भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.213

12.213.1

चतुर्विधानि भूतानि स्थावराणि चराणि च । अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च ।
अव्यक्तलक्षणं विद्यादव्यक्तात्मात्मकं मनः ॥

12.213.2

यथाऽश्वत्थकणीकायामन्तर्भूतो महाद्रुमः ।
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्सम्भवस्तथा ॥

12.213.3

आत्मानमनुसंयाति बुद्धिरव्यक्तजा तथा । तामन्वेति मनो यद्वल्लोहवर्मणि सन्निधौ ॥

12.213.4

अभिद्रवत्ययस्कान्तमयोनिश्चेतनं यथा ।
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम् ॥

12.213.5

तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः ।
अचेतनाश्चेतयितुः कारणादभिसन्गताः ॥

12.213.6

न भूर्न खं द्यौर्भूतानि नर्षयो न सुरासुराः ।
नान्यदासीदृते जीवमासेदुर्न तु संहतिम् ॥

12.213.7

सर्वं नित्यं सर्वगतं मनोहेतुत्वलक्षणम् ।
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम् ॥

12.213.8

तत्कारणेन संयुक्तं कार्यसन्ग्रहकारकम् ।
येनैतद्वर्तते चक्रमनादिनिधनं महत् ॥

12.213.9

येन स्वभावसद्भावं हेतुभूता सकारणा । एवं प्राकृतविस्तारो ह्याश्रित्य पुरुषं परम् ॥

12.213.10

अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम् ।
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम् ॥

12.213.11

स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत् ।
तिलपीडैरिवाक्रम्य भोगैरज्ञानसम्भवैः ॥

12.213.12

प्राणेनायं हि शान्ते तु विरोधात्प्रतिपालनम् ।
देहस्येषून्य आस्ते यः शुद्धोऽचिन्त्यः सनातनः ॥

12.213.13

भ्रामयन्नेषतो याति कालचक्रसमन्वितः ।
भूतानि मोहयन्नित्यं चक्रस्य च रयं गतः ॥

12.213.14

स्नेहद्रव्यसमायोगे क्षेत्रपाचं न वस्तुषु । तिलवत्पीडिते चक्रे ह्याधियन्त्रनिपीडिते ।
बहिश्चाधिष्ठिते यद्वज्ज्ञानिनां कर्मसम्भवम् ॥

12.213.15

कर्म तत्कुरुते तर्षादहन्कारपरिग्रहम् ।
कार्यकारणसंयोगे स हेतुरुपपादितः ॥

12.213.16

यथाऽकर्ण्य च तच्छिष्यस्तत्वज्ञानमनुत्तमम् । नात्येति कारणं कार्यं न कार्यं कारणं तथा ।
कार्याण्यमूनि करणे कालो भवति हेतुमान् ॥

12.213.17

हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम् ।
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा ॥

12.213.18

सत्वरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः ।
क्षेत्रज्ञमेवानयाति पांसुर्वातेरितो यथा ॥

12.213.19

न च तैः स्पृश्यते भावैर्न ते तेन महात्मना ।
सरजस्कोऽरजस्कश्च स वै वायुर्भवेद्यथा ॥

12.213.20

तथैतदन्तरं विद्यात्सत्वक्षेत्रज्ञयोर्बुधः ।
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः ॥

12.213.21

सन्देहमेतमुत्पन्नमच्छिनद्भगवानृषिः ।
तथा वार्तां समीक्षेत कृतलक्षणसंविदम् ॥

12.213.22

बीजान्यग्न्युपदग्धानि नरो हन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc