भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 1.86

1.86.1

कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम् ।
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥
ययातिरुवाच ।

1.86.2

अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ।
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥

1.86.3

अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् ।
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः ॥

1.86.4

पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः ।
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते ॥

1.86.5

यद्वै नृशंसं तदसत्यमाहु- र्यः सेवते धर्ममनर्थबुद्धिः ।
अस्वोऽप्यनीशश्च तथैव राजं- स्तदार्जवं स समाधिस्तदार्यम् ॥
अष्टक उवाच ।

1.86.6

केनासि हूतः प्रहितोऽसि राज- न्युवा स्रग्वी दर्शनीयः सुवर्चाः ।
कुतऋ आयातः कतरस्यां दिशि त्व- मुताहोस्वित्पार्थिवं स्थानमस्ति ॥
ययातिरुवाच ।

1.86.7

इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रहीणः ।
विद्वांश्चैवं मतिमानार्यबुद्धि- र्ममाभवत्कर्मलोक्यं च सर्वम् । उक्त्वाऽहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां लोकपा ब्राह्मणा ये ॥

1.86.8

सतां सकाशे तु वृतः प्रपात- स्ते सङ्गता गुणवन्तश्च सर्वे ।
शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र ॥
अष्टक उवाच ।

1.86.9

पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र ।
यद्यन्तरिक्षे यदि वा दिवि स्थिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।

1.86.10

यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च ।
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥
अष्टक उवाच ।

1.86.11

तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः ॥
ययातिरुवाच ।

1.86.12

नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य ।
यथा प्रदेयं सततं द्विजेभ्य- स्तथाऽददं पूर्वमहं नरेन्द्र ॥

1.86.13

नाब्राह्मणः कृपणो जातु जीवे- द्या चाप्यस्याऽब्राह्मणी वीरपत्नी ।
सोऽहं नैवाकृतपूर्वं चरेयं विधित्समानः किमु तत्र साधुः ॥
प्रतर्दन उवाच ।

1.86.14

पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।

1.86.15

सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि ।
मधुच्युतो घृतपृक्ता विशोका- स्ते नान्तवन्तः प्रतिपालयन्ति ॥
प्रतर्दन उवाच ।

1.86.16

तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः ॥
ययातिरुवाच ।

1.86.17

न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् ।
दैवादेशादापदं प्राप्य विद्वां- श्चरेन्नृशंसं न हि जातु राजा ॥

1.86.18

धर्म्यं मार्गं यतमानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः ।
न मद्विधो धर्मबुद्धिः प्रजान- न्कुर्यादेवं कृपणं मां यथाऽत्थ ॥

1.86.19

कुर्यादपूर्वं न कृतं यदन्यै- र्विधित्समानः किमु तत्र साधु ।
धर्माधर्मौ सुविनिश्चित्य सम्य- क्कार्याकार्येष्वप्रमत्तश्चरेद्यः ॥

1.86.20

स वै धीमान्सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना ।
यदा भवेत्संशयो धर्मकार्ये कामार्थौ वा यत्र विन्दन्ति सम्यक् ॥

1.86.21

कार्यं तत्र प्रथमं धर्मकार्यं यन्नो विरुध्यादर्थकामौ स धर्मः
वैशम्पायन उवाच ।
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc