भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.210

12.210.1

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः ॥

12.210.2

किन्नु स्मरन्कुरुश्रेष्ठ मरणे समुपस्थिते ।
प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तत्वतः ॥
भीष्म उवाच ।

12.210.3

त्वद्युक्तश्च हितः सूक्ष्म उक्तः प्रश्नस्त्वयाऽनघ ।
शृणुष्वावहितो राजन्नारदेन पुरा श्रुतम् ॥

12.210.4

श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम् ।
पुरा नारायणं देवं नारदः पर्यपृच्छत ॥

12.210.5

अक्षरं परमं ब्रह्म निर्गुणं तमसः परम् ।
आहुर्वैद्यं परं धाम ब्रह्मादिकमलोद्भवम् ॥

12.210.6

भगवन्भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ।
कथं भक्तैर्विचिन्त्योसि योगिभिर्मोक्षकाङ्क्षिभिः ॥

12.210.7

किन्नु जप्यं जपेन्नित्यं काल्यमुत्थाय मानवः ।
स्मरेच्च म्रियमाणो वै विशेषेण महाद्युते ॥

12.210.8

कथं युञ्जन्समाध्यायेद्ब्रूहि तत्वं सनातनम् ॥

12.210.9

श्रुत्वा च नारदोक्तं तु देवानामीश्वरः स्वयम् ।
प्रोवाच भगवान्विष्णुर्नारदं वरदः प्रभुः ॥

12.210.10

हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम् ।
यामधीत्य प्रयाणे तु मद्भावयोपपद्यते ॥

12.210.11

ओन्कारमग्रतः कृत्वा मां नमस्कृत्य नारद ।
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत् ॥

12.210.12

ओं नमो भगवते वासुदेवायेति ॥

12.210.13

इत्युक्तो नारदः प्राह प्राञ्जलिः प्रणतः स्थितः ।
सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् ॥
नारद उवाच ।

12.210.14

अव्ययं शाश्वतं देवं प्रभवं पुरुषोत्तमम् ।
प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् ॥

12.210.15

पुराणं प्रभवं विष्णुमक्षयं लोकसाक्षिणम् ।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥

12.210.16

लोकनाथं सहस्राक्षमद्भुतं परदं पदम् ।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥

12.210.17

स्रष्टारं सर्वलोकानामनन्तं सर्वतोमुखम् ।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ॥

12.210.18

हिरण्यगर्भममृतं भूगर्भं परतः परम् ।
प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् ॥

12.210.19

सहस्रशीर्षं पुरुषं महर्षि तत्वभावनम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥

12.210.20

नारायणं पुराणर्षि योगात्मानं सनातनम् ।
संस्थानं सर्वतत्वानां प्रपद्ये ध्रुवमीश्वरम् ॥

12.210.21

यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् ।
परावरगुरुर्विष्णुः स मे देवः प्रसीदतु ॥

12.210.22

यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः सनातनः ।
ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु ॥

12.210.23

यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ।
ब्रह्मादिषु प्रलीनेषु नष्टे लोकपरावरे ॥

12.210.24

आभूतसम्प्लवे चैव प्रलीनेऽप्राकृतो महान् ।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥

12.210.25

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हुयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥

12.210.26

पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये ।
गुणाकरः स मे बभ्रुर्वासुदेवः प्रसीदतु ॥

12.210.27

अग्नीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् ।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥

12.210.28

योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
यज्ञगर्भ हिरण्याङ्गं पञ्चयज्ञ नमोस्तु ते ॥

12.210.29

चतुर्मूर्ते परं धाम लक्ष्म्यावास परार्चित ।
सर्वावास नमस्तेऽस्तु वासुदेव प्रधानकृत् ॥

12.210.30

अजस्त्वनामयः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत् ।
विकर्तः पञ्चकाज्ञ नमस्ते ज्ञानसागर ॥

12.210.31

अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः ।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥

12.210.32

न प्रधानो न च महान्पुरुषश्चेतनो ह्यजः ।
अनयोर्यः परतरस्तमस्मि शरणं गतः ॥

12.210.33

चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥

12.210.34

जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥

12.210.35

एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः ।
अग्राह्यं निर्गुणं नित्यं तमस्मि शरणं गतः ॥

12.210.36

सोमार्काग्निमयं तेजो या च तारमयी द्युतिः ।
दिवि सञ्जायते योऽयं स महात्मा प्रसीदतु ॥

12.210.37

गुणादिर्निर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः ।
सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु ॥

12.210.38

साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः ।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥

12.210.39

अव्यक्तः समधिष्ठाता अचिन्त्यः सदसत्परः ।
अस्थितिः प्रकृतिश्रेष्ठः स महात्मा प्रसीदतु ॥

12.210.40

क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः ।
महान्गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥

12.210.41

सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता ।
भूतबाह्या च या दीप्तिः स महात्मा प्रसीदतु ॥

12.210.42

नमस्ते सर्वतः सर्वं सर्वतोक्षिशिरोमुख ।
निर्विकार नमस्तेऽस्तु साक्षी क्षेत्रध्रुवस्थितिः ॥

12.210.43

अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।
ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते ॥

12.210.44

कामक्रोधविनिर्मुक्ता रागद्वेषविवर्जिताः ।
मान्यभक्ता विजानन्ति न पुनर्भवका द्विजाः ॥

12.210.45

एकान्तिनो हि निर्द्वन्द्वा निराशीःकर्मकारिणः ।
ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ॥

12.210.46

अशरीरं शरीरस्थं समं सर्वेषु देहिषु ।
पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्राविशन्त्युत ॥

12.210.47

अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च ।
त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि ॥

12.210.48

एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् ।
समोसि सर्वभूतेषु न ते द्वेष्योस्ति न प्रियः ॥

12.210.49

समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा । चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ।
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव ॥

12.210.50

स्रष्टा भोक्तासि कूटस्थो ह्यतत्वं तत्वसञ्ज्ञिकः ।
अकर्ता हेतुरचलः पृथगात्मन्यवस्थितः ॥

12.210.51

न ते भूतेषु संयोगो भूततत्वगुणाधिकः ।
अहङ्कारेण बुद्ध्या वा न ते योगस्त्रिभिर्गुणैः ॥

12.210.52

न मोक्षधर्मो वा न त्वं नारम्भो जन्म वा पुनः ।
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वग ॥

12.210.53

ईश्वरोसि जगन्नाथ ततः परम उच्यसे ।
भक्तानां यद्धितं देव तद्ध्याहि त्रिदशेश्वर ॥

12.210.54

विषयैरिन्द्रियैर्वाऽपि न मे भूयः समागमः ।
पृथिवीं यातु गन्धो वै रसं यातु जलं तथा ॥

12.210.55

तेजो हुताशनं यातु स्पर्शो यातु च मारुतम् ।
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः ॥

12.210.56

इन्द्रियाण्यपि संयान्तु स्वासुस्वासु च योनिषु ।
पृथिवी यातु सलिलमापोग्निमनलोऽनिलम् ॥

12.210.57

वायुराकाशमप्येतु मनश्चाकाश एव च ।
अहन्कारं मनो यातु मोहनं सर्वदेहिनाम् ॥

12.210.58

अहन्कारस्ततो बुद्धिं बुद्धिरव्यक्तमच्युत ॥

12.210.59

प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते ।
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् ॥

12.210.60

निष्केवलं पदं तात काङ्क्षेऽहं परमं तव ।
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ॥

12.210.61

त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भक्तिस्त्वत्परायणः ।
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥

12.210.62

पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम् ।
अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु ॥

12.210.63

अनुध्यातोऽसि देवेश न मे जन्म भवेत्पुनः ।
तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥

12.210.64

नोपतिष्ठन्तु मां सर्वे व्याधयः पूर्वसञ्चिताः ।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥
श्रीभगवानुवाच ।

12.210.65

अहं भगवतस्तस्य मम चासौ सनातनः ।
तस्याहं न प्रणश्यासि स च मे न प्रणश्यति ॥

12.210.66

कर्मेन्द्रियामि संयम्य पञ्च बुद्धीन्द्रियाणि च ।
दशेन्द्रियाणि मनसि अहन्कारे तथा मनः ॥

12.210.67

अहन्कारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ।
यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बुद्ध्येत्परात्पम् ॥

12.210.68

ममायमिति यस्याहं येन सर्वमिदं तततम् ।
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ॥

12.210.69

मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् ।
अपि पापसमाचारः स याति परमां गतिम् ॥

12.210.70

ओं नमो भगवते तस्मै देहिनां परमात्मने ।
नारायणाय भक्तानामेकनिष्ठाय शाश्वते ॥

12.210.71

इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः ।
स्वपन्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत् ॥

12.210.72

पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ।
श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः ॥

12.210.73

यद्यहन्कारमाश्रित्य यज्ञदानतपः क्रियाः ।
कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं न तु ॥

12.210.74

अभ्यर्चयन्पितॄन्देवान्पठञ्जुह्वन्यलिं ददत् ।
ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् ॥

12.210.75

यज्ञो दानं तपश्चैव पावनानि शरीरिणाम् ।
यज्ञं दानं तपस्तस्मात्कुर्यादाशीर्विवर्जितः ॥

12.210.76

नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ।
तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ॥

12.210.77

किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ।
श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः ॥

12.210.78

कर्माण्याद्यन्तवन्तीह मद्भक्तोऽमृतमश्नुते । मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः ।
अवाप्स्यसि ततः सिद्धिं द्रक्ष्यस्येव पदं मम ॥

12.210.79

अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥

12.210.80

तस्मात्प्रेदयं साधुभ्यो जन्मबन्धभयापहम् ।
एवं दत्त्वा नरश्रेष्ठ श्रेयो वीर्यं च विन्दति ॥

12.210.81

अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥
भीष्म उवाच ।

12.210.82

एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा ।
यदुवाच तदाऽसौ भो तदुक्तं तव सुव्रत ॥

12.210.83

त्वमप्येकमना भूत्वा ध्याहि ज्ञेयं गुणातिगम् ।
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥

12.210.84

श्रुत्वैतन्नारदो वाक्यं दिव्यं नारायणेरितम् ।
अत्यन्तभक्तिमान्देव एकान्तत्वमुपेयिवान् ॥

12.210.85

नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् ।
इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम् ॥

12.210.86

किं तस्य बहुभिर्मन्त्रैर्भक्तिर्यस्य जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥

12.210.87

इमां रहस्यां परमामनुस्मृति मधीत्य बुद्धिं लभते च नैष्ठिकीम् ।
विहाय दुःखान्यवमुच्य सङ्कटा त्स वीतरागो विगतज्वरः सुखी ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc