भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.174

12.174.1

अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे ।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।

12.174.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥

12.174.3

द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै ।
बभूव पुत्रो मेधावी मेधावीनाम नामतः ॥

12.174.4

सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः ॥
पुत्र उवाच ।

12.174.5

धीरः किंस्वित्तात कुर्यात्प्रजानन् क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् ।
पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् ॥
पितोवाच ।

12.174.6

वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितृणाम् ।
अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् ॥
पुत्र उवाच ।

12.174.7

एवमभ्याहते लोके समन्तात्परिवारिते ।
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥
पितोवाच ।

12.174.8

कथमभ्याहतो लोकः केन वा परिवारितः ।
अमोघाः काः पतन्तीह किन्नु भीषयसीव माम् ॥
पुत्र उवाच ।

12.174.9

मृत्युनाभ्याहतो लोको जरया परिवारितः । अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे ।
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च ॥
पितोवाच ।

12.174.10

यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह ।
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् ॥
पुत्र उवाच ।

12.174.11

रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा ।
तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः ॥

12.174.12

गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ।
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् ॥

12.174.13

पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥

12.174.14

अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् ।
अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति ॥

12.174.15

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥

12.174.16

को हि जानाति कस्याद्य मृत्युकालो भविष्यति । युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् ।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥

12.174.17

मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः ।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥

12.174.18

तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् ।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥

12.174.19

सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥

12.174.20

इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥

12.174.21

कृतानां फलमप्राप्तं कर्मणां कर्मसञ्ज्ञितम् ।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥

12.174.22

दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् ।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥

12.174.23

नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥

12.174.24

जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् ।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥

12.174.25

अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः ।
वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥

12.174.26

तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि ।
छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥

12.174.27

हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः ।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥

12.174.28

न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥

12.174.29

तस्मात्सत्यव्रताचारः सत्ययोगपरायणः ।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥

12.174.30

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥

12.174.31

सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः ।
समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत् ॥

12.174.32

शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने ॥

12.174.33

पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति ।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥

12.174.34

यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा ।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥

12.174.35

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमन्दुःखं नास्ति त्यागसमं सुखम् ॥

12.174.36

आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा ।
आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥

12.174.37

नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरभः क्रियाभ्यः ॥

12.174.38

किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि ।
आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च ॥
भीष्म उवाच ।

12.174.39

पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप ।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc