भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.99

1.99.1

राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ॥

1.99.2

मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् ।
ममैवोद्रिच्यते जन्म दुष्यन्त तव जन्मतः ॥

1.99.3

क्षितौ चरसि राजंस्त्वमन्तरिक्षे चराम्यहम् ।
आवयोरन्तरं पश्य मेरुसर्षपयोरिव ॥

1.99.4

महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च ।
भवनान्यनुसंयामि प्रभावं पश्य मे नृप ॥

1.99.5

पुरा नरवरः पुत्र उर्वश्यां जनितस्तदा ।
आयुर्नाम महाराज तव पूर्वपितामहः ॥

1.99.6

महर्षयश्च बहवः क्षत्रियाश्च परन्तपाः । अप्सरःसु ऋषीणां च मातृदोषो न विद्यते ॥

1.99.7

सत्यश्चापि प्रवादोऽयं प्रवक्ष्यामि च ते नृप ।
निदर्शनार्थं न द्वेषाच्छ्रुत्वा तत्क्षन्तुमर्हसि ॥

1.99.8

विरूपो यावदादर्शे नात्मनो वीक्षते मुखम् ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ॥

1.99.9

यदा तु रूपमादर्शे विरूपं सोऽभिवीक्षते ।
तदा ह्रीमांस्तु जानीयादन्तरं नेतरं जनम् ॥

1.99.10

अतीव रूपसम्पन्नो न कञ्चिदवमन्यते ।
अतीव जल्पन्दुर्वाचो भवतीह विहेतुकः ॥

1.99.11

पांसुपातेन हृष्यन्ति कुञ्जरा मदशालिनः ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्मतिः ॥

1.99.12

सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
सुनास्तिकोप्युद्विजते जनः किं पुनरास्तिकः ॥

1.99.13

स्वयमुत्पाद्य पुत्रं वै सदृशं योऽवमन्यते ।
तस्य देवाः श्रियं घ्नन्ति तत्रैनं कलिराविशेत् ॥

1.99.14

अभव्येऽप्यनृतेऽशुद्धे नास्तिके पापकर्मणि । दुराचारे कलिर्ह्याशु न कलिर्धर्मचारिषु ॥

1.99.15

मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ॥

1.99.16

प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः ।
गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसि ॥

1.99.17

आत्मनो दुष्टभावत्वं जानन्नीचोऽप्रसन्नधीः ।
परेषामपि जानाति स्वधर्मसदृशान्गुणान् ॥

1.99.18

दह्यमानास्तु तीव्रेण नीचाः परयशोग्निना । अशक्तास्तद्गतिं गन्तुं ततो निन्दां प्रकुर्वते ॥

1.99.19

अन्यान्परिवदन्साधुर्यथा हि परितप्यते ।
तथा परिवदन्नन्यान्हृष्टो भवति दुर्जनः ॥

1.99.20

अपवादरता मूर्खा भवन्ति हि विशेषतः । नापवादरताः सन्तो भवन्ति स्म विशेषतः ॥

1.99.21

अभिवाद्य यथा वृद्धान्साधुर्गच्छति निर्वृतिम् ।
एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ॥

1.99.22

सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः ।
यथा वाच्याः परैः सन्तः परानाहुस्तथाविधान् ॥

1.99.23

अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते ।
यदि दुर्जन इत्याहुः सज्जनं दुर्जनाः स्वयम् ॥

1.99.24

दारुणाल्लोकसन्क्लेशाद्दुःखमाप्नोत्यसंशयम् ॥ कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् ॥

1.99.25

उत्तमं सर्वधर्माणां तस्मात्पुत्रं तु न त्यजेत् ।
स्वपत्नीप्रभवाँल्लब्धान्कृतान्समयवर्धितान् ॥

1.99.26

क्रीतान्कन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ।
ते च षड्वन्धुदायादाः षडदायादबान्धवाः ॥

1.99.27

धर्मकृत्यवहा नॄणां मनसः प्रीतिवर्धनाः ।
त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितॄन् ॥

1.99.28

स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि ।
तस्मात्पुत्रं च सत्यं च पालयस्व महीपते ॥

1.99.29

उभयं पालयस्वैतन्नानृतं वक्तुमर्हसि । आत्मानं सत्यधर्मौ च पालयेथा महीपते ।
नरेन्द्रसिंह कपटं न हि वोढुं त्वमर्हसि ॥

1.99.30

वरं कूपशताद्वापी वरं वापीशतात्क्रतुः ।
वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ॥

1.99.31

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥

1.99.32

सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् ।
सत्यस्यैव च राजेन्द्र कलां नार्हति षोडशीम् ॥

1.99.33

नास्ति सत्यसमो धर्मो न सत्याद्विद्यते परम् ।
न हि तीव्रतरं पापमनृतादिह विद्यते ॥

1.99.34

राजन्सत्यं परो धर्मः सत्याच्च समयः परः ।
मात्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ॥

1.99.35

यः पापो न विजानीयात्कर्म कृत्वा नराधिप ।
न हि तादृक्परं पापमनृतादिह विद्यते ॥

1.99.36

यस्य ते हृदयं वेद सत्यस्यैवानृतस्य च ।
कल्याणावेक्षणं तस्मात्कर्तुमर्हसि धर्मतः ॥

1.99.37

यो न कामान्न च क्रोधान्न द्रोहादतिवर्तते । अमित्रं वापि मित्रं वा स एवोत्तमपूरुषः ॥

1.99.38

अनृतश्चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् ।
आश्रमं गन्तुमिच्छामि त्वादृशो नास्ति सङ्गतं ॥

1.99.39

पुत्रत्वे शङ्कमानस्य त्वं बुद्ध्या निश्चयं कुरु ।
गतिः स्वरः स्मृतिः सत्वं शीलं विद्या च विक्रमः ॥

1.99.40

धृष्णुप्रकृतिभावौ च आवर्ता रोमराजयः ।
समा यस्य यदा स्युस्ते तस्य पुत्रो न संशयः ॥

1.99.41

सादृश्येनोद्धऋतं बिम्बं तव देहाद्विशाम्पते ।
तातेति भाषमाणं वै मा स्म राजन्वृथा कृथाः ॥

1.99.42

ऋते च गर्दभीक्षीरात्पयः पास्यति मे सुतः । ऋतेपि त्वां च दुष्यन्त शैलराजावतंसिकाम् ।
चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ॥

1.99.43

शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ।
एवमुक्तं महेन्द्रेण भविष्यति न चान्यथा ॥

1.99.44

साक्षित्वे बहवो ह्युक्ता देवदूतादयो मया ।
न ब्रुवन्ति तथा सत्यमुताहो नानृतं किल ॥

1.99.45

असाक्षिणी मन्दबाग्या गमिष्यामि यथागतम् ॥
वैशम्पायन उवाच ।

1.99.46

एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला ।
तस्याः क्रोधसमुत्थोग्निः सधूमो मूर्ध्न्यदृश्यत ॥

1.99.47

सन्नियम्यात्मनोऽङ्गेषु ततः क्रोधाग्निमात्मजम् ।
प्रस्थितैवानवद्याङ्गी सह पुत्रेण वै वनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc