भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.112

12.112.1

किं पार्थिवेन कर्तव्यं किञ्च कृत्वा सुखी भवेत् ।
तन्ममाचक्ष्व तत्त्वेन सर्वधर्मभृतां वर ॥
भीष्म उवाच ।

12.112.2

हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् ।
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत् ॥

12.112.3

नचैवं वर्तितव्यं स्म यथेदमनुशुश्रुम् ।
उष्ट्रस्य तु महद्वृत्तं तन्निबोध युधिष्ठिर ॥

12.112.4

जातिस्मरो महानुष्ट्रः प्रजापतिकुलोद्भवः ।
तपः सुमहदातिष्ठदरण्ये संशितव्रतः ॥

12.112.5

तपसस्तस्य चान्तेऽथ प्रीतिमानभवद्विभुः ।
वरेण च्छन्दयामास ततश्चैनं पितामहः ॥
उष्ट्र उवाच ।

12.112.6

भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् ।
योजनानां शतं साग्रमिच्छेयं चारितुं विभो ॥

12.112.7

एवमस्विति चोक्तः स वरदेन महात्मना ।
प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम् ॥

12.112.8

स चकार तदाऽलस्यं वरदानात्सुदुर्मतिः ।
न चैच्छच्चिरतुं गन्तुं दुरात्मा कालमोहितः ॥

12.112.9

स कदाचित्प्रसार्यैव तां ग्रीवां शतयोजनाम् ।
चचार श्रान्तहृदयो वातश्चागात्ततो महान् ॥

12.112.10

स गुहायां शिरोग्रीवां निधाय पशुरात्मनः ।
आस्ते वर्षमथाभ्यागात्सुमहत्प्लावयज्जगत् ॥

12.112.11

अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः ।
सदारस्तां गुहामाशु प्रविवेश जलार्दितः ॥

12.112.12

स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः ॥
अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ ॥

12.112.13

यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशु ।
तदा सन्कोचने यत्नमकरोद्भृशदुःखितः ॥

12.112.14

यावदूर्ध्वमधश्चैव ग्रीवां सन्क्षिपते पशुः ।
तावत्तेन सदारेण जम्बुकेन स भक्षितः ॥

12.112.15

स हत्वा भक्षयित्वा च तमुष्ट्रं जम्बुकस्तदा ।
विगते वातवर्पे तु निश्चक्राम गुहोदरात् ॥

12.112.16

एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा ।
आलस्यस्य क्रमात्पश्य महान्तं दोषमागतम् ॥

12.112.17

त्वमप्येवंविधं हित्वा योगेन नियतेन्द्रियः ।
वर्तस्व बुद्धिमूलं तु विजयं मनुरब्रवीत् ॥

12.112.18

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥

12.112.19

राज्यं तिष्ठति दक्षस्य सन्गृहीतेन्द्रियस्य च । [आर्तस्य बुद्धिमूलं हि विजयं मनुरब्रवीत्.]
गुप्तं मन्त्रं श्रुतवतः सुसहायस्य चानघ ॥

12.112.20

असहायवतो ह्यर्था न तिष्ठन्ति कदाचन । परीक्षितसहायस्य तिष्ठन्तीह युधिष्ठिर ।
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम् ॥

12.112.21

इदं हि सद्भिः कथितं विधिज्ञैः पुरा महेन्द्रप्रतिमप्रभावः ।
मयाऽपि चोक्तं तव शास्त्रदृष्ट्या त्वमप्रमत्तः प्रचरस्व राजन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc