भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.225

12.225.1

किं कुर्वन्सुखमाप्नोति किं कुर्वन्दुःखमाप्नुयात् ।
किं कुर्वन्निर्भयो लोके सिद्धश्चरति भारत ॥
भीष्म उवाच ।

12.225.2

दममेव प्रशंसन्ति वृद्धाः श्रुतिसमाधयः ।
सर्वेषामेव वर्णानां ब्राह्मणस्य विशेषतः ॥

12.225.3

नादान्तस्य क्रियासिद्धिर्यथावदुपपद्यते ।
क्रिया तपश्च देवाश्च दमे सर्वं प्रतिष्ठितम् ॥

12.225.4

दमस्तेजो वर्धयति पवित्रं दम उच्यते ।
विपाष्मा निर्भयो दान्तः पुरुषो विन्दते महत् ॥

12.225.5

सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं लोके विपर्येति मनश्चास्य प्रसीदति ॥

12.225.6

तेजो दमन ध्रियते तत्र तीक्ष्णोऽधिगच्छति ।
अमित्रांश्च बहून्नित्यं पृथगात्मनि पश्यति ॥

12.225.7

क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् ।
तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा ॥

12.225.8

आश्रमेषु च सर्वेषु दम एव विशिष्यते । 12-225-8ब्धर्मः संरक्ष्यते तैस्तु यतस्ते धर्मसेतवः ।
यच्च तेषु फलं धर्म्यं भूयो दान्ते तदुच्यते ॥

12.225.9

तेषां लिङ्गानि वक्ष्यानि येषां समुदयो दमः ।
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ॥

12.225.10

अक्रोध आर्जवं नित्यं नातिवादोऽभिमानिता ।
गुरुपूजाऽनसूया च दया भूतेष्वपैशुनम् ॥

12.225.11

जनवादमृषावादस्तुतिनिन्दाविवर्जनम् ।
साधुकामांश्च स्पृहयेन्नायतिं प्रत्ययेषु च ॥

12.225.12

अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः ।
सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽत्मवाञ्शुचिः ॥

12.225.13

प्राप्य लोके च सत्कारं स्वर्गं वै प्रेत्य गच्छति ।
दुर्गमं सर्वभूतानां प्रापयन्मोदते सुखी ॥

12.225.14

सर्वभूतहिते युक्तो न स्म यो द्विषते जनम् ।
महाह्रद इवाक्षोभ्यः प्राज्ञस्तृप्तः प्रसीदति ॥

12.225.15

अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः ।
नमस्यः सर्वभूतानां दान्तो भवति बुद्धिमान् ॥

12.225.16

न हृष्यति महत्यर्थे व्यसने च न शोचति ।
सदाऽपरिमितप्रज्ञः स दान्तो द्विज उच्यते ॥

12.225.17

कर्मभिः श्रुतसम्पन्नः सद्भिराचारेतः शुचिः ।
सदैव दमसंयुक्तस्तस्य भुङ्क्ते महाफलम् ॥

12.225.18

अनसूयाऽक्षमा शान्तिः सन्तोषः प्रियवादिता ।
सत्यं दानमनायासो नैष मार्गो दुरात्मनाम् ॥

12.225.19

कामक्रोधौ च लोभश्च परस्येर्ष्या विकत्थना । अतुष्टिरनृतं मोह एष मार्गो दुरात्मनाम् ॥

12.225.20

कामक्रोधौ वशे कृत्वा ब्रह्मचारी जितेन्द्रियः । विक्रम्य घोरे तमसि ब्राह्मणः संशितव्रतः ।
कालाकाङ्क्षी चरेल्लोकान्निरपाय इवात्मवान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc