भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.168

12.168.1

तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे ।
निष्क्रम्य गौतमोऽगच्छद्धनार्थी विचचार ह ॥

12.168.2

सामुद्रिकान्सवणिजस्ततोऽपश्यत्स्थितान्पथि ।
स तेन सह सार्थेन प्रययौ सागरं प्रति ॥

12.168.3

स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे ।
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥

12.168.4

स कथञ्चिद्भयात्तस्माद्विमुक्तो प्रायशोऽभवत् ।
कान्दिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥

12.168.5

ततस्तु स परिभ्रष्टः सार्थाद्देशात्तथाऽर्थतः ।
एकाकी व्यभ्रमत्तत्र वने कापुरुषो यथा ॥

12.168.6

स पन्थानमथासाद्य समुद्राभिसरं तदा ।
आससाद वनं रम्यं महत्पुष्पितपादपम् ॥

12.168.7

सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम् ।
नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम् ॥

12.168.8

सालतालघवाश्वत्थप्लक्षागुरुवनैस्तथा । चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् ।
गिरिप्रस्थेषु रम्येषु सुखेषु सुखगन्धिषु ॥

12.168.9

समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै ।
मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः ॥

12.168.10

स तान्यतिमनोज्ञानि विहगानां रुतानि वै ।
शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ॥

12.168.11

ततोऽपश्यत्सुरम्येषु सुवर्णसिकताचिते । देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे ।
श्रिया जुष्टं ददर्शाथ न्यग्रोधं च सुमण्डलम् ॥

12.168.12

शाखाभिरनुरूपाभिः संवृतं छत्रसन्निभम् ।
तस्य मूलं च संसिक्तं वरचन्दनवारिणा ॥

12.168.13

दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् ।
तं दृष्ट्वा गौतमः प्रीतो मनःकान्तमनुत्तमम् ॥

12.168.14

मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ।
तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥

12.168.15

तत्रासीनस्य कौन्तेय गौतमस्य नराधिप । पुष्पाणि समुपस्पृश्य प्रववावनिलः शुभः ।
ह्लादयंस्तस्य गात्राणि गौतमस्य तदा नृप ॥

12.168.16

स तु विप्रः परिश्रान्तिः स्पृष्टः पुण्येन वायुना ।
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात् ॥

12.168.17

ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते ।
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥

12.168.18

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा ।
बकराजो महाप्राज्ञः काश्यपस्यात्मसम्भवः ॥

12.168.19

राजधर्मेति विख्यातो बभूवाप्रतिभो भुवि ।
देवकन्यासुतः श्रीमान्विद्वान्देवसमप्रभः ॥

12.168.20

मृष्टहाटकसञ्छन्नो भूषणैरर्कसन्निभैः ।
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥

12.168.21

तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत् ।
क्षुत्पिपासापरीतात्मा हिंसार्थं चैनमैक्षत ॥
राजधर्मोवाच ।

12.168.22

स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहान् ।
अस्तं च सविता यातः सन्ध्येयं समुपस्थिता ॥

12.168.23

मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः ।
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc