महाभारत · अध्याय 12.25
द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये ।
व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥
युधिष्ठिर उवाच ।
न पार्थिवमिदं राज्यं न भोगाश्च पृथग्विधाः ।
प्रीणयन्ति मनो मेऽद्य शोको मां दारयत्ययम् ॥
श्रुत्वा वीरविहीनानामपुत्राणां च योषिताम् ।
परिदेवयमानानां न शान्तिं मनसा लभे ॥
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदांवरः ।
युधिष्ठिरं महाप्राज्ञो धर्मज्ञो वेदपारगः ॥
व्यास उवाच ।
न कर्मणा लभ्यते चेज्यया वा नाप्यस्ति दाता पुरुषस्य कश्चित् ।
पर्याययोगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः ॥
न बुद्धिशक्त्याऽध्ययनेन शक्यं प्राप्तुं विशेषं मनुजैरकाले ।
मूर्खोऽपि चाप्नोति कदाचिदर्था न्कालो हि सर्वं पुरुषस्य दाता ॥
न भूरकालेषु फलं ददाति शिल्पानि मन्त्राश्च तथौषधानि ।
तान्येव कालेन समाहितानि सिद्ध्यन्ति वर्धन्ति च भूतिकाले ॥
कालेन शीघ्राः प्रवहन्ति वाताः कालेन वृष्टिर्जलदानुपैति ।
कालेन पझोत्पलवञ्जलं च कालेन पुष्यन्ति वनेषु वृक्षाः ॥
कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः ।
नाकालतः पुष्पफलं द्रुमाणां नाकालवेगाः सरितो वहन्ति ॥
नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमृगाश्च लोके ।
नाकालतः स्त्रीषु भवन्ति गर्भा नायन्त्यकाले शिशिरोष्णवर्षाः ॥
नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः ।
नाकालतो यौवनमभ्युपैति नाकालतो रोहति बीजमुप्तम् ॥
नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति ।
नाकालतो वर्धते हीयते च चन्द्रः समुद्रोऽपि महोर्मिमाली ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुःसहः ।
कालेन परिपक्वा हि म्रियन्ते सर्वपार्थिवाः ॥
घ्नन्ति चान्यान्नरान्राजंस्तानप्यन्ये तथा नराः ।
सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरः ।
स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहो दुःखमिति ध्यायन्दुःखस्यापचितिं चरेत् ॥
स किं शोचसि मूढः सञ्शोच्यान्किमनुशोचसि ।
पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥
आत्माऽपि चायं न मम सर्वाऽपि पथिवी मम ।
यथा मम तथाऽन्येषामिति पश्यन्न मुह्यति ॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥
एवमेतानि कालेन प्रियद्वेष्याणि भागशः ।
जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते ।
तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥
सुखमेव हि दुःखान्तं कदाचिद्दुःखतः सुखम् ।
तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥
सुखान्तप्रभवं दुःखं दुःखान्तप्रभवं सुखम् । यन्निमित्तो भवेच्छोकस्तापो वा दुःखमूर्च्छितः ।
आयासो वाऽपि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥
सुखं वा यदि वा दुःखं प्रियं वा यदि वाऽप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥
ईषदप्यङ्ग दाराणां पुत्राणामाचरन्प्रियम् ।
ततो ज्ञास्यसि कः कस्य केन वा कथमेव च ॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः ।
त एव सुखमेधन्ते मध्यमः क्लिश्यते जनः ॥
इत्यन्नवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् ।
परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥
परदुःखेन दुःखी यो न स जातु सुखी भवेत् ।
दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥
सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च ।
पर्यायतः सर्वमवाप्तुवन्ति तस्मान्न मुह्येन्न च सम्प्रहृष्येत् ॥
दीक्षां राज्ञां संयुगे धर्ममाहु र्योगं राज्ये दण्डनीतिं च सम्यक् ।
वित्तत्यागं दक्षिणां चैव यज्ञे सम्यग्दानं पावनानीति विद्यात् ॥
रक्षन्राज्यं बुद्धिपूर्वं नयेन सन्त्यक्तात्मा यज्ञशीलो महात्मा ।
सर्वाल्लोकान्धर्मदृष्ट्यावलोक न्नूध्वं देहान्मोदते देवलोके ॥
जित्वा सन्ग्रामान्पालयित्वा च राष्ट्रं सोमं पीत्वा वर्धयित्वा प्रजाश्च ।
युक्त्या दण्डं धारयित्वा प्रजानां पश्चात्क्षीणायुर्मोदते देवलोके ॥
यजन्ति यज्ञान्विजयन्ति राज्यं रक्षन्ति राष्ट्राणि प्रियाणि चैषाम् ।
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राज्यं पालयित्वा च राजा । चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे पूतात्मा वै मोदते देवलोके ॥
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः ।
पौरजानपदामात्याः स राजा राजसत्तमः ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0