भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.20

11.20.1

अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव ।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् ॥

11.20.2

यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् ।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः ॥

11.20.3

तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः ।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति ॥

11.20.4

एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः ।
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता ॥

11.20.5

तमेषा हि समागम्य भार्या भर्तारमन्तिके ।
विराटदुहिता कृष्ण पाणिना परिमार्जति ॥

11.20.6

तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी ।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् ॥

11.20.7

कामरूपवती चैषा परिष्वजति भामिनी ।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता ॥

11.20.8

तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम् ।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते ॥

11.20.9

अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते ।
अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः ॥

11.20.10

बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः ॥

11.20.11

अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः ।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते ॥

11.20.12

मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ । काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ ।
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव ॥

11.20.13

एवं विलपतीमार्तां किं मां न प्रतिभाषसे ।
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे ॥

11.20.14

ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे ।
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे ॥

11.20.15

आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान् ।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि ॥

11.20.16

तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना ।
उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति ॥

11.20.17

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः ।
कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः ॥

11.20.18

धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् ।
द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता ॥

11.20.19

रथर्षभाणां सर्वेषां कथमासीत्तदा मनः ।
बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम् ॥

11.20.20

कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम् ।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् ॥

11.20.21

दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव ।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः ॥

11.20.22

न राज्यलाभो विपुलः शत्रूणां च पराभवः ।
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण ॥

11.20.23

तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च ।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय ॥

11.20.24

दुर्मरं पुनरप्राप्ते काले भवति केनचित् ।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा ॥

11.20.25

कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा ।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि ॥

11.20.26

नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि ।
परमेण च रूपेण गिरा च स्मितपूर्वया ॥

11.20.27

प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान् ।
सौभद्र विहन्काले स्मरेथाः सुकृतानि मे ॥

11.20.28

एतावानिह संवासो विहितस्ते मया सह ।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः ॥

11.20.29

इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम् ।
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः ॥

11.20.30

उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् ।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च ॥

11.20.31

द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् ।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः ॥

11.20.32

वितुद्यमानं विहगैर्विराटमसितेक्षणाः ।
न शक्नुवन्ति विहगान्निवारयितुमातुराः ॥

11.20.33

आसामातपतप्तानामायासेन च योषिताम् ।
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः ॥

11.20.34

उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम् । कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम् ।

11.20.35

आयोधनशिरोमध्ये शयानं पश्य माधव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc