19

स कदाचिन्निराहारो वायुभक्षो महातपाः ।
तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ॥

12.267.20

तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत ।
कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः ॥

12.267.21

स तौ दयावान्ब्रह्मर्षिरुपप्रैक्षत दम्पती ।
कुर्वाणौ नीडकं तत्र जटासु तृणतन्तुभिः ॥

12.267.22

यदा न स चलत्येव स्थाणुभूतो महातपाः ।
ततस्तौ सुखविश्वस्तौ सुखं तत्रोषतुस्तदा ॥

12.267.23

अतीतास्वथ वर्षासु शरत्काल उपस्थिते ।
प्राजापत्येन विधिना विश्वासात्काममोहितौ ॥

12.267.24

तत्रोत्पादयतां राजञ्शिरस्यण्डानि खेचरौ ।
तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ॥

12.267.25

बुद्ध्वा च स महातेजा न चचाल च जाजलिः ।
धर्मे कृतमना नित्यं नाधर्मं स त्वरोचयत् ॥

12.267.26

अहन्यहनि चागत्य ततस्तौ तस्य मूर्धनि ।
आश्वासितौ निवसतः सम्प्रहृष्टौ तदा विभौ ॥

12.267.27

अण्डेभ्यस्त्वथ पुष्टेभ्यः प्राजायन्त शकुन्तकाः ।
व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ॥

12.267.28

स रक्षमाणस्त्वण़्डानि कुलिङ्गानां धृतव्रतः ।
तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ॥

12.267.29

ततस्तु काले राजेन्द्र बभूवुस्तेऽथ पक्षिणः ।
बुबुधे तांस्तु स मुनिर्जातपक्षान्कुलिङ्गकान् ॥

12.267.30

ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः ।
बभूव परमप्रीतस्तदा मतिमतां वरः ॥

12.267.31

तथा तानभिसंवृद्धान्दृष्ट्वा चैवाप्तवान्मुदम् ।
शकुनौ निर्भयौ तत्र ऊषतुश्चात्मजैः सह ॥

12.267.32

जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् ।
सायंसायं द्विजान्विप्रो न चाकम्पत जाजलिः ॥

12.267.33

कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति सन्ततम् ।
त्यक्ता मातापितृभ्यां ते नचाकम्पत जाजलिः ॥

12.267.34

तथा ते दिवसं चापि गत्वा सायं पुनर्नृप ।
उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ॥

12.267.35

कदाचिद्दिवसान्पञ्च समुत्पत्य विहगमाः ।
षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ॥

12.267.36

क्रमेण च पुनः सर्वे दिवसान्सुबहूनथ ।
नोपावर्तन्त शकुना जातपक्षाश्च ते यदा ॥

12.267.37

कदाचिन्मासमात्रेण समुत्पत्य विहन्गमाः ।
नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ॥

12.267.38

ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः ।
सिद्धोस्मीति मतिं चक्रे ततस्तं मान आविशत् ॥

12.267.39

स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः ।
सम्भावितात्मा सम्भाव्य भृशं प्रीतस्तदाऽभवत् ॥

12.267.40

स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम् ।
उदयन्तमथादित्यमभ्यागच्छन्महातपाः ॥

12.267.41

सम्भाव्य चटकान्मूर्ध्नि जाजलिर्जपतांवरः ।
आस्फोटयत्तथाऽकाशे धर्मः प्राप्तो मयेति वै ॥

12.267.42

अथान्तरिक्षे वागासीत्तां च शुश्राव जाजलिः ।
धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ॥

12.267.43

वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः ।
सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ॥

12.267.44

सोमर्षवशमापन्नस्तुलाधारदिदृक्षया ।
पृथिवीमचरद्राजन्यत्रसायन्गृहो मुनिः ॥

12.267.45

कालेन महताऽगच्छत्स तु वाराणसीं पुरीम् ।
विक्रीणन्तं च पण्यानि तुलाधारं ददर्श सः ॥

12.267.46

सोऽपि दृष्ट्वैव तं विप्रमायान्तं भाण्डजीवनः ।
समुत्थाय सुसंहृष्टः स्वागतेनाभ्यपूजयत् ॥
तुलाधार उवाच ।

12.267.47

आयानेवासि विदितो मम ब्रह्मन्न संशयः ।
ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ॥

12.267.48

सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् ।
न च धर्मस्य सञ्ज्ञां त्वं पुरा वेत्थ कथञ्चन ॥

12.267.49

ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः ।
क्षिप्रं शिरस्यजायन्त ते च सम्भावितास्त्वया ॥

12.267.50

जातपक्षा यदा ते च गता सञ्चरितुं ततः । मन्यमानस्ततो धर्मं चटकप्रभवं द्विज ।
खे वाचां त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ॥

12.267.51

अमर्षवशमापन्नस्ततः प्राप्तो भवानिह ।
करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc