भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.105

12.105.1

अथ चेत्पौरुषं किञ्चित्क्षत्रियात्मनि पश्यसि ।
ब्रवीम्यहं तु ते नीतिं राज्यस्य प्रतिपत्तये ॥

12.105.2

तां चच्छक्ष्यस्यनुष्ठातुं कर्म चैव करिष्यसि ।
शृणु सर्वमशेषेण यत्ते वक्ष्यामि तत्त्वतः ॥

12.105.3

आचरिष्यसि चेत्कर्म महतोऽर्थानवाप्स्यसि । राज्यं वा राज्यमन्त्रं वा महतीं वा पुनः श्रियम् ।
यद्येतद्रोचते राजन्पुनर्ब्रूहि ब्रवीमि ते ॥
राजोवाच ।

12.105.4

ब्रवीतु भगवान्नीतिमभिपन्नोऽस्म्यधीहि भो ।
अमोघ एव मेऽद्यास्तु त्वया सह समागमः ॥
मुनिरुवाच ।

12.105.5

हित्वा मानं च दम्भं च क्रोधं हर्ष भयं तथा । प्रत्यमित्राणि सेवस्व प्रणिपत्य कृताञ्जलिः ।
तमुत्तमेन शौचेन कर्मणा चावधारय ॥

12.105.6

दातुमर्हति ते वित्तं वैदेहः सत्यविक्रमः ।
प्रमाणं सर्वभूतेषु प्रग्रहं च गमिष्यसि ॥

12.105.7

ततः सहायान्सोत्साहाँल्लप्स्यसेऽव्यसनाञ्शुचीन् । वर्तमानः स्वशास्त्रे वै संयतात्मा जितेन्द्रियः ।
अभ्युद्धरति चात्मानं प्रसादयति च प्रजाः ॥

12.105.8

तेनैव त्वं धृतिमता श्रीमता चापि सत्कृतः ।
प्रमाणं सर्वभूतेषु गत्वा च ग्रहणं महत् ॥

12.105.9

ततः सुहृद्बलं लब्ध्वा मन्त्रयित्वा सुमन्त्रितम् । सान्त्वेन भेदयित्वाऽरीन्बिल्वं बिल्वेन शातय ।
परैर्वा संविदं कृत्वा बलमप्यस्य घातय ॥

12.105.10

अलभ्या ये शुभा भावाः स्त्रियश्चाच्छादनानि च ।
शय्यासनानि यानानि महार्हाणि गृहाणि च ॥

12.105.11

पक्षिणो मृगजातानि रसगन्धाः फलानि च ।
तेष्वेव सज्जयेथास्त्वं यथा नश्येत्स्वयं परः ॥

12.105.12

यद्येवं प्रतिषेद्धव्यो यद्युपेक्षणमर्हति । सदैव राजशार्दूल विदुषा हितमिच्छता ।
न जातु विवृतः कार्यः शत्रुः सुनयमिच्छता ॥

12.105.13

वसस्व पुरमामित्रं विषये मित्रसम्मतः ।
भजस्व श्वेतकाकीयैर्मित्रधर्ममनथैकैः ॥

12.105.14

आरम्भांश्चास्य महतो दुष्करान्सम्प्रयोजय ।
नदीबन्धविभेदांश्च बलवद्भिर्विरुध्यताम् ॥

12.105.15

उद्यानानि महार्हाणि शयनान्यासनानि च ।
प्रीतिभोगमुखेनैव कोशमस्य विरोचय ॥

12.105.16

यज्ञदाने प्रशंसास्मै ब्राह्मणाननुवर्तय ।
ते त्वा प्रियं करिष्यन्ति तच्छेत्स्यन्ति वृका इव ॥

12.105.17

असंशयं पुण्यशीलाः प्राप्नोति परमां गतिम् ।
त्रिविष्टपे पुण्यतमं स्थानं प्राप्नोति शाश्वतम् ॥

12.105.18

कोशक्षये त्वमित्राणां वशं कौसल्य गच्छति ।
उभयत्र प्रयुक्तस्य धर्मे चाधर्म एव च ॥

12.105.19

फलार्थमूलमुच्छिद्यात्तेन नन्दन्ति शत्रवः ।
न चास्मै मानुषं कर्म दैवप्रस्योपवर्णय ॥

12.105.20

असंशयं दैवपरः क्षिप्रमेव विनश्यति ।
याजयैनं विश्वजिता सर्वस्वेन वियुज्यताम् ॥

12.105.21

ततो गच्छत्यसिद्धार्थः पीडयानो महाजनम् ।
त्यागधर्मविदं पुण्यं कञ्चिदस्योपवर्णय ॥

12.105.22

अपि त्यागं बुभूषेत कच्चिद्गच्छेदनामयम् । सिद्धेनौषधियोगेन सर्वशत्रुविनाशिना ।
गजानश्वान्मनुष्यांश्च कृतकैरुपघातय ॥

12.105.23

एते चान्ये च बहवो दम्भयोगाः सुचिन्तिताः ।
शक्या विपहता कर्तुं न क्लीबेन नृपात्मज ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc