भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.17

12.17.1

असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता ।
बलं मोहोऽभिमानश्चाप्युद्वेगश्चैव सर्वशः ॥

12.17.2

एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसे ।
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥

12.17.3

य इमामखिलां भूमिं शिष्यादेको महीपतिः ।
तस्याप्युदरमेकं वै किमिदं त्वं प्रशंससि ॥

12.17.4

नाह्ना पूरयितुं शक्यां न मासैर्भरतर्षभ ।
अपूर्यां पूरयन्निच्छामायुषाऽपि न शक्नुयात् ॥

12.17.5

यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति ।
अल्पाहारतयाग्निं त्वं शमयौदर्यमुत्थितम् ॥

12.17.6

आत्मोदरकृतेऽप्राज्ञः करोति विशसं बहु ।
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥

12.17.7

मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि ।
अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥

12.17.8

योगः क्षेमश्च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ ।
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥

12.17.9

एकोदरकृते व्याघ्रः करोति विशसं बहु ।
तमन्येऽप्युपजीवन्ति मन्दवेगतरा मृगाः ॥

12.17.10

विषयान्प्रतिसन्गृह्य सन्न्यासे कुरुते मतिम् ।
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥

12.17.11

पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा ।
अब्भक्षैर्वायुभक्षैश्च तेरयं नरको जितः ॥

12.17.12

यस्त्विमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः ।
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥

12.17.13

सन्कल्पेषु निरारम्भो निराशीर्निर्ममो भव ।
अशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥

12.17.14

निरामिषा न शोचन्ति शोचन्ति त्वामिषैषिणः ।
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ॥

12.17.15

पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ ।
ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥

12.17.16

तपसा ब्रह्मर्येण स्वाध्यायेन महर्षयः ।
विमुच्य देहांस्ते यान्ति मृत्योरविषयं गताः ॥

12.17.17

आमिषं बन्धनं लोके कर्मेहोक्तं तथाऽमिषम् ।
ताभ्यां विमुक्तः पापाभ्यां पदमाप्नोति तत्परम् ॥

12.17.18

अपि गाथां पुरा गीतां जनकेन वदन्त्युत ।
निर्द्वन्द्वेन विमुक्तेन मोक्षं समनुपश्यता ॥

12.17.19

अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन ।
मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥

12.17.20

प्रज्ञाप्रासादमारुह्य न शोचेच्छोचतो जनान् ।
जगतीस्थोऽथवाऽद्रिस्थो मन्दबुद्धिर्नचेक्षते ॥

12.17.21

दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् ।
अज्ञातानां च विज्ञानात्सम्बोधाद्रुद्धिरुच्यते ॥

12.17.22

यस्तु मानं विजानाति बहुमानमियात्स वै ।
ब्रह्मभावप्रभूतानां वैद्यानां भावितात्मनाम् ॥

12.17.23

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥

12.17.24

ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः ।
नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc