भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.204

12.204.1

तदेव सततं मन्ये न शक्यमनुवर्णितुम् ।
यथा निदर्शनं वस्तु न शक्यमनुबोधितुम् ॥

12.204.2

यथाहि सारं जानाति न कथञ्चन संस्थितम् ।
परकायच्छविस्तद्वद्देहेऽयं चेतनस्तथा ॥

12.204.3

विना कायं न सा च्छाया तां विना कायमस्त्युत ।
तद्वदेव विना नास्ति प्रकृतेरिह वर्तनम् ॥

12.204.4

इदं वै नास्ति नेदमस्ति परं विना ।
जीवात्मना त्वसौ छिन्नस्त्वेष चैव परात्मना ॥

12.204.5

तत्तवेति विदुः केचिदतथ्यमिति चापरे ।
उभयं मे मतं विद्वन्मुक्तिहेतौ समाहितम् ॥

12.204.6

विमुक्तैश्च मृगः सोऽपि दृश्यते संयतेन्द्रियः ।
सर्वेषां न हि दृश्यो हि तटिद्वत्स्फुरति ह्यसौ ॥

12.204.7

ब्राह्मणस्य समादृश्यो वर्तते सोऽपि किं पुनः ।
विद्यते परमः शुद्धः साक्षिभूतो विभावसुः ॥

12.204.8

श्रुतिरेषा ततो नित्या तस्मादेकः परो मतः ।
न प्रयोजनमुद्दिश्य चेष्टा तस्य महात्मनः ॥

12.204.9

तादृशोस्त्विति मन्तव्यस्तथा सत्यं महात्मना । नानासंस्थेन भेदेन सदा गतिविभेदवत् ।
तस्य भेदः समाख्यातो भेदो ह्यस्ति तथाविधः ॥

12.204.10

एवं विद्वन्विजानीहि परमात्मानमव्ययम् ।
तत्तद्गुणविशेषेण सञ्ज्ञानामनुसंयुतम् ॥

12.204.11

सर्वेश्वरः सर्वमयः स च सर्वप्रवर्तकः ।
सर्वात्मकः सर्वशक्तिः सर्वकारणकारणम् ॥

12.204.12

सर्वसाधारणः सर्वैरुपास्यश्च महात्मभिः । वासुदेवेति विख्यातस्तं विदित्वाऽश्नुतेऽमृतम् ॥

12.204.13

यदा ते प़ञ्चभिः पञ्च युक्तानि मनसा सह ।
अथ तद्द्रक्ष्यते ब्रह्म मणौ सूत्रमिवार्पितम् ॥

12.204.14

तदेव च यथा सूत्रं सुवर्णे वर्तते पुनः ।
मुक्तास्वथ प्रवालेषु मृन्मये राजते तथा ॥

12.204.15

तद्वद्गोऽश्वमनुष्येषु तद्वद्धस्तिमृगादिषु ।
तद्वत्कीटपतङ्गेषु प्रसक्तात्मा स्वकर्मभिः ॥

12.204.16

येनयेन शरीरेण यद्यत्कर्म करोत्ययम् ।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ॥

12.204.17

यथा ह्येकरसा भूमिरोषध्यर्थानुसारिणी ।
तथा कर्मानुगा बुद्धिरन्तरात्माऽनुदर्शिनी ॥

12.204.18

ज्ञानपूर्वोद्भवा लिप्सा लिप्सापूर्वाभिसन्धिता ।
अभिसन्धिपूर्वकं कर्म कर्ममूलं ततः फलम् ॥

12.204.19

फलं कर्मत्मकं विद्यात्कर्म ज्ञेयात्मकं तथा ।
ज्ञेयं ज्ञानात्मकं विद्याज्ज्ञानं सदसदात्मकम् ॥

12.204.20

तदेवमिष्यते ब्रह्म संख्यानाद्विनिभिद्यते । ज्ञानानां च फलानां च ज्ञेयानां कर्मणां तथा ।
क्षयान्ते यत्फलं विद्याज्ज्ञानं ज्ञेयप्रतिष्ठितम् ॥

12.204.21

महद्धि परमं भूतं युक्ताः पश्यन्ति योगिनः ।
अबुधास्तं न पश्यन्ति ह्यात्मस्थं गुणबुद्धयः ॥

12.204.22

पृथिवीरुपतो रूपमपामिह महत्तरम् ।
अद्भ्यो महत्तरं तेजस्तेजसः पवनो महान् ॥

12.204.23

पवनाच्च महद्व्योम तस्मात्परतरं मनः ।
मनसो महती बुद्धिर्बुद्धेः कालो महान्स्मृतः ॥

12.204.24

कालात्स भगवान्विष्णुर्यस्य सर्वमिदं जगत् ।
नादिर्न मध्यं नैवान्तस्तस्य देवस्य विद्यते ॥

12.204.25

अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः ।
अत्येति सर्वदुःखानि दुःखं ह्यन्तवदुच्यते ॥

12.204.26

तद्ब्रह्म परमं प्रोक्तं तद्धाम परमं पदम् ।
तद्गत्वा कालविषयाद्विमुक्ता मोक्षमाश्रिताः ॥

12.204.27

गुणेष्वेते प्रकाशन्ते निर्गुणत्वात्ततः परम् ।
निवृत्तिलक्षणो धर्मस्तथाऽनन्त्याय कल्पते ॥

12.204.28

ऋचो यजूंषि सामानि शरीराणि व्यपाश्रिताः ।
जिह्वाग्रेषु प्रवर्तन्ते यत्नसाध्याविनाशिनः ॥

12.204.29

न चैवमिष्यते ब्रह्म शरीराश्रयसम्भवम् ।
न यत्नसाध्यं तद्ब्रह्म नादिमध्यं न चान्तवन् ॥

12.204.30

ऋचामादिस्तथा साम्नां यजुषामादिरुच्यते ।
अन्तश्चादिमतां दृष्टो न त्वादिर्ब्रह्मणः स्मृतः ॥

12.204.31

अनादित्वादनन्तत्वात्तदनन्तमथाव्ययम् ।
अव्ययत्वाच्च निर्दुःखं द्वन्द्वाभावस्ततः परम् ॥

12.204.32

अदृष्टतोऽनुपायाच्च प्रतिसन्धेश्च कर्मणः ।
न तेन मर्त्याः पश्यन्ति येन गच्छान्त तत्पदम् ॥

12.204.33

विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥

12.204.34

गुणान्यदिह पश्यन्ति तदिच्छन्त्यपरे जनाः ।
परं नैवाभिकाङ्क्षन्ति निर्गुणत्वाद्गुणार्थिनः ॥

12.204.35

गुणैर्यस्त्ववरैर्युक्तः कथं विद्याद्गुणानिमान् ।
अनुमानाद्धि गन्तव्यं गुणैरवयवैः परम् ॥

12.204.36

सूक्ष्मेण मनसा विद्मो वाचा वक्तुं न शक्नुमः ।
मनो हि मनसा ग्राह्यं दर्शनेन च दर्शनम् ॥

12.204.37

ज्ञानेन निर्मलीकृत्य बुद्धिं बुद्ध्या मनस्तथा ।
मनसा चेन्द्रियग्राममक्षरं प्रतिपद्यते ॥

12.204.38

बुद्धिप्रहीणो मनसा समृद्ध स्तथाऽनिराशीर्गुणतामुपैति ।
परं त्यजन्तीह विलोभ्यमाना हुताशनं वायुरिवेन्धनस्थम् ॥

12.204.39

गुणादाने विप्रयोगे च तेषां मनः सदा विद्धि परावराभ्याम् ।
अनेनैव विधिना सम्प्रवृत्तो गुणादाने ब्रह्म शरीरमेति ॥

12.204.40

अव्यक्तात्मा पुरुषोऽव्यक्तकर्मा सोऽव्यक्तत्वं गच्छति ह्यन्तकाले ।
तैरेवायं चेन्द्रियैर्वर्धमानै र्ग्लायद्भिर्वा वर्ततेऽकामरूपः ॥

12.204.41

सर्वैरयं चेन्द्रियैः सम्प्रयुक्तो देहं प्राप्तः यञ्चभूताश्रयः स्यात् ।
न सामर्थ्याद्गच्छति कर्मणेह हीनस्तेन परमेणाव्ययेन ॥

12.204.42

पृथ्व्या नरः पश्यति नान्तमस्या ह्यन्तश्चास्या भविता चेति विद्धि ।
परं न यातीह विलोभ्यमानो यथा प्लवं वायुरिवार्णवस्थम् ॥

12.204.43

दिवाकरो गुणमुपलभ्य निर्गुणो यथा भवेदपगतरश्मिमण्डलः ।
तथां ह्यसौ मुनिरिह निर्विशेषवान् स निर्गुणं प्रविशति ब्रह्म चाव्ययम् ॥

12.204.44

अनागतं सुकृतवतां परां गतिं स्वयम्भुवं प्रभवनिधानमव्ययम् ।
सनातनं यदमृतमव्ययं ध्रुवं निचाय्य तत्परममृतत्वमश्नुते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc