भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.20

12.20.1

अस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः ।
अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ॥
देवस्थान उवाच ।

12.20.2

यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति ।
अत्र ते वर्तयिष्यामि तदेकान्तमनाः शृणु ॥

12.20.3

अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता ।
तां जित्वा च वृथा राजन्न परित्यक्तुमर्हसि ॥

12.20.4

चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता । तां क्रमेण महाबाहो यथावज्जय पार्थिव ।
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः ॥

12.20.5

स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथाऽपरे ।
कर्मनिष्ठाश्च बुद्ध्यर्थास्तपोनिष्ठाश्च पार्थिव ॥

12.20.6

वैखानसानां कौन्तेय वचनं श्रूयते यथा ॥

12.20.7

ईहेत धनहेतोर्यस्तस्यानीहा गरीयसी ।
भूयान्दोषो हि वर्धेत यस्तत्कर्म समाश्रयेत् ॥

12.20.8

कृत्स्नं च धनसंहारं कुर्वन्ति विधिकारणात् ।
आत्मना तृपितो बुद्ध्या भ्रूणहत्यां न बुध्यते ॥

12.20.9

अनर्हते यद्ददाति न ददाति यदर्हते ।
अर्हानर्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥

12.20.10

यज्ञाय सृष्टानि धनानि धात्रा यज्ञादिष्टः पुरुषो रक्षिता च ।
तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः ॥

12.20.11

यज्ञैरिन्द्रो विविधै रत्नवद्भि र्देवान्सर्वानभ्ययाद्भूरितेजाः ।
तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥

12.20.12

महादेवः सर्वयज्ञे महात्मा हुत्वाऽत्मानं देवदेवो बभूव ।
विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान्कृत्तिवासाः ॥

12.20.13

आविक्षितः पार्थिवोऽसौ मरुत्तो वृद्ध्या शक्रं योऽजयद्देवराजम् ।
यज्ञे यस्य श्रीः स्वयं सन्निविष्टा यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ॥

12.20.14

हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते यज्ञैरिष्ट्वा पुण्यभाग्वीतशोकः ।
ऋद्ध्या शक्रं योऽजयन्मानुषः सं स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc