भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.233

12.233.1

व्यसनेषु निमग्नस्य किं श्रेयस्तद्ब्रवीहि मे । भूय एव महाबाहो स्थित्यर्थं तं ब्रवीहि मे ॥
भीष्म उवाच ।

12.233.2

अत्रैवोदाहन्तीममितिहासं पुरातनम् ।
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर ॥

12.233.3

श्रिया विहीनमासीनमक्षोभ्यमिव सागरम् ।
भवाभवज्ञं भूतानामित्युवाच पुरन्दरः ॥

12.233.4

बद्धः पाशैश्च्युतः स्थानाद्द्विपतां वशमागतः ।
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि ॥
नमुचिरुवाच ।

12.233.5

अनवाप्यं च शोकेन शरीरं चोपशुष्यति । अमित्राश्च प्रहृष्यन्ति शोके नास्ति सहायता ।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥

12.233.6

सन्तापाद्धश्यते रूपं सन्तापाद्धश्यते श्रियः ।
सन्तापाद्धश्यते चायुर्धर्मश्चैव सुरेश्वर ॥

12.233.7

विनीय खलु तद्दुःखमागतं वै मनस्सुखम् ।
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ॥

12.233.8

यथायथा हि पुरुषः कल्याणे कुरुते मनः ।
तथैवास्य प्रसिध्यन्ति सर्वार्था नात्र संशयः ॥

12.233.9

एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता ।
तेनानुयुक्तः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा भवामि ॥

12.233.10

भावाभावावजिनानन्गरीयो जानामि श्रेयो न तु तत्करोमि ।
आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि ॥

12.233.11

यथायथाऽस्म प्राप्तव्यं प्राप्नोत्येव तथातथा ।
भवितव्यं यथा यच्च भवत्येव तथातथा ॥

12.233.12

यत्रयत्रैव संयुक्तो धात्रा गर्भे पुनः पुनः ।
तत्रतत्रैव वसति न यत्र स्वयमिच्छति ॥

12.233.13

भावो योऽयमनुप्राप्तो भवितव्यमिदं मम ।
इति यस्य सदा भावो न स शोचेत्कदाचन ॥

12.233.14

पर्यायैर्हन्यमानानामभिषङ्गो न विद्यते ।
दुःखमेतत्तु यद्द्वेष्टा कर्ताऽहमिति मन्यते ॥

12.233.15

ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च ।
का नापदो नोपनमन्ति लोके परावरज्ञास्तु न सम्भ्रमन्ति ॥

12.233.16

न पण्डितः क्रुद्ध्यति नाभिषज्यते न चापि संसीदति न प्रहृष्यति ।
न चार्थकृच्छ्रव्यसनेषु शोचते स्थितः प्रकृत्या हिमवानिवाचलः ॥

12.233.17

यमर्थसिद्धिः परमा न हर्षये त्तथैव काले व्यसनं न मोहयेत् ।
सुखं च दुःखं च तथैव मध्यमं निषेवते यः स धुरधरो नरः ॥

12.233.18

यांयामवस्थां पुरुषोऽधिगच्छे त्तस्यां रमेतापरितप्यमानः ।
एवं प्रवृद्धं प्रणुदन्मनोजं सन्तापनीलं सकलं शरीरात् ॥

12.233.19

न तत्सदः सत्परिषत्सभा च सा प्राप्य यां न कुरुते सदा भयम् ।
धर्मतत्त्वमवगाह्य बुद्धिमा न्योऽभ्युपैति स धुरन्धरः पुमान् ॥

12.233.20

प्राज्ञस्य कर्माणि दुरन्वयानि न वै प्राज्ञो मुह्यति मोहकाले ।
स्थानाच्च्युतश्चेन्न मुमोह गौतम स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः ॥

12.233.21

न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च । [न शीलेन न वृत्तेन तथा नैवार्थसम्पदा.]
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥

12.233.22

यदेवमभिजातस्य धातारो विदधुः पुरा ।
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति ॥

12.233.23

लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ।
प्राप्तव्यान्येव चाप्नोति दुःखानि च सुखानि च ॥

12.233.24

एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः ।
कुशली सर्वदुःखेषु स वै सर्वधनी नरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc