भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.218

12.218.1

निष्कल्मषं ब्रह्मचर्यमिच्छताचरितुं सदा ।
निद्रा सर्वात्मना त्याज्या स्वप्नदोषमवेक्षता ॥

12.218.2

स्वप्ने हि रजसा देही तमसा चाभिभूयते ।
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः ॥

12.218.3

ज्ञानाभ्यासाज्जागरिता जिज्ञासार्थमनन्तरम् ।
विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा ॥

12.218.4

अत्राह कोन्वयं भावः स्वप्ने विषयवानिव ।
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव ॥

12.218.5

अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः ।
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः ॥

12.218.6

इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं मनः ।
तन्मयानीन्द्रियाण्याहुस्तावद्गच्छन्ति तानि वै ॥

12.218.7

अत्राहुस्त्रितयं नित्यमतथ्यमिति चेच्च न ।
प्रथमे वर्तमानोऽसौ त्रितयं चेति सर्वदा ॥

12.218.8

नेतरावुपसन्गम्य विजानाति कथञ्चन ।
स्वप्नावस्थागतो ह्येष स्वप्न इत्येव वेत्ति च ॥

12.218.9

तदप्यसदृशं युक्त्या त्रितयं मोहलक्षणम् । यदात्मत्रितयान्मुक्तस्तदा जानात्यसत्कृतः ॥

12.218.10

मनसस्त्वप्रलीनत्वात्तत्तदाहुर्निदर्शनम् । कार्ये चासक्तमनसः सन्कल्पो जाग्रतो ह्यपि ।
यद्वन्मनोरथैश्चर्यं स्वप्ने तद्वन्मनोगतम् ॥

12.218.11

संसाराणामसंख्यानां कामात्मा तदवाप्नुयात् ।
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः ॥

12.218.12

गुणानामपि यद्येतत्कर्मणा चाप्युपस्थितम् ।
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा ॥

12.218.13

ततस्तमुपसर्पन्ति गुणा राजसतामसाः ।
सात्विका वा यथायोगमानन्तर्यफलोदयम् ॥

12.218.14

ततः पश्यन्त्यसम्बन्धान्वातपित्तकफोत्तरान् ।
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरत्ययम् ॥

12.218.15

प्रसन्नैरिन्द्रियैर्यद्यत्सन्कल्पयति मानसम् ।
तत्तत्स्वप्नेप्युपरते मनो बुद्धिर्निरीक्षते ॥

12.218.16

व्यापकं सर्वभूतेषु वर्तते दीपवन्मनः ।
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥

12.218.17

मनस्यन्तर्हितं द्वारं देहमास्थाय मानुषम् ।
यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम् ॥

12.218.18

व्यक्तभेदमतीतोऽसौ चिन्मात्रं परिदृश्यते । सर्वभूतात्मभूतस्थं तमध्यात्मगुणं विदुः ॥

12.218.19

लिप्सेन मनसा यश्च सन्कल्पादैश्वरं गुणम् ।
आत्मप्रसादात्तं विद्यात्सर्वा ह्यात्मनि देवताः ॥

12.218.20

एवं हि तपसा युञ्ज्यादर्कवत्तमसः परम् ।
त्रैलोक्यप्रकृतिर्देही तमसोन्ते महेश्वरम् ॥

12.218.21

तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः ।
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम् ॥

12.218.22

सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः ।
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ ॥

12.218.23

सत्त्वं मनस्तथा बुद्धिर्देवा इत्यभिशम्ब्दिताः ।
तैरेव हि वृतस्तस्माज्ज्ञात्वैवं परमं----- ॥

12.218.24

निद्राविकल्पेन सतां---- विशति लोकवत् ।
स्वस्थो भवति गूढात्मा कलुषैः परिवर्जितः ॥

12.218.25

निशादिका ये कथिता लोकानां कलुषा मताः । तैर्हीनं यत्पुरं शुद्धं बाह्याभ्यन्तरवर्तिनम् ।
सदानन्दमयं नित्यं भूत्वा तत्परमन्वियात् ॥

12.218.26

एवमाख्यातमत्यर्थं ब्रह्मचर्यमकल्मषम् । सर्वसंयोगहीनं तद्विष्ण्वाख्यं परमं पदम् ।
अचिन्त्यमद्भुतं लोके ज्ञानेन परिवर्तते ॥

12.218.27

ब्रह्म तत्परमं ज्ञानममृतं ज्योतिरक्षरम् ।
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम् ॥

12.218.28

हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा ।
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc