भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.187

12.187.1

ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ॥
भृगुरुवाच ।

12.187.2

जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।
वेदाध्ययनसम्पन्नः षट््सु कर्मस्ववस्थितः ॥

12.187.3

शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः ।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ॥

12.187.4

सत्यं दानमथाद्रोह आनृशंस्यं क्षमा धृणा ।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥

12.187.5

क्षत्रजं सेवते कर्म देवाध्ययनसन्गतः ।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ॥

12.187.6

कृपिगोरक्षवाणिज्यं यो विशत्यनिशं शुचिः ।
वेदाध्ययनसम्पन्नः स वैश्य इति सञ्ज्ञितः ॥

12.187.7

सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥

12.187.8

शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छ्रद्रो ब्राह्मणो न च ब्राह्मणः ॥

12.187.9

सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः ॥

12.187.10

वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ ॥

12.187.11

नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥

12.187.12

यस्य सर्वे समारम्भा निराशाबन्धना द्विज ।
त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान् ॥

12.187.13

अहिंस्रः सर्वभूतानां मैत्रायणगतिश्चरेत् । परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः ।
अचलं स्थानमातिष्ठेदिह चामुत्र चोभयोः ॥

12.187.14

तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥

12.187.15

इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥

12.187.16

अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः ।
मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत् ॥

12.187.17

निर्वेदादेव निर्वायान्न च किञ्चिद्विचिन्तयेत् ।
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति ॥

12.187.18

शौचेन सततं युक्तः सदाचारसमन्वितः ।
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc