भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.6

11.6.1

अहो खलु महद्दुःखं कृच्छ्रवासं वसत्यसौ ।
कथं तस्य रतिस्तत्र तुष्टिर्वा वदतां वर ॥

11.6.2

स देशः क्वनु यत्रासौ वसते धर्मसङ्कटे ।
कथं वा स विमुच्येत नरस्तस्मान्महाभयात् ॥

11.6.3

एतन्मे सर्वमाचक्ष्व साधु चेष्टामहे तदा ।
कृपा मे महती जाता तस्याभ्युद्धरणेन हि ॥
विदुर उवाच ।

11.6.4

उपाख्यानमिदं राजन्मोक्षविद्भिरुदाहृतम् ।
सुगतिं विन्दते येन परलोकेषु मानवः ॥

11.6.5

उच्यते यत्तु कान्तारं महासंसार एव सः ।
वनं दुर्गं हि यच्चैतत्संसारगहनं हि तत् ॥

11.6.6

ये च ते कथिता व्याला व्याधयस्ते प्रकीर्तिताः ॥

11.6.7

या सा नारी बृहत्काया अध्यतिष्ठत तत्र वै ।
तामाहुस्तु जरां प्राज्ञा रूपवर्णविनाशिनीम् ॥

11.6.8

स यस्तु कूपो नृपते स तु देहः शरीरिणाम् । यस्तत्र वसतेऽधस्तान्महाहिः काल एव सः ।
अन्तकः सर्वभूतानां देहिनां प्राणाहार्यसौ ॥

11.6.9

कूपमध्ये च या जाता वल्ली यत्र स मानवः ।
प्रोतो ययाऽभवल्लग्नो जीविताशा शरीरिणाम् ॥

11.6.10

स यस्तु कूपपीनाहे तं वृक्षं परिसर्पति ।
षड्वक्त्रः कुञ्जरो राजन्स तु संवत्सरः स्मृतः ॥

11.6.11

मुखानि ऋतवो मासाः पादा द्वादशा कीर्तिताः ।
ये तु वृन्क्षं निकृन्तन्ति मूषिकाः पन्नगास्तथा ॥

11.6.12

रात्र्यहानि तु तान्याहुर्भूतानां परिचिन्तकाः ।
ये ते मधुकरास्तत्र कामास्ते परिकीर्तिताः ॥

11.6.13

यास्तु ता बहुशो धाराः स्रवन्ति मधुनिस्रवम् ।
तांस्तु कामरसान्विन्द्याद्यत्र सज्जन्ति मानवाः ॥

11.6.14

एवं संसारचक्रस्य परिवृत्तिं विदुर्बुधाः ।
येन संसारचक्रस्य पाशांश्छिन्दन्ति सर्वथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc