भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.149

12.149.1

अबुद्धिपूर्वं यत्पापं कुर्याद्भरतसत्तम ।
मुच्यते स कथं तस्मादेनसस्तद्ब्रवीहि मे ॥
भीष्म उवाच ।

12.149.2

अत्र ते वर्तयिष्यामि पुराणमृषिसंस्तुतम् ।
इन्द्रोतः शौनको विप्रो यदाह जनमेजयम् ॥

12.149.3

आसीद्राजा महावीर्यः पारिक्षिज्जनमेजयः ।
अबुद्धिजा ब्रह्महत्या तमागच्छन्महीपतिम् ॥

12.149.4

ब्राह्मणाः सर्व एवैनं तत्यजुः सपुरोहिताः ।
स जगाम वनं राजा दह्यमानो दिवानिशम् ॥

12.149.5

प्रजाभिः स परित्यक्तश्चकार कुशलं महत् ।
अतिवेलं तपस्तेपे दह्यमानः स मन्युना ॥

12.149.6

ब्रह्महत्यापनोदार्थमपृच्छद्ब्राह्मणान्बहून् ।
पर्यटन्पृथिवीं कृत्स्नां देशेदेशे नराधिपः ॥

12.149.7

तत्रेतिहासं वक्ष्यामि धर्मस्यास्योपवृंहणम् ।
दह्यमानः पापकृत्या जगाम जनमेजयः ॥

12.149.8

चरिष्यमाण इन्द्रोतं शौनकं संशितव्रतम् ।
समासाद्योपजग्राह पादयोः परिपीडयन् ॥

12.149.9

ततो भीतो महाप्राज्ञो जगर्हे सुभृशं तदा ।
कर्ता पापस्य महतो भ्रूणहा किमिहागतः ॥

12.149.10

किं तवास्मासु कर्तव्यं मा मां द्राक्षीः कथञ्चन ।
गच्छगच्छ न ते स्थानं प्रीणात्यस्मानिति ब्रुवन् ॥

12.149.11

रुधिरस्येव ते गन्धः शवस्येव च दर्शनम् ।
अशिवः शिवसन्काशो मृतो जीवन्निवाटसि ॥

12.149.12

अन्तर्भृत्युरशुद्धात्मा पापमेवानुचिन्तयन् ।
प्रबुध्यसे प्रस्वपिपि वर्तसे परमे सुखे ॥

12.149.13

मोघं ते जीवितं राजन्परिक्लिष्टं च जीवसि ।
पापायैव हि सृष्टोऽसि कर्मणेह यवीयसे ॥

12.149.14

बहुकल्याणमिच्छन्त ईहन्ते पितरः सुतान् ।
तपसा दैवतेज्याभिर्वन्दनेन तितिक्षया ॥

12.149.15

पितृवंशमिमं पश्य त्वत्कृते निधनं गतम् ।
निरर्थाः सर्व एवैषामाशाबन्धास्त्वदाश्रयाः ॥

12.149.16

यान्पूजयन्तो विन्दन्ति स्वर्गमायुर्यशः प्रजाः ।
तेषु ते सन्ततं द्वेषो ब्राह्मणेषु निरर्थकः ॥

12.149.17

इमं लोकं विमुच्य त्वमवाङ्भूर्धा पतिष्यसि ।
अशाश्वतीः शाश्वतीश्च समाः पापेन कर्मणा ॥

12.149.18

स्वाद्यमानो जन्तुशतैस्तीक्ष्णदंष्ट्रैरयोमुखैः ।
ततश्च पुनरावृत्तः पापयोनिं गमिष्यसि ॥

12.149.19

यदिदं मन्यसे राजन्नायमस्ति कुतः परः ।
प्रतिस्मारयितारस्त्वां यमदूता यमक्षये ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc