भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.229

12.229.1

यदिदं कर्म लोकेऽस्मिञ्शुभं वा यदि वाऽशुभम् ।
पुरुषं योजयत्येव फलयोगेन भारत ॥

12.229.2

कर्ता स्वित्तस्य पुरुष उताहो नेति संशयः ।
एतदिच्छामि तत्त्वेन त्वत्तः श्रोतुं पितामह ॥
भीष्म उवाच ।

12.229.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादमिन्द्रस्य च युधिष्ठिर ॥

12.229.4

असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम् ।
अस्तब्धमनहन्कारं सत्वस्थं संयतेन्द्रियम् ॥

12.229.5

तुल्यनिन्दास्तुतिं दान्तं शून्यागारसमाकृतिम् ।
चराचराणां भूतानां विदितप्रभवाप्ययम् ॥

12.229.6

अक्रुध्यन्तमहृष्यन्तमप्रियेषु प्रियेषु च ।
काञ्चने वाऽथ लोष्ठे वा उभयोः समदर्शनम् ॥

12.229.7

आत्मनि श्रेयसि ज्ञाने धीरं निश्चितनिश्चयम् ॥
परावरज्ञं भूतानां सर्वज्ञं सर्वदर्शनम् ॥

12.229.8

अव्यक्तात्मनि गोविन्दे वासुदेवे महात्मनि ।
हृदयेन समाविष्टं सर्वभावप्रियन्करम् ॥

12.229.9

भक्तं भागवतं नित्यं नारायणपरायणम् । ध्यायन्तं परमात्मानं हिरण्यकशिपोः सुतम् ॥

12.229.10

शक्रः प्रह्लादमासीनमेकान्ते संयतेन्द्रियम् ।
बुभुत्समानस्तत्प्रज्ञामभिगम्येदमब्रवीत् ॥

12.229.11

यैः कैश्चित्सम्मतो लोके गुणैः स्यात्पुरुषो नृषु ।
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयामहे ॥

12.229.12

अथ ते लक्ष्यते बुद्धिः समा बालजनैरिह ।
आत्मानं मन्यमानः सञ्श्रेयः किमिह मन्यसे ॥

12.229.13

बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः ।
श्रिया विहीनः प्रह्लाद शोचितव्ये न शोचसि ॥

12.229.14

प्रज्ञालाभेन दैतेय उताहो धृतिमत्तथा ।
प्रह्लाद स्वस्थरूपोऽसि पश्यन्व्यसनमात्मनः ॥
भीष्म उवाच ।

12.229.15

इति सञ्चोदितस्तेन धीरो निश्चितनिश्चयः ।
उवाच श्लक्ष्णया वाचा स्वां प्रज्ञामनुवर्णयन् ॥
प्रह्लाद उवाच ।

12.229.16

प्रवृत्तिं च निवृत्तिं च भूतानां यो न बुध्यते ।
तस्य स्तम्भो भवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥

12.229.17

गहनं सर्वभूतानां ध्येयं नित्यं सनातनम् ।
अनिग्रहमनौपम्यं सर्वाकारं परात्परम् ॥

12.229.18

सर्वावरणसम्भूतं तस्मादेतत्प्रवर्तते ।
तन्मया अपि सम्पश्य नानालक्षणलक्षिताः ॥

12.229.19

स वै पाति जगत्स्रष्टा विष्णुरित्यभिशब्दितः । पुनर्दर्शति सम्प्राप्ते------सुरेश्चरः ॥

12.229.20

स्वभावात्सम्प्रवर्तन्ते निवर्तन्ते तथैव च ।
सर्वे भावास्तथा भावाः पुरुषार्थो न विद्यते ॥

12.229.21

पुरुषार्थस्य चाभावे नास्ति कश्चित्स्वकारकः ।
स्वयं च कुर्वतस्तस्य जातु मानो भवेदिह ॥

12.229.22

यस्तु कर्तारमात्मानं मन्यते साध्वसाधु वा ।
तस्य दोषवती प्रज्ञा अतत्त्वज्ञेति मे मतिः ॥

12.229.23

यदि स्यात्पुरुषः कर्ता शक्रात्मश्रेयसे ध्रुवम् ।
आरम्भास्तस्य सिद्ध्येयुर्न तु जातु पराभवेत् ॥

12.229.24

अनिष्टस्य हि निर्वृत्तिरनिवृत्तिः प्रियस्य च ।
लक्ष्यते यतमानानां पुरुषार्थस्ततः कुतः ॥

12.229.25

अनिष्टस्याभिनिर्वृत्तिमिष्टसंवृतिमेव च ।
अप्रयत्नेन पश्यामः केषां चित्तत्स्वभावतः ॥

12.229.26

प्रतिरूपतराः केचिद्दृस्यन्ते बुद्धिमत्तराः ।
विरूपेभ्योऽल्पबुद्धिभ्यो लिप्समाना धनागमं ॥

12.229.27

स्वभावप्रेरिताः सर्वे निविशन्ते गुणा यदा ।
शुभाशुभास्तदा तत्र तस्य किं मानकारणम् ॥

12.229.28

स्वभावादेव तत्सर्वमिति मे निश्चिता मतिः ।
आत्मप्रतिष्ठा प्रज्ञा वा मम नास्ति ततोऽन्यथा ॥

12.229.29

कर्मजं त्विह मन्यन्ते पलयोगं शुभाशुभम् ।
कर्मणां विषयं कृत्स्नमहं वक्ष्यामि तच्छृणु ॥

12.229.30

यथा वेदयते कश्चिदोदनं पायसं ह्यदन् ।
एवं सर्वाणि कर्माणि स्वभावस्यैव लक्षणम् ॥

12.229.31

विकारानेव यो वेद न वेद प्रकृतिं पराम् ।
तस्य स्तम्भोऽभवेद्बाल्यान्नास्ति स्तम्भोऽनुपश्यतः ॥

12.229.32

स्वभावभाविनो भावान्सर्वानेवेह निश्चये ।
बुद्ध्यमानस्य दर्पो वा मानो वा किं करिष्यति ॥

12.229.33

वेद धर्मविधिं कृत्स्नं भूतानां चाप्यनित्यताम् ।
तस्माच्छक्र न शोचारि सर्वं ह्येवेदमन्तवत् ॥

12.229.34

निर्ममो निरहन्कारो निरीहो मुक्तबन्धनः ।
स्वस्थो व्यपेतः पश्यामि भूतानां प्रभवाप्ययौ ॥

12.229.35

कृतप्रज्ञस्य दान्तस्य वितृष्णाय निराशिषः ।
नायासो विद्यते शक्र पश्यतो योगवित्तया ॥

12.229.36

प्रकृतौ च विकारे च न मे प्रीतिर्न च द्विषे ।
द्वेष्टारं च न पश्यामि यो ममाद्य विरुध्यति ॥

12.229.37

नोर्ध्वं नावाङ्वतिर्यक्च न क्वचिच्छक्र कामये ।
न हि ज्ञेये न विज्ञाने नाज्ञाने विद्यतेऽन्तरम् ॥
शक्र उवाच ।

12.229.38

येनैषा लभ्यते प्रज्ञा येन शान्तिरवाप्यते ।
प्रब्रूहि तमुपायं मे सम्यक्प्रह्लाद पृच्छते ॥
प्रह्लाद उवाच ।

12.229.39

आर्जवेनाप्रमादेन प्रसादेनात्मवत्तया ।
गुरुशुश्रूषया शक्र पुरुषो लभते महत् ॥

12.229.40

स्वभावाल्लभते प्रज्ञां शान्तिमेति स्वभावतः ।
स्वभावादेव तत्सर्वं यत्किञ्चिदनुपश्यति ॥

12.229.41

नैवान्तरं विजानाति श्रुत्वा गुरुमुखात्ततः ।
वाक्यं वाक्यार्थविज्ञानमालोक्य मनसा यतिः ॥

12.229.42

विवेकप्रत्ययापन्नमात्मानमनुपश्यति ।
विरज्यति ततो भीत्या परमेश्वरमृच्छति ॥

12.229.43

त्रातारं सर्वदुःखानां तत्सुखान्वेषणं ततः ।
करोति सद्भिः संसर्गमलं सन्तः सुखाय वै ॥

12.229.44

सतां सकाशादाज्ञाय मार्गं लक्षणवत्तया ।
सर्वसङ्गविनिर्मुक्तः परमात्मानमृच्छति ॥

12.229.45

विषयेच्छाकृतो धर्मं सरजस्को भयावहः ।
धर्महानिमवाप्नोति क्रमात्तेन नरः पुनः ॥

12.229.46

भक्तिहीनो भवत्येव परमात्मनि चाच्युत ।
वाचके वाऽपि च स्थानं न हन्त्येव विमोचितः ॥

12.229.47

सार्क्ष्ये चास्य रतिर्नित्यं संसारे च रतिर्भवेत् ।
तस्य नित्यमविज्ञानादात्माचैव न सिद्ध्यति ॥

12.229.48

उन्मत्तवृत्तिर्भवति क्रमादेवं प्रवर्तते ।
आशौचं वर्धते नित्यं न शाम्यति कथञ्चन ॥

12.229.49

विषये चान्वितस्यास्य मोक्षवाञ्छा न जायते ।
हेत्वाभासेषु संलीनः स्तौति वैषयिकान्गुणान् ॥

12.229.50

न शास्त्राणि शृणोत्येव मानदर्पसमन्वितः । स्वतःसिद्धं न भोगस्तं स्वतः सिद्धं न वेत्ति च ।
चिद्रूपधारणं चैव परसृष्टिमथाव्ययम् ॥

12.229.51

नानायोनिगतस्तेन भ्राम्यमाणः स्वकर्मभिः । तीर्णपारं न जानाति महामोहसमन्वितः ।
आचार्यसंश्रयाद्विद्याद्विनयं समुपागतः ॥

12.229.52

अनुकूलेषु धर्मेषु चिनोत्येनं ततस्ततः ।
आचार्य इति च ख्यातस्तेनासौ बलवृत्रहन् ॥

12.229.53

नियतेनैव सद्भावस्तेन जन्मान्तरादिषु ।
कर्मसञ्चयतूलौघः क्षिप्यते ज्ञानवायुना ॥

12.229.54

एवं युक्तसमाचारः संसारविनिवर्तकः ।
अनुकूलवृत्तिं सततं छिनत्त्येव भृगुर्यथा ॥

12.229.55

येन चायं समापन्नं वैतृष्ण्यं नाधिगच्छति ।
अभ्यन्तरः स्मृतः शक्र तत्साम्यं परिवर्जयेत् ॥

12.229.56

प्रथमं तत्कृतेनैव कर्मणा परिमृच्छति ।
द्वितीयं स्वप्नयोगं च कर्मणा परिगच्छति ॥

12.229.57

एतैरक्षैः समापन्नः प्रत्यक्षोऽसौ समास्थितः ।
सुपुप्त्याख्यस्तुरीयोसौ न च ह्यावरणान्वितः ॥

12.229.58

लोकवृत्त्या तमीशानं यजञ्जुह्वन्यमी भवेत् ।
आत्मन्यायासयोगेन निष्क्रियं स परात्परम् ॥

12.229.59

आयामे तां विजानाति मायैषा परमात्मनः ।
प्रातिभासिकसामान्याद्बुद्धेर्या संविदात्मिका ॥

12.229.60

स्फुलिङ्गसत्त्वसदृशादग्निभावो यथा भवेत् ।
शिशूनामेवमज्ञानामात्मभावोऽन्यथा स्मृतः ॥

12.229.61

साध्येऽप्यवस्तुभूताख्ये मित्रामित्रादयः कुतः ।
तदभावे तु शोकाद्या न वर्तन्ते सुरेश्वर ॥

12.229.62

एवं बुध्यस्व भगवन्समबुद्धिं समन्वियात् ।
उपायमेतदाख्यातं मा वक्रं गच्छ देवप ॥

12.229.63

ज्ञानेन पश्यते कर्म ज्ञानिनां न प्रवर्तकम् ।
यावदारब्धमस्येह तावन्नैवोपशाम्यति ॥

12.229.64

तदन्ते तं प्रयात्येव न विद्वानिति मे मतिः ।
यदस्य वाचकं वक्ष्ये संस्मरे तद्भवेत्तदा ॥

12.229.65

तेनतेन च भावेन अपायं तत्र पश्यति ।
स्थानभेदेषु वागेषा तालुसंस्था यथा तथा ॥

12.229.66

तद्वदुद्धिगता ह्यर्था बुद्धिमात्मगतः सदा ॥

12.229.67

समस्तसन्कल्पविशेषमुक्तं परं पराणां परमं महात्मा ।
त्रय्यन्तविद्भिः परिगीयतेऽसौ विष्णुर्विभुर्वास्ति गुणो न नित्यम् ॥

12.229.68

वर्णेषु लोकेषु विशेषणेषु स वासुदेवो वसनान्महात्मा.ट
गुणानुरूपं स च कर्मरूपं ददाति सर्वस्य समस्तरूपम् । न सन्दृशे तिष्ठति रुपमस्य न चक्षुषा पश्यति कश्चिदेनम् ॥

12.229.69

भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह ॥

12.229.70

वदन्ति तन्मे भगवान्ददौ स स एव शेषं मघवान्महात्मा ।
एवं ममोपायमवैहि शक्र तस्माल्लोको नास्ति मह्यं सदैव ॥
भीष्म उवाच ।

12.229.71

इत्युक्तो दैत्यपतिना शक्रो विस्मयमागमत् ।
प्रीतिमांश्च तदा राजंस्तद्वाक्यं प्रत्यपूजयत् ॥

12.229.72

स तदाभ्यर्च्य दैत्येन्द्रं त्रैलोक्यपतिरीश्वरः ।
असुरेन्द्रमुपामन्त्र्य जगाम स्वं निवेशनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc