भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.236

12.236.1

किंशीलः किंसमाचारः किंविद्यः किम्पराक्रमः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥
भीष्म उवाच ।

12.236.2

मोक्षधर्मेषु नियतो लध्वाहारो जितेन्द्रियः ।
प्राप्नोति ब्रह्मणः स्थानं तत्परं प्रकृतेर्ध्रुवम् ॥

12.236.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
जैगीषव्यस्य संवादमसितस्य च भारत ॥

12.236.4

महादेवान्तरे वृत्तं देव्याश्चैवान्तरे तथा । यथावच्छृणु राजेन्द्र ज्ञानदं पापनाशनम् ॥

12.236.5

जैगीषव्यं नहाप्रज्ञं धर्नाणामागतागमम् ।
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत् ॥

12.236.6

न प्रीमसे बन्द्यमानो निन्द्यमानो न कुप्यसे ।
का ते प्रज्ञा कुतश्चैषा किं ते तस्याः परायणम् ॥
भीष्म उवाच ।

12.236.7

इति तेनानुयुक्तः स तमृपाच महातपाः ।
महद्वाक्यप्रसन्दिग्धं पुष्कलार्थपदं शुचि ॥
जैगीषव्य उवाच ।

12.236.8

या यतियौ परा निष्ठा या शान्तिः पुण्यकर्मणाम् ।
तां तेऽहं सं प्रवक्ष्यामि यां मां पृच्छसि वै द्विज ॥

12.236.9

निन्वत्सु वा सप्ता नित्यं प्रशंसत्सु च देवल ।
निहवन्ति च ये तेषां समयं सुकृतं च यत् ॥

12.236.10

उक्ताश्च न विवक्ष्यन्ति वक्तारमहिते हितम् ।
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः ॥

12.236.11

नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते ।
न चातीतानि शोचन्ति न चैतान्प्रतिजानते ॥

12.236.12

सम्प्राप्तानां च पूज्यानां कामादर्थेषु देवल ।
यथोपपत्तिं कुर्वन्ति शक्तिमन्तो धृतव्रताः ॥

12.236.13

पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः ।
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित् ॥

12.236.14

अनीर्षवो न चोन्योन्यं विहिंसन्ति कदाचन ।
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः ॥

12.236.15

निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य च ।
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन ॥

12.236.16

सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः ।
न कुध्यन्ति स हृष्यन्ति नापराध्यन्ति कस्यचित् ॥

12.236.17

विमुच्य हृदयग्रन्थिं चङ्कम्यन्ते यथासुखम् ।
न चैषां बान्धवाः सन्ति ये चान्येषां च बान्धवाः ॥

12.236.18

अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित् ।
य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा ॥

12.236.19

ये धर्मं चानुरुध्यन्ते धर्मज्ञा द्विजसत्तमाः ।
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च ॥

12.236.20

आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम् ।
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना ॥

12.236.21

यद्यदिच्छन्ति तत्तस्मादधिगच्छन्ति मानवाः ।
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः ॥

12.236.22

अमृतस्येव सन्तृप्येदवमानस्य तत्त्ववित् ।
विषस्येवोद्विजेन्नित्यं सम्मानस्य विचक्षणः ॥

12.236.23

अवज्ञातः सुखं शेते इह चामुत्र चोभयोः ।
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बुध्यते ॥

12.236.24

परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः ।
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः ॥

12.236.25

सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः ।
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम् ॥

12.236.26

नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम् ॥

12.236.27

एतच्छ्रुत्वा मुनेस्तस्य वचनं देवलस्तथा ।
तदधीनो भवच्छिष्यः सर्वद्वन्द्वविनिष्ठितः ॥

12.236.28

अथान्यत्तु पुरावृतं जैगीषव्यस्य धीमतः ।
शृणु राजन्नवहितः सर्वज्ञानसमन्वितः ॥

12.236.29

यमाहुः सर्वलोकेशं सर्वलोकनमस्कृतम् ।
अष्टमूर्ति जगन्मूर्तिमिष्टसन्धिविभूषितम् ॥
यं प्राप्ता न विषीदन्ति न शोचन्त्युद्विजन्ति च ॥

12.236.30

यस्य स्वाभाविकी शक्तिरिदं विश्वं चराचरम् ।
याति सज्जति सर्वात्मा स देवः परमेश्वरः ॥

12.236.31

मेरोरुत्तरपूर्वे तु सर्वरत्नविभूषिते ।
अचिन्त्ये विमले स्थाने सर्वर्तुकुसुमान्विते ॥

12.236.32

वृक्षैश्च शोभिते नित्यं दिव्यवायुसमीरिते ।
नानाभूतगणैर्युक्तः सर्वदेवनमस्कृतः ॥

12.236.33

तत्र विद्याधरगणा गन्धर्वाप्सरसां गणाः ।
लोकपालाः समुद्राश्च नद्यः शैलाः सरांसि च ॥

12.236.34

ऋषयो वालखिल्याश्च यज्ञाः स्तोभाह्वयास्तथा ।
उपासाञ्चक्रिरे देवं प्रजानां पतयस्तथा ॥

12.236.35

तत्र रुद्रो महादेवो देव्या चैव सहोमया ।
आस्ते वृषध्वजः श्रीमान्सोमसूर्याग्निलोचनः ॥

12.236.36

तत्रैवं देवमालोक्य देवी धात्री विभावरी ।
उमा देवी परेशानमपृच्छद्विनयान्विता ॥

12.236.37

अर्थः कोऽथार्थशक्तिः का भगवन्ब्रूहि मेऽर्थितः ।
तयैवं परिपृष्टोऽसौ प्राह देवो महेश्वरः ॥

12.236.38

अर्थोऽहमर्थशक्तिस्त्वं भोक्ताऽहं भोज्यमेव च ।
रूपं विद्धि महाभागे प्रकृतिस्त्वं परो ह्यहम् ॥

12.236.39

अहं विष्णुरहं ब्रह्मा ह्यहं यज्ञस्तथैव च । आवयोर्न च भेदोऽस्ति परमार्थस्ततोऽबले ।
तथापि विद्मस्ते भेदं किं मां त्वं परिपृच्छसि ॥

12.236.40

एवमुक्ता ततः प्राह ह्यधिकं ह्येतयोर्वद ।
श्रेष्ठं वेद महादेव नम इत्येव भामिनी ॥

12.236.41

तदन्तरे स्थितो विद्वान्वसुरूपो महामुनिः ।
जैगीषव्यः स्मयन्प्राह ह्यर्थ इत्येव नादयन् ॥

12.236.42

श्रेष्ठोन्योऽस्मान्महीपिण्डा तल्लीना शक्तिरापरा ।
मुद्रिकादिविशेषेण विस्तृता सम्भृतेति च ॥

12.236.43

तच्छ्रुत्वा वचनं देवी कोसावित्यब्रवीद्रुषा ।
वाक्यमस्याद्य सम्भङ्क्त्वा प्रोक्तवानिति शन्करम् ॥

12.236.44

तच्छ्रुत्वा निर्गतो धीमानाश्रमं स्वं महामुनिः ।
स्थानात्स्वर्गगणे विद्वान्योगैश्वर्यसमन्वितः ॥

12.236.45

ततः प्रहस्य भगवान्सर्वपापहरो हरः ।
प्राह देवीं प्रशान्तात्मा जैगीषव्यो महामुनिः ॥

12.236.46

भक्तो मम सखा चैव शिष्यश्चात्र महामुनिः ।
जैगीषव्य इति ख्यातः प्रोक्त्वासा निर्गतः शुभे ॥

12.236.47

तच्छ्रुत्वा साऽथ सन्क्रुद्धा न न्याय्यं तेन वै कृतम् ।
विकृताऽहं त्वया देव मुनिना च तथाकृता ॥

12.236.48

अत*ज्ञादयदेवेश मध्ये प्राप्तं न तच्छ्रुतम् ।
तच्छ्रुत्वा भगवानाह महादेवः पिनाकधृत् ॥

12.236.49

निरपेक्षो मुनिर्योगी मामुपाश्रित्य संस्थितः ।
निर्द्वन्द्वः सततं धीमान्समरूपस्वभावधृत् ॥

12.236.50

तस्मात्क्षमस्व तं देवि रक्षितव्यस्त्वया च सः ॥

12.236.51

इत्युक्ता प्राह सा देवी मुनेस्तस्य महात्मनः ।
निराशत्वमहं द्रष्टुमिच्छाम्यन्तकनाशन ॥

12.236.52

तथेति चोक्त्वा तां देवो वृषमारुह्य सत्वरम् ।
देवगन्धर्वसङ्घैश्च स्तूयमानो जगत्पतिः ॥

12.236.53

अजरामरशुद्धात्मा यत्रास्ते स महामुनिः ।
इतस्ततः समाहृत्य वीरसन्घैर्महायशाः ॥

12.236.54

देहप्रावरणार्थं वै संसरन्स तदा मुनिः । प्रत्युद्गम्य महादेवं यथार्हं प्रतिपूज्य च ।
पुनः स पूर्ववत्कथां सूच्या सूत्रेण सूचयत् ॥

12.236.55

तमाह भगवाञ्शम्भुः किं प्रदास्यामि ते मुने ।
वृणीष्व मत्तः सर्वं त्वं जैगीषव्य यदीच्छसि ॥

12.236.56

नावलोकयमानस्तु देवदेवं महामुनिः । अनवाप्तं न पश्यामि त्वत्तो गोवृषभध्वज ।
कृतार्थः परिपूर्णोऽहं यत्ते कार्यं तु गम्यताम् ॥

12.236.57

प्रहसंस्तु पुनः शर्वो वृणीष्वेति तमब्रवीत् ।
अवश्यं हि वरो प्रत्तः श्राव्यं वरमनुत्तमम् ॥

12.236.58

जैगीषव्यस्तमाहेदं श्रोतव्यं च त्वया मम ।
सूचीमनु महादेव सूत्रं समनुगच्छतः ॥

12.236.59

ततः प्रहस्य भगवान्गौरीमालोक्य शङ्करः ।
स्वस्थानं प्रययौ हृष्टः सर्वदेवनमस्कृतः ॥

12.236.60

एतत्ते कथितं राजन्यस्मात्त्वं परिपृच्छसि । निर्द्वन्द्वा योगिनो नित्याः सर्वशस्ते स्वयम्भुवः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc