भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 10.18

10.18.1

ततो देवयुगेऽतीते देवा वै समकल्पयन् ।
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः ॥

10.18.2

कल्पयामासुरथ ते साधनानि हवींषि च ।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥

10.18.3

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः ।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥

10.18.4

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः ।
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह ॥

10.18.5

लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः ।
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत् ॥

10.18.6

लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः ।
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः ॥

10.18.7

वषट््कारोऽभवज्ज्या तु धनुषस्तस्य भारत ।
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन् ॥

10.18.8

ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम् ।
आजगामाथ तत्रैव यत्र देवाः समीजिरे ॥

10.18.9

तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् ।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥

10.18.10

न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः ।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥

10.18.11

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः ।
तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम् ॥

10.18.12

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे ।
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा ॥

10.18.13

ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा ।
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः ॥

10.18.14

स तु तेनैव रूपेण दिविस्थो वै व्यराजत ।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥

10.18.15

अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् ।
नष्टसञ्ज्ञेषु देवेषु न प्राज्ञायत किञ्चन ॥

10.18.16

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा ।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥

10.18.17

प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः ।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥

10.18.18

स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च ।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥

10.18.19

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्् ।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥

10.18.20

ततो विधनुषं देवा देवश्रेष्ठमुपागमन् ।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥

10.18.21

ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये ।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥

10.18.22

भगस्य नयने चैव बाहू च सवितुस्तथा ।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव ॥

10.18.23

ततः सुस्थमिदं सर्वं बभूव पुनरेव हि ।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ॥

10.18.24

तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो ।
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत ॥

10.18.25

ततस्ते निहताः सर्वे तव पुत्रा महारथाः ।
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः ॥

10.18.26

न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम् ।
महादेवप्रसादः स कुरुकार्यमनन्तरम् ॥

10.18.1

अस्यानन्रं स्त्रीपर्व भविष्यति तस्यायमाद्यः श्लोकः ।
जनमेजय उवाच ।
हते दुर्योधने चैव हते सैन्ये च सर्वशः । धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc