भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.92

1.92.1

ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ।
नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥

1.92.2

सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽश्रमम् ।
उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव ॥

1.92.3

श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी ।
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥

1.92.4

सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा ।
सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् ॥

1.92.5

रूपयौवनसम्पन्ना शीलाचारवती शुभा ।
सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम् ॥

1.92.6

सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम् । स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया ॥

1.92.7

स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ।
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि ॥

1.92.8

पप्रच्छानामयं राजन्कुशलं च नराधिपम् ।
यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा ॥

1.92.9

उवाच स्मयमानेव किं कार्यं क्रियतामिति ।
आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि ॥

1.92.10

कस्त्वमद्येह सम्प्राप्तो महर्षेराश्रमं शुभम् । तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ॥

1.92.11

दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ।
राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः ॥

1.92.12

दुष्यन्त इति मे नाम सत्यं पुष्करलोचने । आगतोऽहं महाभागमृषिं कण्वमुपासितुम् ॥

1.92.13

क्व गतो भगवान्भद्रे गन्ममाचक्ष्व शोभने ।
शकुन्तलोवाच ।
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् ।
मुहूर्तं सम्प्रतीक्षस्व द्रष्टास्येनमुपागतम् ॥
वैशम्पायन उवाच ।

1.92.14

अपश्यमानस्तमृषिं तथा चोक्तस्तया च सः ।
तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम् ॥

1.92.15

विभ्राजमानां वपुषा तपसा च दमेन च ।
रूपयौवनसम्पन्नामित्युवाच महीपतिः ॥

1.92.16

का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम् ।
एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥

1.92.17

दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः ।
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥

1.92.18

स्थितोस्म्यमितसौभाग्ये विवक्षुश्चास्मि किञ्चन ।
शृणु मे नागनासोरु वचनं मत्तकाशिनि ॥

1.92.19

राजर्षेरन्वये जातः पूरोरस्मि विशेषतः ।
वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि ॥

1.92.20

न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते ।
ऋषिपुत्रीषु चान्यासु नावरासु परासु च ॥

1.92.21

तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि ।
यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा ॥

1.92.22

न हि मे भीरु विप्रायां मनः प्रसहते गतिम् । भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि ।
भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मात्वन्यथा कृथाः ॥

1.92.23

एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे ।
उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥

1.92.24

कण्वस्याहं भगवतो दुष्यन्त दुहिता मता ।
तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः ॥

1.92.25

अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता । तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि ॥
दुष्यन्त उवाच ।

1.92.26

ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः ।
चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितव्रतः ॥

1.92.27

कथं त्वं तस्य दुहिता सम्भूता वरवर्णिनी ।
संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि ॥
शकुन्तलोवाच ।

1.92.28

यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा ।
अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ॥

1.92.29

स पापेनावृतो मूर्खस्तेन आत्मापहारकः । शृणु राजन्यथातत्त्वं यथाऽस्मि दुहिता मुनेः ॥

1.92.30

ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ।
ऊर्ध्वरेता यथासि त्वं कुतस्त्वेयं शकुन्तला ॥

1.92.31

पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप । तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिवा ॥
कण्व उवाच ।

1.92.32

तप्यमानः किल पुरा विश्वामित्रो महत्तपः ।
सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥

1.92.33

तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति ।
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् ॥

1.92.34

गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे ।
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥

1.92.35

असावादित्यशङ्काशो विश्वामित्रो महातपाः ।
तप्यमानस्तपो घोरं मम कम्पयते मनः ॥

1.92.36

मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे ।
शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥

1.92.37

स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय ।
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥

1.92.38

रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः ।
लोभयित्वा वरारोहे तपसस्तं निवर्तय ॥
मेनकोवाच ।

1.92.39

महातेजाः स भगवांस्तथैव च महातपाः ।
कोपनश्च तथा ह्येनं जानाति भगवानपि ॥

1.92.40

तेजस्तपसश्चैव कोपस्य च महात्मनः ।
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥

1.92.41

महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् ।
क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥

1.92.42

शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः ।
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥

1.92.43

बभार यत्रास्य पुरा काले दुर्गे महात्मनः ।
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥

1.92.44

अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम् ।
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥

1.92.45

मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम् ।
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर ॥

1.92.46

चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसम्पदा । प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः ।
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ॥

1.92.47

ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः ।
अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम् ॥

1.92.48

अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः ।
निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥

1.92.49

एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे ।
यथाऽसौ न दहेत्क्रुद्धस्तथाऽज्ञापय मां विभो ॥

1.92.50

तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा ।
सन्क्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः ॥

1.92.51

तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् ।
कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत् ॥

1.92.52

हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् ।
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥

1.92.53

यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालस्विल्याश्च सर्वे ।
एतेऽपि यस्योद्विजन्ते प्रभावा- त्तस्मात्कस्मान्मादृशी नोद्विजेत ॥

1.92.54

त्वयैवमुक्ता च कथं समीप- मृषेर्न गच्छेयमहं सुरेन्द्र ।
रक्षां च मे चिन्तय देवराज यथा त्वदर्थं रक्षिताऽहं चरेयम् ॥

1.92.55

कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव ।
भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात् ॥

1.92.56

वनाच्च वायुः सुरभिः प्रवाया- त्तस्मिन्काले तमृषिं लोभयन्त्याः ।
तथेत्युक्त्वा विहिते चैव तस्मिं- स्ततो ययौ साऽश्रमं कौशिकस्य ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc