भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.4

11.4.1

कथं संसारगहनं विज्ञेयं वदतां वर ।
एतदिच्छाम्यहं श्रोतुं तत्त्वमाख्याहि पृच्छतः ॥
विदुर उवाच ।

11.4.2

जन्मप्रभृति भूतानां क्रियाः सर्वास्तु लक्षयन् ।
पूर्वमेवेह कलिले वसते किञ्चिदन्तरम् ॥

11.4.3

ततः स पञ्चमेऽतीते मासे मांसमकल्पयत् ।
ततः सर्वाङ्गसम्पूर्णो गर्भो मासे तु जायते ॥

11.4.4

अमेध्यमध्ये वसति मांसशोणितलेपने ।
ततस्तु वायुवेगेन ऊर्ध्वपादो ह्यधोमुखः ॥

11.4.5

योनिद्वारमुपागम्य बहून्क्लेशान्समृच्छति ।
योनिसम्पीडनाच्चैव पूर्वकर्मभिरन्वितः ॥

11.4.6

तस्मान्मुक्तः स संसारादन्यान्पश्यत्युपद्रवान् ।
ग्रहास्तमनुच्छन्ति सारमेया इवामिषम् ॥

11.4.7

ततः कालान्तरे प्राप्ते व्याधयश्चापि तं तथा ।
उपसर्पन्ति जीवन्तं बध्यमानं स्वकर्मभिः ॥

11.4.8

बद्धमिन्द्रियपाशैस्तं सङ्गकामुकमातुरम् ।
व्यसनान्यनुवर्तन्ते विविधानि नराधिप ॥

11.4.9

बाध्यमानश्च तैर्भूयो नैव तृप्तिमुपैति सः । [तदा नावैति चैवायं प्रकुर्वन्साध्वसाधु वा ॥ ]

11.4.10

तत्रैनं परिपश्यन्ति ये ध्यानपरिनिष्ठिताः ।
अयं न बुध्यते तावद्यमलोकादिहागमे ॥

11.4.11

यमदूतैर्विकृष्यंश्च मृत्युं कालेन गच्छति । वाग्घीनस्य च या मात्रा इष्टानिष्टकृताऽस्य वै ।
भूय एवात्मनाऽत्मानं बध्यमानमुपैति सः ॥

11.4.12

अहो विनिकृतो लोको लोभेन च वशीकृतः ।
लोभक्रोधमदोन्मत्तो नात्मानमवबुध्यते ॥

11.4.13

कुलीनत्वे च रमते दुष्कुलीनान्विकुत्सयन् ।
धनदर्पेण दृप्तश्च दरिद्रान्परिकुत्सयन् ॥

11.4.14

मूर्खानिति परानाह नात्मानं समवेक्षते ।
दोषान्क्षिपति चान्येषां नात्मानं शास्तुमिच्छति ॥

11.4.15

यदा प्राज्ञाश्च मूर्खाश्च धनवन्तश्च निर्धनाः ।
कुलीनाश्चाकुलीनाश्च मानिनोऽथाप्यमानिनः ॥

11.4.16

सर्वे पितृवनं प्राप्ताः स्वपन्ति विगतत्वचः ।
निर्मांसैरस्थिभूयिष्ठैर्गात्रैः स्नायुनिबन्धनैः ॥

11.4.17

किं विशेषं प्रपश्यन्ति तत्र तेषां परे जनाः ।
येन प्रत्यवगच्छेयुः कुलरूपविशेषणम् ॥

11.4.18

यदा सर्वे समं न्यस्ताः स्वपन्ति धरणीतले ।
कस्मादन्योन्यमिच्छन्ति विप्रलब्धुमिहाबुधाः ॥

11.4.19

प्रत्यक्षं च परोक्षं च यो निशम्य श्रुतिं त्विमाम् । [अध्रुवे जीवलोकेऽस्मिन्यो धर्ममनुपालयन्.]
जन्मप्रभृति वर्तेत प्राप्नुयात्परमां गतिम् ॥

11.4.20

एवं सर्वं विदित्वा वै यस्तत्त्वमनुवर्तते ।
स प्रमोक्षयते चैव पन्थानं मनुजेश्वर ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc