भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.88

1.88.1

पुत्रं ययातेः प्रबूहि पूरुं धर्मभृतां वरम् ।
आनुपूर्व्येण ये चान्ये पूरोर्वंशविवर्धनाः ॥

1.88.2

विस्तरेण पुनर्ब्रूहि दौष्यन्तेर्जनमेजयात् ।
सम्बभूव यथा राजा भरतो द्विजसत्तम ॥
वैशम्पायन उवाच ।

1.88.3

पूरुर्नृपतिशार्दूलो यथैवास्य पिता नृप ।
धर्मनित्यः स्थितो राज्ये शक्रतुल्यपराक्रमः ॥

1.88.4

प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः ।
पूरोः पौष्ट्यामजायन्त प्रवीरो वंशकृत्ततः ॥

1.88.5

मनस्युरभवत्तस्माच्छूरसेनीसुतः प्रभुः ।
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥

1.88.6

शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः ।
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥

1.88.7

अन्वग्भानुप्रभृतयो मिश्रकेश्यां मनस्विनः ।
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ॥

1.88.8

यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ।
सर्वे सर्वास्त्रविद्वासः सर्वे धर्मपरायणाः ॥

1.88.9

ऋचेयुरथ कक्षेयुः कृकणेयुश्च वीर्यवान् ।
स्थण्डिलेयुर्वनेयुश्च जलेयुश्च महायशाः ॥

1.88.10

तेजेयुर्बलावान्धीमान्सत्येयुश्चन्द्रविक्रमः ।
धर्मेयुः सन्नतेयुश्च दशमो देवविक्रमः ॥

1.88.11

अनाधृष्टिरभूत्तेषां विद्वान्भुवि तथैकराट् ।
ऋचेयुरथ विक्रान्तो देवानामिव वासवः ॥

1.88.12

अनाधृष्टिसुतस्त्वासीद्राजसूयाश्वमेधकृत् ।
मतिनार इति ख्यातो राजा परमधार्मिकः ॥

1.88.13

मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ।
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥

1.88.14

तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् ।
आजहार यशो दीप्तं जिगाय च वसुन्धराम् ॥

1.88.15

ईलिनं तु सुतं तंसुर्जनयामास वीर्यवान् ।
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥

1.88.16

रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः ।
ईलिनो जनयामास दुष्यन्तप्रभृतीन्नृपान् ॥

1.88.17

दुष्यन्तं शूरभीमौ च प्रवसुं वसुमेव च ।
तेषां श्रेष्ठोऽभवद्राजा दुष्यन्तो दुर्जयो युधि ॥

1.88.18

दुष्यन्ताल्लक्षणायां तु जज्ञे वै जनमेजयः ।
शकुन्तलायां भरतो दौष्यन्तिरभवत्सुतः ॥

1.88.19

तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc