भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.190

12.190.1

वानप्रस्थाः खल्वृषिधर्ममनुवर्तन्ते पुण्यानि तीर्थानि नदीप्रस्रवणान्युचरन्ति सुविभक्तेष्यरण्येषु मृगमहिषवराहशार्दूलसृमरगजाकीर्णेषु तपस्यन्तोऽनुसञ्चरन्ति त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः स्थानासनिनो भूमिपाषाणसिकताशर्करावालुकाभस्मशायिनः काशकुशचर्मवल्कलसंवृताङ्गाः केशश्मश्रुनखरोमधारिणो नियतकालोपस्पर्शना अस्कन्नकालबहिहोमानुष्ठायिनः समित्कुशकुसुमापहारार्चनसम्मार्जनहोमान्तलब्धविश्रयाः शीतोष्ण [वर्ष]पवनविनिष्टप्तविभिन्नसर्वत्वचो विविधनियमयोगचर्यानुष्ठानहृत [परिशुष्क] मांसशोणितत्वगस्थिभूता धृतिपराः सत्वयोगाच्छरीराण्युद्वहन्ति ॥
भवति चात्र श्लोकः ।

12.190.2

यश्चैतां नियतश्चर्यां ब्रह्मर्षिविहितां चरेत् ।
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ॥

12.190.3

परिव्राजकानां पुनराचारः । तद्यथा विमुच्यधनकलत्रपरिबर्हणं सङ्गेष्वात्मनः स्नेहपाशानवधूय परिव्रजन्ति समलोष्टाश्मकाञ्चनास्त्रिवर्गप्रवृत्तेष्वारम्भेष्वसक्तबुद्धयोऽरिमित्रोदासीनानां तुल्यदर्शनाः स्थावरजङ्गमानां जरायुजाण्डजस्वेदजोद्भिज्जानां भूतानां वाङ्भनः कर्मभिरभिद्रोहिणोऽनिकेताः पर्वतपुलिनवृक्षमूलदेवतायतनान्यननुचरन्तो वासार्थमुपेयुर्नगरं ग्रामं वा नगरे पञ्चरात्रिका ग्रामे चैकरात्रिकाः प्रविश्च च प्राणधारणार्थं द्विजातीनां भवनान्यसन्कीर्णकर्मणामुपतिष्ठेयुः पात्रपतिताऽयाचितभैक्ष्याः कामक्रोधदर्पलोभमोहकार्पण्यदम्भपरिवादाभिमानहिंसानिवृत्ता इति ॥
भवन्ति चात्र श्लोकाः ।

12.190.4

अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥

12.190.5

कृत्वाऽग्निहोत्रं स्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।
यो भैक्षचर्योपगतैर्हविर्भि श्चिताग्निना प्राप्य स याति लोका ॥

12.190.6

मोक्षाश्रमं यः कुरुते यथोक्तं शुचिः सुसन्कल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः ॥
भरद्वाज उवाच ।

12.190.7

अस्माल्लोकात्परो लोकः श्रूयते नोपलभ्यते ।
तमहं ज्ञातुमिच्छामि तद्भवान्वक्तुमर्हति ॥
भृगुरुवाच ।

12.190.8

उत्तरे हिमवत्पार्श्वे पुण्ये सर्वगुणान्विते ।
पुण्यः क्षेम्यश्च काम्यश्च स परो लोक उच्यते ॥

12.190.9

तत्र ह्यपापकर्माणः शुचयोऽत्यन्तनिर्मलाः ।
लोभमोहपरित्यक्ता मानवा निरुपद्रवाः ॥

12.190.10

स स्वर्गसदृशो लोकस्तत्र ह्युक्ताः शुभा गुणाः ।
नात्र मृत्युः प्रभवति स्पृशन्ति व्याधयो न च ॥

12.190.11

न लोभः परदारेषु स्वदारनिरतो जनः ।
न चान्योन्यवधस्तत्र द्रव्येषु च न विस्मयः ॥

12.190.12

परोक्षधर्मो नैवास्ति सन्देहो नापि जायते ।
कृतस्य तु फलं व्यक्तं प्रत्यक्षमुपलभ्यते ॥

12.190.13

यानासनाशनोपेताः प्रासादभवनाश्रयाः ।
सर्वकामैर्वृताः केचिद्धेमाभरणभूषिताः ॥

12.190.14

प्राणधारणमात्रं तु केषाञ्चिदुपलभ्यते ।
श्रमेण महता केचित्कुर्वन्ति प्राणधारणम् ॥

12.190.15

इह धर्मपराः केचित्केचिन्नैकृतिका नराः ।
सुखिताः दुःखिताः केचिन्निर्धना धनिनोऽपरे ॥

12.190.16

इह श्रमो भयं मोहः क्षुधा निद्रा च जायते ।
लोभश्चार्थकृतो नॄणां येन मुह्यन्त्यपण्डिताः ॥

12.190.17

इह अर्ता बहुविधा धर्माधर्मस्य कर्मणः ।
यस्तद्वेदोभयं प्राज्ञः पाप्मना न स लिप्यते ॥

12.190.18

सोपधं कृतिः स्तेयं परिवादो ह्यसूयिता ।
परोपघातो हिंसा च पैशुन्यमनृतं तथा ॥

12.190.19

एतानि सेवते यस्तु तपस्तस्य मितायते ।
यस्त्वेतान्नाचरेद्विद्वांस्तपस्तस्य प्रवर्धते ॥

12.190.20

इह चिन्ता बहुविधा धर्माधर्मस्य कर्मणः । कर्मभूमिरियं लोके इह कृत्वा शुभाशुभम् ।
शुभैः शुभमवाप्नोति कर्ताऽशुभमथान्यथा ॥

12.190.21

इह प्रजापतिः पूर्वं देवाः सर्षिगणास्तथा ।
इष्टेन तपसा पूता ब्रह्मलोकमुपाश्रिताः ॥

12.190.22

उत्तरः पृथिवीभागः सर्वपुण्यतमः शुभः ।
इहत्यास्तत्र जायन्ते ये वै पुण्यकृतो जनाः ॥

12.190.23

असत्कर्माणि कुर्वाणास्तिर्यग्योनिषु चापरे ।
क्षीणायुषस्तथा चान्ये नश्यन्ति पृथिवीतले ॥

12.190.24

अन्योन्यभक्षणासक्ता लोभमोहसमन्विताः ।
इहैव परिवर्न्तते न ते यान्त्युत्तरां दिशम् ॥

12.190.25

ये गुरून्पर्युपासन्ते नियता ब्रह्मचारिणः ।
पन्थानं सर्वलोकानां ते जानन्ति मनीषिणः ॥

12.190.26

इत्युक्तोऽयं मया धर्मः सन्क्षेपाद्ब्रह्मनिर्मितः ।
धर्माधर्मौ हि लोकस्य यो वै वेत्ति स बुद्धिमान् ॥
भीष्म उवाच ।

12.190.27

इत्युक्तो भृगुणा राजन्भरद्वाजः प्रतापवान् ।
भृगुं परमधर्मात्मा विस्मितः प्रत्यपूजयत् ॥

12.190.28

एष ते प्रभवो राजञ्जगतः सम्प्रकीर्तितः ।
निखिलेन महाप्राज्ञ किं भूयः श्रोतुमिच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc