भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 11.2

11.2.1

ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् ।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥
विदुर उवाच ।

11.2.2

उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥

11.2.3

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥

11.2.4

यदा शूरं च भीरुं च यमः कर्षति भारत ।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥

11.2.5

अयुध्यमानो म्रियते युध्यमानश्च जीवति ।
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥

11.2.6

अभावादीनि भूतानि भावमध्यानि भारत ।
अभावनिधनान्येव तत्र का परिदेवना ॥

11.2.7

न शोचन्मृतमन्वेति न शोचन्म्रियते नरः ।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥

11.2.8

कालः कर्षति भूतानि सर्वाणि विविधान्युत ।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥

11.2.9

यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः ।
तथा कालवशं यान्ति भूतानि भरतर्षभ ॥

11.2.10

एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
यस्य कालः स यात्यग्रे तत्र का परिदेवना ॥

11.2.11

न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि ।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥

11.2.12

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः ।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥

11.2.13

अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
नैते तव न तेषां त्वं तत्र का परिदेवना ॥

11.2.14

हतो हि लभते स्वर्गं जित्वा च लभते यशः ।
उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥

11.2.15

तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति ।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ ॥

11.2.16

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥

11.2.17

शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः ।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः ॥

11.2.18

एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् ।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥

11.2.19

क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः ।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि ॥

11.2.20

आत्मानमात्मनाऽश्वास्य मा शुचः पुरुषर्षभ ।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि ॥

11.2.21

मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥

11.2.22

शोकस्थानसहसाणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण़्डितम् ॥

11.2.23

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥

11.2.24

कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥

11.2.25

अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः ॥

11.2.26

न जानपदिकं दुःखमेकः शोचितुमर्हसि ।
अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥

11.2.27

अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् ।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ॥

11.2.28

चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥ अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च ।

11.2.29

मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥ नार्थो न धर्मो न सुखं यदेतदनुशोचति ।

11.2.30

तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते ॥ अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः ।

11.2.31

असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ॥ प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।

11.2.32

एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥ शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति ।

11.2.33

अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥ यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् ।

11.2.34

तस्यान्तस्यामवस्थायां तत्तत्फलमवाप्नुते ॥ [येनयेन शरीरेण यद्यत्कर्म करोति यः ।

11.2.35

तेनतेन शरीरेण तत्फलं समुपाश्नुते ॥
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च ॥

11.2.36

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित् ॥

11.2.37

न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु । मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः ॥ ] ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc