भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.197

12.197.1

कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च ।
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥
भीष्म उवाच ।

12.197.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥

12.197.3

कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे । यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ।
येनैव कारणेनात्र धर्मवादसमन्वितः ॥

12.197.4

ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः ।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥

12.197.5

तस्यापरोक्षं विज्ञानं षडङ्गेषु वभूव ह ।
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥

12.197.6

सोयं ब्राह्मं पस्तेपे संहितां संयतो जपन् ।
तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥

12.197.7

स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल ।
जप्यमावर्तयंस्तूष्णीं न स तां किञ्चिदब्रवीत् ॥

12.197.8

तस्यानुकम्पया देवी प्रीता समभवत्तदा ।
वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥

12.197.9

चतुर्भिरक्षरैर्युक्ता सोमपानेऽक्षराष्टका । जगद्बीजसमायुक्ता चनुर्विशाक्षरात्मिका ॥

12.197.10

समाप्य जप्यं तूत्थाय शिरसा पादयोस्तदा ।
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥

12.197.11

दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम ।
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः ॥
सावित्र्युवाच ।

12.197.12

किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते ।
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥

12.197.13

इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् ।
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥

12.197.14

मनसश्च समाधिर्मे वर्धेताहरहः शुभे ।
तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥

12.197.15

इदं चैवापरं प्राह देवी तत्प्रियकाम्यया ।
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः ॥

12.197.16

यास्यसि ब्रह्मणः स्थानमनिमित्तमतन्द्रितः ।
साधु ते भविता चैतद्यत्त्वयाऽहमिहार्थिता ॥

12.197.17

नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति । कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ।
भविता च विवादोऽत्र तव तेषां च धर्मतः ॥
भीष्म उवाच ।

12.197.18

एवमुक्त्वा भगवती जगाम भवनं स्वकम् ॥

12.197.19

ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा ।
सदा दान्तो जितक्रोधः सत्यसन्धोऽनसूयकः ॥

12.197.20

समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः ।
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥
धर्म उवाच ।

12.197.21

द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः ।
जप्यस्यास्य फलं यत्तत्प्रम्प्राप्तं तच्च मे शृणु ॥

12.197.22

जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः ।
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि ॥

12.197.23

प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् ।
त्यक्त्वाऽत्मनः शरीरं च ततो लोकानवाप्स्यसि ॥
ब्राह्मण उवाच ।

12.197.24

कृतं लोकेन मे धर्म गच्छ त्वं च यथासुखम् ।
बहुदुःखमहं देहं नोत्सृजेयमहं विभो ॥
धर्म उवाच ।

12.197.25

अचलं ते मनः कृत्वा त्यज देहं महामते । अनेन किं ते संयोगः कथं मोहं गमिष्यसि ॥

12.197.26

अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव ।
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ ॥
ब्राह्मण उवाच ।

12.197.27

किमुक्तं धर्म किं नेति कस्मान्मां प्रोक्तवानसि ।
त्यज देहं द्विजेति त्वं ससम्बुध्यात्र मे यदि ॥

12.197.28

न रोचये स्वर्गवासं विना देहमहं विभो ।
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽत्मना ॥
धर्म उवाच ।

12.197.29

अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव ।
गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥
ब्राह्मण उवाच ।

12.197.30

रमे जपन्महाभाग कृतं लोकैः सनातनैः ।
सशरीरेण गन्तव्यं मया स्वर्गं न चान्यथा ॥
धर्म उवाच ।

12.197.31

एवं ते कायसम्प्रातिर्वर्तते मुनिसत्तम । यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज ।
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥
भीष्म उवाच ।

12.197.32

अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो ।
ब्राह्मणं तं महाभागमुपगम्येदमब्रवन् ॥
यम उवाच ।

12.197.33

तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च ।
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥
काल उवाच ।

12.197.34

यथा वदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् ।
कालस्ते स्वर्गमारोहुं कालोऽहं त्वामुपागतः ॥
मृत्युरुवाच ।

12.197.35

मृत्युं मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम् ।
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै ॥
ब्राह्मण उवाच ।

12.197.36

स्वागतं सूर्यपुत्राय कालाय च महात्मने ।
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥
भीष्म उवाच ।

12.197.37

अर्ध्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागम ।
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥

12.197.38

स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः ।
भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः ॥
यम उवाच ।

12.197.39

वयमप्येवमत्युग्रा धातुराज्ञापुरः सराः ।
चोदिता धावमाना वै कर्मभावमनुव्रताः ॥
भीष्म उवाच ।

12.197.40

तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः ।
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥

12.197.41

सर्वानेव तु राजर्षिः सम्पूज्याथ प्रणम्य च ।
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥

12.197.42

तस्मै सोऽथासनं दत्त्वा पाद्यमर्ध्यं तथैव च ।
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥

12.197.43

स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि ।
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु माम ॥
राजोवाच ।

12.197.44

राजाऽहं ब्राह्मणश्च त्वं यदा षट््कर्मसंस्थितः ।
ददानि वसु किञ्चित्ते प्रार्थितं तद्वदस्व मे ॥
ब्राह्मण उवाच ।

12.197.45

द्विविधो ब्राह्मणो राजन्धर्मश्च द्विविधः स्मृतः ।
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽह प्रतिग्रहात् ॥

12.197.46

तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप । अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते ।
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥
राजोवाच ।

12.197.47

क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् ।
प्रयच्छ युद्धमित्येवंवादी चास्मि द्विजोत्तम ॥
ब्राह्मण उवाच ।

12.197.48

तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप ।
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥
राजोवाच ।

12.197.49

स्वशक्त्याऽहं ददानीति त्वया पूर्वमुदाहृतम् ।
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥
ब्राह्मण उवाच ।

12.197.50

युद्धं मम सदा वाणी याचतीति विकत्थसे ।
न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥
राजोवाच ।

12.197.51

वाग्वज्राब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः ।
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥
ब्राह्मण उवाच ।

12.197.52

सेयमद्य प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् ।
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥
राजोवाच ।

12.197.53

यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया ।
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥
ब्राह्मण उवाच ।

12.197.54

परमं गृह्यतां तस्य फलं यज्जपितं मया ।
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि ॥

12.197.55

अथवा सर्वमेवेह मामकं जापकं फलम् ।
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥
राजोवाच ।

12.197.56

कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया ।
स्वस्ति तेऽस्तु गमिष्यामि किञ्च तस्य फलं वद ॥
ब्राह्मण उवाच ।

12.197.57

फलप्राप्तिं न जानामि दत्तं यज्जपितं मया ।
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥
राजोवाच ।

12.197.58

अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति । फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम् ।
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥
ब्राह्मण उवाच ।

12.197.59

नाददेऽपरदत्तं वै दत्तं वा चाफलं मया ।
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि ॥

12.197.60

सकृदंशो निपतति सकृत्कन्या प्रदीतये ।
सकृदेव ददानीति त्रीण्येतानि सकृत्सकृत् ॥

12.197.61

नाभिसन्धिर्मया जप्ये कृतपूर्वः कदाचन ।
जप्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम् ॥

12.197.62

ददस्वेति त्वया चोक्तं दत्तं वाचा फलं मया ।
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥

12.197.63

अथैवं वदतो मेऽद्य वचनं न करिष्यसि ।
महानधर्मो भविता तव राजन्मृषा कृतः ॥

12.197.64

न युक्ता तु मृषावाणी त्वया वक्तुमरिन्दम ।
तथा मयाऽप्यभिहितं मिथ्या कर्तुं न शक्यते ॥

12.197.65

संश्रुतं च मया पूर्वं ददानीत्यविचारितम् ।
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥

12.197.66

इहागम्य हि मां राजञ्जाप्यं फलमयाचथाः ।
तन्मे निसृष्टं गृह्णीष्व भव सत्येस्थितोपि च ॥

12.197.67

नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् ।
कुत एवापरान्राजन्मृषावादपरायणः ॥

12.197.68

न यज्ञाध्ययने दानं नियमास्तारयन्ति हि ।
यथा सत्यं परे लोके तथेह पुरुषर्षभ ॥

12.197.69

तपांसि यानि चीर्णानि चरिष्यन्ति च यत्तपः ।
समाशतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥

12.197.70

सत्यमेकं परं ब्रह्म सत्यमेकं परं तपः ।
सत्यमेकं परो यज्ञः सत्यमेकं परं श्रुतम् ॥

12.197.71

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।
तपो धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥

12.197.72

सत्यं वेदास्तथाङ्गानि सत्यं यज्ञास्तथा विधिः ।
व्रतचर्या तथा सत्यमोन्कारः सत्यमेव च ॥

12.197.73

प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥

12.197.74

सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥

12.197.75

तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् ।
समां कक्षां धारयतो यः सत्यं ततोऽधिकम् ॥

12.197.76

यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते ।
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥

12.197.77

सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः ।
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥

12.197.78

यदि जप्यफलं दत्तं मया नेच्छसि वै नृप ।
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ॥

12.197.79

संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति ।
उभावानृतिकावेतो न मृपा कर्तुमर्हसि ॥
राजोवाच ।

12.197.80

योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज ।
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥
ब्राह्मण उवाच ।

12.197.81

न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम् ।
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥
धर्म उवाच ।

12.197.82

अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् ।
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥
स्वर्ग उवाच ।

12.197.83

स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् ।
अविवादोऽस्तु युवयोरुमौ तुल्यफलौ युवाम् ॥
राजोवाच ।

12.197.84

कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम् ।
विप्रो यदीच्छते दातुं चीर्णं गृह्णातु मे फलम् ॥
ब्राह्मण उवाच ।

12.197.85

बाल्ये यदि स्मादज्ञानान्मया हस्तः प्रसारितः ।
निवृत्तलक्षणं धर्ममुपासे संहितां जपन् ॥

12.197.86

निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम् । स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ।
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥
राजोवाच ।

12.197.87

यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम् ।
आवयोर्यत्फलं किञ्चित्सहितं नौ तदस्त्विह ॥

12.197.88

द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः ।
यदि धर्मः क्षुतो विप्र सहैव फलमस्तु नौ ॥

12.197.89

मा वा भूत्सह भोज्यं नौ मदीयं फलमाप्नुहि ।
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥
भीष्म उवाच ।

12.197.90

ततो विकृतवैषौ द्वौ पुरुषौ समुपस्थितौ ।
गृहीत्वाऽन्योन्यमावेष्ठ्य कुचेलावूचतुर्वचः ॥

12.197.91

न मे धारयसीत्येको धारयामीति चापरः ।
इहास्ति नौ विवादोऽयमयं राजाऽनुशासकः ॥

12.197.92

सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् । अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ।

12.197.93

तावुभौ सुभृशं तप्तौ राजानमिदमृचतुः ।
परीक्ष्यौ तु यथा स्याव नावामिह विगर्हितौ ॥
विरूप उवाच ।

12.197.94

घारयामि नरव्याघ्र विकृतस्येह गोः फलम् ।
ददतश्च न गृह्णाति विकृतो मे महीपते ॥
विकृत उवाच ।

12.197.95

न मे धारयते किञ्चिद्विरूपोऽयं नराधिप ।
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप ॥
राजोवाच ।

12.197.96

विरूप किं धारयते भवानस्य ब्रवीतु मे ।
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः ॥
विरूप उवाच ।

12.197.97

शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् ।
विकृतस्यास्य राजर्षे निखिलेन नराधिप ॥

12.197.98

अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुराऽनघ ।
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥

12.197.99

तस्याश्चायं मया राजन्फलमभ्येत्य याचितः ।
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना ॥

12.197.100

ततो मे सुकृतं कर्म कृतमात्मविशुद्धये ।
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने ॥

12.197.101

ते चोञ्छवृत्तये राजन्मया समुपवर्जिते ।
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥

12.197.102

इहाद्यैव प्रयच्छामि गृहीत्वा द्विगुणां फलम् ।
एवं स्यात्पुरुषव्याघ्र कःशुद्धः कोऽत्र दोषवान् ॥

12.197.103

एवं विवदमानौ स्वस्त्यामिहाभ्यागतौ नृप ।
कुरु धर्ममधर्मं वा विनये नौ समादध ॥

12.197.104

यदि नेच्छति मे दानं यथा दत्तमनेन वै ।
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताऽद्य नौ ॥
राजोवाच ।

12.197.105

दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै ।
यथैव तेऽभ्यनुज्ञातं यथा गृह्णीष्व माचिरम् ॥
विकृत उवाच ।

12.197.106

दीयतामित्यनेनोक्तं ददानीति तथा मया ।
नायं मे धारयत्यत्र गच्छतां यत्र वाञ्छति ॥
राजोवाच ।

12.197.107

ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे ।
दणड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥
विकृत उवाच ।

12.197.108

मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः ।
को ममात्रापराधो मे दण्डमाज्ञापय प्रभो ॥
विरूप उवाच ।

12.197.109

दीयमानं यदि मया न गृह्णासि कथञ्चन ।
नियच्छति त्वां नृपतिरयं धर्मानुशासकः ॥
विकृत उवाच ।

12.197.110

स्वयं मया याचितेन दत्तं कथमिहाद्य तत् ।
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥
ब्राह्मण उवाच ।

12.197.111

श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः ।
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥
राजोवाच ।

12.197.112

प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा ।
जापकस्य दृढीकारः कथमेतद्भविष्यति ॥

12.197.113

यदि तावन्न गृह्णामि जापकेनापवर्जितम् ।
कथं न लिप्येयमहं पापेन महताऽद्य वै ॥

12.197.114

तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः ।
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥

12.197.115

स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः ।
विप्रधर्मश्च गहनो मामनात्मानमाविशत् ॥
ब्राह्मण उवाच ।

12.197.116

गृहाण धारयेऽहं च याचितं संश्रुतं मया ।
न चेद्भहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥
राजोवाच ।

12.197.117

धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः ।
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥

12.197.118

एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः ।
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥
ब्राह्मण उवाच ।

12.197.119

संहितां जपता यावान्गुणः कश्चित्कृतो मया ।
तत्सर्वं प्रतिगृह्णीष्व यदि किञ्चिदिहास्ति मे ॥
राजोवाच ।

12.197.120

जलमेतन्निपतितं मम पाणौ द्विजोत्तम ।
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥
विरूप उवाच ।

12.197.121

कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् । जिज्ञासमानौ युवयोर्मनोत्थं तु द्विजोत्तम ॥

12.197.122

सहेति च यदुक्तं ते समा लोकास्तवास्य च ।
नायं धारयते किञ्चिज्जिज्ञासा त्वत्कृते कृता ॥

12.197.123

कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ।
सर्वमन्योन्यनिष्कर्षे निकृष्टं पश्यतस्तव ॥

12.197.124

सर्वेषामुपरिस्थानं ब्रह्मणो व्यक्तजन्मनः ।
युवयोः स्थानमूलं निर्द्वन्द्वममलात्मकम् ॥

12.197.125

सर्वे गच्छाम यत्र स्वान्स्वाँल्लोकांश्च तथा वयम् । गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥

12.197.126

ततो धर्मयमाद्यास्ते वाक्यमूचुर्नपर्द्विजौ ।
अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकमिति स्मृतं ॥

12.197.127

तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् । युवयोः काम आपन्नस्तत्काम्यमविशङ्कया ॥
भीष्म उवाच ।

12.197.128

जापकानां फलावाप्तिर्मया ते सम्प्रदर्शिता ।
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥

12.197.129

प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् ।
अथवाऽग्निं समायाति सूर्यमाविशतेऽपि वा ॥

12.197.130

स तैजसेन भावेन यदि तत्र रमत्युत ।
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः ॥

12.197.131

एवं सोमे तथा वायौ भूम्याकाशशरीरगः ।
सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥

12.197.132

अथ तत्र विरागी स परं गच्छत्यसंशयम् ।
परमव्ययमिच्छन्स तमेवाविशते पुनः ॥

12.197.133

अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान् ।
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः ॥

12.197.134

ब्रह्मस्थानमनावर्तमेकमक्षरसञ्ज्ञकम् ।
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥

12.197.135

चतुर्भिर्लक्षणैर्हीनं तथा पड्भिः सषोडशैः ।
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते ॥

12.197.136

अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति ।
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥

12.197.137

अथवा चेक्षते लोकान्सर्वान्निरयसञ्ज्ञितान् ।
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम् ॥

12.197.138

एवमेषा महाराज जापकस्य गतिर्यथा ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमर्हसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc